Skip to main content
Search
Ch. 13 RV 13.44
Full Chapter
RV • Chapter 13: Canto 13

RV 13.44

Canonical Ref: RV 13.44
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
वाचंयमत्वात्प्रणतिं ममैष कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः । दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधत्ते ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): वाचंयमेति॥ एष सुतीक्ष्णः। वाचं यच्छतीति वाचंयमो मौनव्रती। `वाचि यमो व्रते` (पा.3।2।40)इति खच्प्रत्ययः। `वाचंयमपुरंदरौ च` (पा.6।3।69)इति मुम्। तस्य भावस्तत्त्वान्मम प्रणतिं किंचिन्मूर्ध्नः कम्पेन प्रतिगृह्य विमानेन व्यवधानं तोरोधानं तस्मान्मुक्ताम्। अपेतापोढमुक्तपततित-` (पा.2।1।38) इत्यादिना पञ्चमीसमासः। दृष्टिं पुनः सहस्रार्चिषि सूर्ये संनिधत्ते । सम्यग्धत्त इत्यर्थः। अन्यथाऽकर्मकत्वप्रसङ्गात्` ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.44. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.43) All Verses in Chapter 13 Next Verse (RV 13.45) →