Skip to main content
Search
Ch. 13 RV 13.53
Full Chapter
RV • Chapter 13: Canto 13

RV 13.53

Canonical Ref: RV 13.53
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः । राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): त्वयेति॥ त्वया पुरस्तात् पूर्वं य उपयाचितः प्रार्थितः। तथा च रामायणे-`न्यग्रोधं तमुपस्थाय वैदेह्री वाक्यमब्रवीत्। नमस्तेऽस्तुं महावृक्ष! पालयेन्मे व्रतं पतिः॥` इति। श्याम इति प्रतीतः स वटोऽयं फलितः सन्। सपद्मरागो गारुडानां मणीनां मरकतानां राशिरिव। विभाति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.53. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.52) All Verses in Chapter 13 Next Verse (RV 13.54) →