Skip to main content
Search
Ch. 4 RV 4.54
Full Chapter
RV • Chapter 4: Canto 4

RV 4.54

Canonical Ref: RV 4.54
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् । अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): भयेति॥ तेन रघुणा भयेनोत्सृष्टविभूषाणां परिहृतभूषणानां केरलयोषितां केरलाङ्गनानामलकेषु चमूरेणुः चूर्णस्य सेनारजश्चूर्णस्य कुङ्कुमादिरजसः प्रतिनिधीकृतः। एतेन योषितां पलायनं चमूनां च तदनुधावनं ध्वन्यते ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 4.54. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 4.53) All Verses in Chapter 4 Next Verse (RV 4.55) →