Skip to main content
Search
Ch. 13 RV 13.46
Full Chapter
RV • Chapter 13: Canto 13

RV 13.46

Canonical Ref: RV 13.46
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु । तस्यातिथीनामधुना सपर्या स्थइता सुपुत्रेष्विव पादपेषु ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): छायेति॥ अधुनाऽस्मिन्काले तस्य शरभङ्गस्य संबन्धिन्यतिथीनां सपर्याऽतितिपूजा। `पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः` इत्यमरः (अ.को.2|7|37)। छायाभिर्विनीतोऽपनीतोऽध्वपरिश्रमो यैस्तेषु भूयिष्ठानि बहुतमानि संभाव्यानि श्लाघ्यानि फलानि येषां तेष्वमीषु पादपेष्वाश्रमवृक्षेषु सुपुत्रेष्विव स्थिता। तत्पुत्रैरिव पादपैरनुष्ठीयतत इत्यर्थः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.46. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.45) All Verses in Chapter 13 Next Verse (RV 13.47) →