Skip to main content
Search
Ch. 13 RV 13.42
Full Chapter
RV • Chapter 13: Canto 13

RV 13.42

Canonical Ref: RV 13.42
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि । नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अमुमिति॥ जनितेन्द्रशङ्कम्। तपसेति शेषः। अमुं सुतीक्ष्णं सहासं प्रहितानीक्षणानि दृष्टयो येषु तानि। व्याजेन केनचिन्मिषिण। `पुंस्यर्धोऽर्धं समेंऽशके`इति विश्वः। अर्धमीषत् संदर्शिता मेखला येषु तानि सुराङअगनानामिन्द्रिप्रेषितानां विभ्रमा विलासा एव चेष्टितानि विकर्तुं स्खलयितुमलं समर्थानि न । बभृवुरिति शेषः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.42. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.41) All Verses in Chapter 13 Next Verse (RV 13.43) →