Skip to main content
Search
RV
Raghuvaṁśam • Chapter 13

Canto 13

त्रयोदशः सर्गः (दण्डकाप्रत्यागमनम्)

Canto 13 of Raghuvaṁśam.

Total: 79 Verses • Citations: RV 13.1–79 • 1 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
RV 13.31 उपजातिः
अत्रावियुक्तानि रथाङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि । द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये! सस्पृहमीक्षितानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अत्रेति॥ अत्र पम्पासरसि। अन्योन्यस्मै दत्तोत्पलकेसराण्यवियुक्तानि रथाङ्गनाम्नां द्वन्द्वानि चक्रवाकमिथुनानि ते तव दूरान्तरवर्तिना दूरदेशवर्तिना मया हे प्रिये! सस्पृहं साभिलाषमीक्षितानि। तदानीं त्वामस्मार्षमित्यर्थः॥
RV 13.32 इन्द्रवज्रा
इमां तटाशोकलतां च त्वीं स्तनाभिरामस्तबकाभिनम्राम् । त्वत्प्राप्तिबुद्ध्या परिरब्धुकामः सौमित्रिणा साश्रुरहं निषिद्धः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इमामिति॥ किंच स्तनवदभिरामाभ्यां स्तबकाभ्यामभिनम्नां तन्वीमिमां तटाशोकस्य लतां शाखाम् , अतस्त्वत्प्राप्तिबुद्धअया त्वमेव प्राप्तेति भ्रान्त्या परिरब्धुमालिङ्गितुं कामो यस्य सोऽहं सौमित्रिणा लक्ष्मणेन साश्रुर्निषिद्धः नेयं सीतेति निवारितः। `परिरब्धुकाम`इत्यत्र `तुं काममनसोरपि` इति वचनान्मकारलोपः ॥
RV 13.33 उपजातिः
अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् । प्रत्युद्द्रजन्तीव खमुत्पतन्त्यो गोदावरीसारसपङ्क्तयस्त्वाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अमूरिति॥ विमानस्यान्तरेष्ववकाशेषु लम्बंन्ते यास्तासां काञ्चनकिङ्किणीनां स्वनं श्रुत्वा स्वयूथशब्दभ्रमात्खमाकाशमुत्पतन्त्योऽमूर्गोदावरीसारसपङ्क्तयस्त्वां प्रत्युद्द्रजन्तीव ॥
RV 13.34 उपजातिः
एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता । आनन्दयत्युन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एषेति॥ पेशलमध्ययापि। भाराक्षमयापीत्यर्थः। त्वया घटाम्बुभिः संवर्धिता बालचूता यस्याः सा। उन्मुखा अस्मदभिमुखा त्वत्संवर्धिता एव कृष्णसारा यस्याः सा चिराद्दृष्टैषा पञ्चवती मे मन आनन्दयत्याह्लादयति। `पञ्चवटी`शब्दः पूर्वमेव व्याख्यातः ॥
RV 13.35 उपजातिः
अत्रानुगोदं मृगयानिवृत्तस्तरंगवातेन विनीतखेदः । रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अत्रेति॥ अत्र पञ्चवट्याम्। गोदा गोदावरी, तस्याः समीपेऽनुगोदम्। `अनुर्यत्समया` (पा.2।1।15) इत्यव्ययीभावः। मृगयाया निवृत्तस्तरंगवातेन विनीतखेदो रहो रहसि। अत्यन्तसंयोगे द्वितीया। त्वदुत्सङ्गनिषण्णमूर्धा सन्नहं वानीरगृहेषु सुप्तः स्मरामि। वाक्यार्थः कर्म। सुप्त इति यत्तत्स्मरामीत्यर्थः ॥
RV 13.36 इन्द्रवज्रा
