Skip to main content
Search
Ch. 13 RV 13.41
Full Chapter
RV • Chapter 13: Canto 13

RV 13.41

Canonical Ref: RV 13.41
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
हविर्भुजामेधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः । असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): हविरिति॥ नाम्ना सुतीक्ष्णः सुतीक्ष्णनामा चरितेन दान्तः सौम्योऽसाक्परस्तपस्वी। एधवतामिन्धनवताम्। `काष्ठं दार्विन्धनं त्वेधः` इत्यमरः (अ.को.2|4|13)। चतुर्णां हविर्भुजामग्नीनां मधअये। ललाटं तपतीति ललाटंतपः सूर्यः। `असूर्यललाटयोर्दृशितपोः` (पा.3।2।36)इति खश्प्रत्ययः। `अरुर्द्विषत्-`(6।3।67)इत्यादिना मुमागमः। ललाटंतपः सप्तसप्तिः सप्ताश्वः सूर्यो यस्य स तथोक्तः सन्। तपस्यति तपश्चरति। `कर्मणो रोमन्थतपोभ्यां वर्तिचरोः` (पा.3।1।15) इति क्यङअ। `तपसः परस्मैपदं च`(वा1733) इति वक्तव्यम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.41. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.40) All Verses in Chapter 13 Next Verse (RV 13.42) →