Skip to main content
Search
Ch. 4 RV 4.49
Full Chapter
RV • Chapter 4: Canto 4

RV 4.49

Canonical Ref: RV 4.49
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि । तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): दिशीति॥ दक्षिणस्यां दिशि रवेरपि तेजो मन्दायते मन्दं भवति। लोहितादित्वात्क्यष्प्रत्ययः। `वा क्यषः` (पा.1।3।90) इत्यात्मनेपदम्। दक्षिणायने तेजोमान्द्यादिति भावः। तस्यामेव दिशि। पाण्ड्याः पाण्डूनां जनपदानां राजानः पाण्ड्याः। `पाण्डोर्ड्यण्वक्तव्यः`(वा.2671)। रघोः प्रतापं न विषेहिरे न सोढवन्तः। सूर्यविजयिनोऽपि विजितवानिति नायकस्य महानुत्कर्षो गम्यते ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 4.49. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 4.48) All Verses in Chapter 4 Next Verse (RV 4.50) →