भ्रूमेदमात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार । तस्याविलाम्भः परिशुद्धिहेतोर्भौमो मुनेः स्थआनपरिग्रहोऽयम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भ्रूमेदेति॥ यो मुनिर्भ्रूभेदमात्रेण भ्रूभङ्गमात्रेणैव नहुषं राजानं मघोनः पदादिन्द्रत्वात्। प्रभ्रंशयां चकार प्रभ्रंशयति स्म। आविलाम्भः परिशुद्धिहेतोः कलुषजलप्रसादहेतोस्तस्य मुनेरगस्त्यस्य। अगस्त्योदये शरदि जलं प्रसीदतीत्यक्तं प्राक्। भूमौ भवो भौमः स्थानपरिग्रह आश्रमोऽयम्। दृश्यत इति शेषः। `भौम`इत्यनेन दिव्योऽप्यस्तीत्युक्तम्। परिगृह्यत इति परिग्रहः, स्थानमेव परिग्रह इति विग्रहः ॥
RV 13.37 उपजातिः
त्रेताग्निधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्तविमानमार्गम् । घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मेलघिमानमात्मा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त्रेतेति॥ अनिन्द्यकीर्तेस्तस्यागस्त्यस्य। आक्रान्तविमानमार्गम्। हविर्गन्धोऽस्यास्तीति हविर्गन्धि त्रैताग्निरग्नित्रयम्। `अग्नित्रयमिदं त्रेता` इत्यमरः (अ.को.2|7|22)। पृषोदरादित्वादेत्वम्। त्रेताग्नेर्धूमाग्निमिदं घ्रात्वाऽऽघ्राय रजसो गुणाद्विमुक्तो मे मम। आत्माऽन्तःकरणं लघिमानं लघुत्वगुणं समाश्नुते प्राप्नोति ॥
RV 13.38 इन्द्रवज्रा
एतन्मुनेर्मानिनि! शातकर्णेः पञ्चाप्सरो नाम विहारवारि । आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एतदिति॥ हे मानिनि! शातकर्णेर्मुनेः संबन्धि पञ्चाप्सरो नाम `पञ्चाप्सर`इति प्रसिद्धम्। पञ्च अप्सरसो यस्मिन्निति विग्रहः। पर्यन्तेषु वनानि यस्य तत्पर्यन्तवनमेतद्विहारवारि क्रीडासरो विदूरात्। मेघानामन्तरे मध्य आलक्ष्यमीषद्दृश्यम्। आङीषदर्थेऽभिव्याप्तौ। इन्दुबिम्बमिव। आभाति ॥
RV 13.39 उपजातिः
पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोनाः । समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पुरेति॥ पुरा पूर्वस्मिन्काले दर्भाङ्कुरमात्रवृत्तिस्तन्मात्राहारो मृगैः सार्धं सह चरन्, स ऋषिः समाधेस्तपसो भीतेन मघोनेन्द्रेण पञ्चानामप्सरसां यौवनम्। `तद्धितार्थ-` (पा.2।1।51)इत्यादिनोत्तरपदसमासः। तदेव कूटबन्धं कपटयन्त्रमुपनीतः। `उन्माथः कूटयन्त्रं स्यात्` इत्यमरः (अ.को.2|10|26)। `किल`इत्यैतिह्ये मृगसाहचर्यान्मृगवदेव बद्ध इति भावः ॥
RV 13.40 उपजातिः
तस्यायमन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः । वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ अन्दतर्हितसौधभाजो जलान्तर्गतप्रासादगतस्य तस्य शातकर्णेरयं प्रस्क्तः संततः संगीतमृदङ्गघोषो वियद्गतः सन् पुष्पकस्य चन्द्रशालाः शिरोगृहाणि। `चन्द्रशाला शिरोगृहम्` इति हलायुधः। क्षणं प्रतिश्रुद्भिः प्रतिध्वानैर्मुखरा ध्वनन्तीः करोति। `स्त्री प्रतिश्रुत्प्रतिध्वाने` इत्यमरः (अ.को.1|6|28) ॥
