Skip to main content
Search
Ch. 4 RV 4.42
Full Chapter
RV • Chapter 4: Canto 4

RV 4.42

Canonical Ref: RV 4.42
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
ताम्बूलीनां दलैस्तत्र रचितापानभूमयः । नारिकेलासवं योधाः शात्रवं च पपुर्यशः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): ताम्बूलीनामिति॥ तत्र महेन्द्राद्रौ। युध्यन्त इति योधाः। पचाद्यच्। रचिताः कल्पिता आपानभूमयः पानयोग्यप्रदेशा यैस्ते तथोक्ताः सन्तो नारिकेलासवं नारिकेलमद्यं ताम्बूलीनां नागवल्लीनां दलैः पपुः। तत्र विजह्रुरित्यर्थः। शात्रवं यशश्च पपुः, जह्रुरित्यर्थः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 4.42. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 4.41) All Verses in Chapter 4 Next Verse (RV 4.43) →