Skip to main content
Search
Ch. 13 RV 13.43
Full Chapter
RV • Chapter 13: Canto 13

RV 13.43

Canonical Ref: RV 13.43
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् । सभाजने मे भुजमूर्ध्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): एष इति॥ ऊर्ध्वबाहुरेष सुतीक्ष्णोऽक्षमालैव वलयं यस्य तं मृगाणां कण्डूयितारम्। कुशा एव सूचयस्ता लुनातीति कुशसूचिलावस्तम्। `कर्मण्यण्` (पा.3।2।1)इत्यण्। एभिर्विशेषणैर्जयशीलत्वं भूतदया कर्मक्षमत्वं च द्योत्यते। सव्यादितरं दक्षिणं भुजं मे मम सभाजने संमाननिमित्ते। `निमित्तात्कर्मयोगे`(वा.1490)इति सप्तमी। इतः प्राध्वं प्रकृतानुकूलबन्धं प्रयुङ्क्ते। `आनुकूल्यार्थकं प्राध्वम्` इत्यमरः (अ.को.3|4|4)। अव्ययं चैतत् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.43. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.42) All Verses in Chapter 13 Next Verse (RV 13.44) →