RV 13.41 उपजातिः
हविर्भुजामेधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः । असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): हविरिति॥ नाम्ना सुतीक्ष्णः सुतीक्ष्णनामा चरितेन दान्तः सौम्योऽसाक्परस्तपस्वी। एधवतामिन्धनवताम्। `काष्ठं दार्विन्धनं त्वेधः` इत्यमरः (अ.को.2|4|13)। चतुर्णां हविर्भुजामग्नीनां मधअये। ललाटं तपतीति ललाटंतपः सूर्यः। `असूर्यललाटयोर्दृशितपोः` (पा.3।2।36)इति खश्प्रत्ययः। `अरुर्द्विषत्-`(6।3।67)इत्यादिना मुमागमः। ललाटंतपः सप्तसप्तिः सप्ताश्वः सूर्यो यस्य स तथोक्तः सन्। तपस्यति तपश्चरति। `कर्मणो रोमन्थतपोभ्यां वर्तिचरोः` (पा.3।1।15) इति क्यङअ। `तपसः परस्मैपदं च`(वा1733) इति वक्तव्यम् ॥
RV 13.42 उपजातिः
अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि । नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अमुमिति॥ जनितेन्द्रशङ्कम्। तपसेति शेषः। अमुं सुतीक्ष्णं सहासं प्रहितानीक्षणानि दृष्टयो येषु तानि। व्याजेन केनचिन्मिषिण। `पुंस्यर्धोऽर्धं समेंऽशके`इति विश्वः। अर्धमीषत् संदर्शिता मेखला येषु तानि सुराङअगनानामिन्द्रिप्रेषितानां विभ्रमा विलासा एव चेष्टितानि विकर्तुं स्खलयितुमलं समर्थानि न । बभृवुरिति शेषः ॥
RV 13.43 उपजातिः
एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् । सभाजने मे भुजमूर्ध्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एष इति॥ ऊर्ध्वबाहुरेष सुतीक्ष्णोऽक्षमालैव वलयं यस्य तं मृगाणां कण्डूयितारम्। कुशा एव सूचयस्ता लुनातीति कुशसूचिलावस्तम्। `कर्मण्यण्` (पा.3।2।1)इत्यण्। एभिर्विशेषणैर्जयशीलत्वं भूतदया कर्मक्षमत्वं च द्योत्यते। सव्यादितरं दक्षिणं भुजं मे मम सभाजने संमाननिमित्ते। `निमित्तात्कर्मयोगे`(वा.1490)इति सप्तमी। इतः प्राध्वं प्रकृतानुकूलबन्धं प्रयुङ्क्ते। `आनुकूल्यार्थकं प्राध्वम्` इत्यमरः (अ.को.3|4|4)। अव्ययं चैतत् ॥
RV 13.44 उपजातिः
वाचंयमत्वात्प्रणतिं ममैष कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः । दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधत्ते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वाचंयमेति॥ एष सुतीक्ष्णः। वाचं यच्छतीति वाचंयमो मौनव्रती। `वाचि यमो व्रते` (पा.3।2।40)इति खच्प्रत्ययः। `वाचंयमपुरंदरौ च` (पा.6।3।69)इति मुम्। तस्य भावस्तत्त्वान्मम प्रणतिं किंचिन्मूर्ध्नः कम्पेन प्रतिगृह्य विमानेन व्यवधानं तोरोधानं तस्मान्मुक्ताम्। अपेतापोढमुक्तपततित-` (पा.2।1।38) इत्यादिना पञ्चमीसमासः। दृष्टिं पुनः सहस्रार्चिषि सूर्ये संनिधत्ते । सम्यग्धत्त इत्यर्थः। अन्यथाऽकर्मकत्वप्रसङ्गात्` ॥
RV 13.45 उपजातिः
अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः । चिराय संतर्प्य समिद्भिरग्निं यो मन्त्रपूतां तनुमप्यहौषीत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अद इति॥ शरणे रक्षणे साधु शरण्यम्। पावयतीति पावनम्। अदो दृश्यमानं तपोवनमाहिताग्नेः शरभङ्गनाम्नो मुनेः संबन्धि। यः शरभङ्गश्चिरायचिरमग्निं समिद्भिः संतर्प्य तर्पयित्वा ततो मन्त्रैः पूतां शुद्धां तनुमप्यहौषीद्धुतवान्। जुहोतेर्लुङ् ॥
RV 13.46 इन्द्रवज्रा
छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु । तस्यातिथीनामधुना सपर्या स्थइता सुपुत्रेष्विव पादपेषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): छायेति॥ अधुनाऽस्मिन्काले तस्य शरभङ्गस्य संबन्धिन्यतिथीनां सपर्याऽतितिपूजा। `पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः` इत्यमरः (अ.को.2|7|37)। छायाभिर्विनीतोऽपनीतोऽध्वपरिश्रमो यैस्तेषु भूयिष्ठानि बहुतमानि संभाव्यानि श्लाघ्यानि फलानि येषां तेष्वमीषु पादपेष्वाश्रमवृक्षेषु सुपुत्रेष्विव स्थिता। तत्पुत्रैरिव पादपैरनुष्ठीयतत इत्यर्थः॥
RV 13.47 इन्द्रवज्रा
धारास्वनोद्गारिदरीमुखोऽसौ श्रृङ्गाग्रलग्नाम्बुजवप्रपङ्कः । बध्नाति मे बन्धुरगात्रि! चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): धारेति॥ धारा निर्झरधाराः। यद्वा, -धआरया सातत्येन स्वनोद्गारिदर्येव मुखं यस्य सः। श्रृङ्गं शिखरं विषाणां च तस्याग्रे लग्नोऽम्बुद एव वप्रपङ्को वप्रक्रीडासक्तपङ्को यस्य सः। असौ चित्रकूटो हे बन्धुरगात्रि उन्नतानताङ्गि!`बन्धुरं तून्नतानतम्` इत्यमरः (अ.को.3|1|68)। दृप्तः ककुद्मान् वृषभ इव। मे चक्षुर्बध्नात्यनन्यासक्तं करोति ॥
RV 13.48 उपजातिः
एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी । मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एषेति॥ प्रसन्नो निर्मलः स्तिमितो निःस्पदः प्रवाहो यस्याः सा विदूरस्यान्तरस्य मध्यवर्त्यवकाशस्य भावात्तन्वी दूरदेशवर्तित्वात्तनुत्वेनावभासमाना मन्दाकिनी नाम काचिञ्चित्रकूटनिकटगैषा सरित्। गोपकण्ठेन भूमेः कण्ठगता मुक्तावलीव। भाति। अत्र नगस्य शिरस्त्वं तदुपकण्ठस्य कण्ठत्वं च गम्यते ॥
RV 13.49 उपेन्द्रवज्रा
अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य । यवाङ्कुरापाण्डुकपोलशोभी मयावतंसः परिकल्पितस्ते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अयमिति॥ गिरेः समीपेऽनुगिरम्। `गिरेश्च सेनकस्य` (पा.5।4।112)इति समासान्तषअटच्प्रत्ययः। सुजातः स तमालोऽयं दृश्यते। यस्य तमालस्य। शोभनो ग्धो यस्य तत्सुगन्धि। `गन्धस्य-` (पा.5।4।135)इत्यादिनेकारः समासान्तः। प्रवालं पल्लवमादाय मया ते यवाङ्कुरवदापाण्डौ कपोले शोमीशोभते यः सोऽवतंसः परिकल्पितः ॥
RV 13.50 उपजातिः
