Skip to main content
Search
Ch. 13 RV 13.52
Full Chapter
RV • Chapter 13: Canto 13

RV 13.52

Canonical Ref: RV 13.52
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
वीरसनैर्ध्यानजुषामृषीणाममी समध्यासितवेदिमध्याः । निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): वीरेति॥ वीरासनैर्जयसाधनैः। ध्यानं जुषन्ते सेवन्त इति ध्यानजुषः। तेषां तैरुपविश्य ध्यायतामृषीणां संबन्धिनः समध्यासितवेदिमध्याः। इदं वीरासनस्थानीयम्। अमी शाखिनोऽपि निवाते निष्कम्पतया योगाधिरूढा इव ध्यानभाज इव विभान्ति। ध्यायन्तोऽपि निश्चलाङ्गा भवन्ति। वीरासने वसिष्ठः-`एकपादमथैकस्मिन्विन्यस्योरूणि संस्थितम्। इतरस्मिंस्तथा चान्यं वीरासनमुदाहृतम्॥` इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.52. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.51) All Verses in Chapter 13 Next Verse (RV 13.53) →