Skip to main content
Search
Ch. 4 RV 4.57
Full Chapter
RV • Chapter 4: Canto 4

RV 4.57

Canonical Ref: RV 4.57
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु । कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): खर्जूरीति॥ खर्जूरीणां तृणद्रुमविशेषाणाम्। `खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमा` इत्यमरः (अ.को.2|4|170)। स्कन्धेषु प्रकाण्डेषु। `अस्त्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः` इत्यमरः (अ.को.2|4|170)। नद्धानां बद्धानां करिणां मदोद्गारेण मदस्रावेण सुगन्धिषु। `गन्धस्येत्-` (पा.5।4।135) इत्यादिनेकारः। कटेषु गण्डेषु पुंनागेभ्यो नागकेशरेभ्यः पुंनागपुष्पाणि विहाय। ल्यब्लोपे पञ्चमी। शिलीमुखा अलयः पेतुः। `अलिबाणौ शिनीमुखौ` इत्यमरः (अ.को.2|4|170)। ततो।ञपि सौगन्ध्यातिशयादिति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 4.57. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 4.56) All Verses in Chapter 4 Next Verse (RV 4.58) →