अनिग्रहत्रासविनीतसत्त्वमपुष्पलिङ्गात्फलबन्धिवृक्षम् । वनं तपःसाधनमेतदत्रेराविष्कृतोदग्रतरप्रभावम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनिग्रहेति॥ अनिग्रहत्रासा दण्डभयरहिता अपि विनीताः सत्त्वा जन्तवो यस्मिंस्तत्। अपुष्पलिङ्गात्पुष्पनिमित्तं विनैव फलबन्धिनः फलग्राहिणो वृक्षा यस्मिंस्तत्। अथ एवाऽऽविष्कृतोदग्रतरप्रभावमत्रेर्मुनेस्तपसः साधनं वनमेतत् ॥
RV 13.51 उपजातिः
अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम् । प्रवर्तयामास किलानसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अत्रेति॥ अत्र वनेऽनसूयाऽत्रिपत्नी। सप्त च ते ऋषयश्च सप्तर्षयः। `दिक्संखअये संज्ञायाम्` (पा.2।1।50) इति तत्पुरुषसमासः। तेषां हस्तौरुद्धृतानि हेमपद्मानि यस्यास्तां त्र्यम्बकमौलिमालां हरशिरःस्रजं त्रिस्रोतप्तं भागीरथीं तपोधनानामृषीणामभिषेकाय स्नानाय प्रवर्तयामास प्रवाहयामास। किलेत्यैतिह्ये ॥
RV 13.52 उपजातिः
वीरसनैर्ध्यानजुषामृषीणाममी समध्यासितवेदिमध्याः । निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वीरेति॥ वीरासनैर्जयसाधनैः। ध्यानं जुषन्ते सेवन्त इति ध्यानजुषः। तेषां तैरुपविश्य ध्यायतामृषीणां संबन्धिनः समध्यासितवेदिमध्याः। इदं वीरासनस्थानीयम्। अमी शाखिनोऽपि निवाते निष्कम्पतया योगाधिरूढा इव ध्यानभाज इव विभान्ति। ध्यायन्तोऽपि निश्चलाङ्गा भवन्ति। वीरासने वसिष्ठः-`एकपादमथैकस्मिन्विन्यस्योरूणि संस्थितम्। इतरस्मिंस्तथा चान्यं वीरासनमुदाहृतम्॥` इति ॥
RV 13.53 उपजातिः
त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः । राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त्वयेति॥ त्वया पुरस्तात् पूर्वं य उपयाचितः प्रार्थितः। तथा च रामायणे-`न्यग्रोधं तमुपस्थाय वैदेह्री वाक्यमब्रवीत्। नमस्तेऽस्तुं महावृक्ष! पालयेन्मे व्रतं पतिः॥` इति। श्याम इति प्रतीतः स वटोऽयं फलितः सन्। सपद्मरागो गारुडानां मणीनां मरकतानां राशिरिव। विभाति ॥
RV 13.54 उपजातिः
क्वचित्प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा । अन्यत्र माला सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): हे अनवद्याङअगि! यमुनातरङ्गैर्भिन्नप्रवाहा व्यामिश्रौघा गङ्गा जाह्नवी विभाति। त्वं पशअय। केव? क्वचित्प्रदेशे प्रभया लिम्पन्ती संनिहितमिति प्रभालेपिभिरिन्द्रनीलैरनुविद्धा सह गुम्फिता मुक्तामयी यष्टिरिव हारावलिरिव विभाति। अन्यत्र प्रदेश इन्दीवरैर्नीलोत्पलैरुत्खचितान्तरा सह ग्रथिता सितपङ्कजानां पुण्डरीकाणां मालेव। विभातीति सर्वत्र संबन्धः। क्वचित्कादम्बसंसर्गवती नीलहंससंसृष्टा प्रियं मानसं नाम सरो येषां खगानां राजहंसानां पङ्क्तिरिव। `राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः` इत्यमरः (अ.को.2|5|26)। अन्यत्र कालागुरुणा दत्त पत्रा रचितमकरिकापत्रा भुवश्चन्दनकल्पिता भक्तिरिव। क्वचिच्छायासु विलीनैः स्थितैस्तमोभिः शबलीकृता कर्बुरीकृता चान्द्रमसी प्रभा चन्द्रिकेव। अन्यत्र रन्ध्रेष्वालक्ष्यनभःप्रदेशा शुभ्रा शरदभ्रलेखा शरन्मेघपङ्क्तिरिव। क्वचित्कृष्णोरगभूषणा भस्माङ्गरागेश्वरस्य तनुरिव विभाति। शेषो व्याख्यातः। कलापकम् ॥
RV 13.55 उपजातिः
क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पङ्क्तिः । अन्यत्र कालागुरुदत्तपत्रा भक्तिर्भुवश्चन्दनकल्पितेव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): हे अनवद्याङअगि! यमुनातरङ्गैर्भिन्नप्रवाहा व्यामिश्रौघा गङ्गा जाह्नवी विभाति। त्वं पशअय। केव? क्वचित्प्रदेशे प्रभया लिम्पन्ती संनिहितमिति प्रभालेपिभिरिन्द्रनीलैरनुविद्धा सह गुम्फिता मुक्तामयी यष्टिरिव हारावलिरिव विभाति। अन्यत्र प्रदेश इन्दीवरैर्नीलोत्पलैरुत्खचितान्तरा सह ग्रथिता सितपङ्कजानां पुण्डरीकाणां मालेव। विभातीति सर्वत्र संबन्धः। क्वचित्कादम्बसंसर्गवती नीलहंससंसृष्टा प्रियं मानसं नाम सरो येषां खगानां राजहंसानां पङ्क्तिरिव। `राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः` इत्यमरः (अ.को.2|5|26)। अन्यत्र कालागुरुणा दत्त पत्रा रचितमकरिकापत्रा भुवश्चन्दनकल्पिता भक्तिरिव। क्वचिच्छायासु विलीनैः स्थितैस्तमोभिः शबलीकृता कर्बुरीकृता चान्द्रमसी प्रभा चन्द्रिकेव। अन्यत्र रन्ध्रेष्वालक्ष्यनभःप्रदेशा शुभ्रा शरदभ्रलेखा शरन्मेघपङ्क्तिरिव। क्वचित्कृष्णोरगभूषणा भस्माङ्गरागेश्वरस्य तनुरिव विभाति। शेषो व्याख्यातः। कलापकम् ॥
RV 13.56 उपजातिः
क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव । अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभः प्रदेशा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): हे अनवद्याङअगि! यमुनातरङ्गैर्भिन्नप्रवाहा व्यामिश्रौघा गङ्गा जाह्नवी विभाति। त्वं पशअय। केव? क्वचित्प्रदेशे प्रभया लिम्पन्ती संनिहितमिति प्रभालेपिभिरिन्द्रनीलैरनुविद्धा सह गुम्फिता मुक्तामयी यष्टिरिव हारावलिरिव विभाति। अन्यत्र प्रदेश इन्दीवरैर्नीलोत्पलैरुत्खचितान्तरा सह ग्रथिता सितपङ्कजानां पुण्डरीकाणां मालेव। विभातीति सर्वत्र संबन्धः। क्वचित्कादम्बसंसर्गवती नीलहंससंसृष्टा प्रियं मानसं नाम सरो येषां खगानां राजहंसानां पङ्क्तिरिव। `राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः` इत्यमरः (अ.को.2|5|26)। अन्यत्र कालागुरुणा दत्त पत्रा रचितमकरिकापत्रा भुवश्चन्दनकल्पिता भक्तिरिव। क्वचिच्छायासु विलीनैः स्थितैस्तमोभिः शबलीकृता कर्बुरीकृता चान्द्रमसी प्रभा चन्द्रिकेव। अन्यत्र रन्ध्रेष्वालक्ष्यनभःप्रदेशा शुभ्रा शरदभ्रलेखा शरन्मेघपङ्क्तिरिव। क्वचित्कृष्णोरगभूषणा भस्माङ्गरागेश्वरस्य तनुरिव विभाति। शेषो व्याख्यातः। कलापकम् ॥
RV 13.57 इन्द्रवज्रा
क्वचिञ्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य । पश्यानवद्याङअगि! विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): हे अनवद्याङअगि! यमुनातरङ्गैर्भिन्नप्रवाहा व्यामिश्रौघा गङ्गा जाह्नवी विभाति। त्वं पशअय। केव? क्वचित्प्रदेशे प्रभया लिम्पन्ती संनिहितमिति प्रभालेपिभिरिन्द्रनीलैरनुविद्धा सह गुम्फिता मुक्तामयी यष्टिरिव हारावलिरिव विभाति। अन्यत्र प्रदेश इन्दीवरैर्नीलोत्पलैरुत्खचितान्तरा सह ग्रथिता सितपङ्कजानां पुण्डरीकाणां मालेव। विभातीति सर्वत्र संबन्धः। क्वचित्कादम्बसंसर्गवती नीलहंससंसृष्टा प्रियं मानसं नाम सरो येषां खगानां राजहंसानां पङ्क्तिरिव। `राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः` इत्यमरः (अ.को.2|5|26)। अन्यत्र कालागुरुणा दत्त पत्रा रचितमकरिकापत्रा भुवश्चन्दनकल्पिता भक्तिरिव। क्वचिच्छायासु विलीनैः स्थितैस्तमोभिः शबलीकृता कर्बुरीकृता चान्द्रमसी प्रभा चन्द्रिकेव। अन्यत्र रन्ध्रेष्वालक्ष्यनभःप्रदेशा शुभ्रा शरदभ्रलेखा शरन्मेघपङ्क्तिरिव। क्वचित्कृष्णोरगभूषणा भस्माङ्गरागेश्वरस्य तनुरिव विभाति। शेषो व्याख्यातः। कलापकम् ॥
RV 13.58 उपजातिः
समुद्रपत्न्योर्जलसंनिपाते पूतात्मनामत्र किलाभिषेकात् । तत्त्वावबोधेन विनापि भूयस्तनुत्यजां नास्ति शरीरबन्धः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): समुद्रेति॥ अत्र समुद्रपत्न्योर्गङ्गा-यमुनयोर्जलसंनिपाते संगमेऽभिषेकात् स्नानात् पूतात्मनां तनुत्यजां शुद्धात्मनां पुंसां तत्त्वावबोधेन तत्त्वज्ञानेन विनापि प्रारब्धशरीरत्यागानन्तरं भूयः पुनः शरीरबन्धः शरीरयोगो नास्ति किल। अन्यत्र ज्ञानादेव मुक्तिः, अत्र तु स्नानादेव मुक्तिरित्यर्थथः॥
RV 13.59 उपजातिः
पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय । जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि! कामाः फलितास्तवेति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पुरमिति॥ निषादाधिपतेर्गुहस्य तत्पुरमिदम्। यस्मिन्पुरे मया मौलिमणिं विहाय जटासु बद्धासु रचितासु सतीषु सुमन्त्रः `हे कैकेयि! तव कामा मनोरथाः फलिताः सफला जाताः`इत्यरुदत्। `रुदिरश्रुविमोचने`इति धातोर्लुङ् ॥
RV 13.60 उपजातिः
पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः । ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पयोधरैरिति॥ पुण्यजनाङ्गनानां यक्षस्त्रीणां पयोधरैः स्तनैर्निर्विष्ट उपभुक्तो हेमाम्बुजरेणुर्यस्य तत्। तत्र ताः क्रीडन्तीति व्तयज्यते। ब्रह्मण इदं ब्राह्मम्। `नस्तद्धिते` (पा.6।4।144)इति टिलोपः। ब्राह्मं सरो मानसाख्यं यस्याः सरय्वाः। बुद्धेर्महत्तत्त्वस्याव्यक्तं प्रधानमिव कारणम्। आप्तस्य वाच आप्तवाचो वेदाः। यद्वा, -बहुव्रीहिणा मुनयः। उदाहरन्ति प्रचक्षथे ॥
← Previous (Ch. 12) Full Table of Contents Next (Ch. 14) →