भर्तुऋ प्रणाशादथ शोचनीयं दशान्तरं तत्र समं प्रपन्ने । अपश्यतां दाशरथी जनन्यौ छेदादिवोपघ्नतरोर्व्रतत्यौ ॥
उभावुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ । विस्पष्टमस्नान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भात् ॥
आनन्दजः शोकजमश्रु बाष्पस्तयोरशीतं शिशिरो बिभेद । गङ्गासरय्वोर्जलमुष्णतप्तं हिमाद्रिनिस्यन्द इवावतीर्णः ॥
ते पुत्रयोर्नैर्ऋतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ । अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दमकामयेताम् ॥
क्लेशावहा भर्तुरलक्षणाहं सीतेति नाम स्वमुदीरयन्ती । स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे ॥
उत्तिष्ठ वत्से! ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव । कृच्छ्रं महत्तीर्ण इति प्रियार्हां तामूचतुस्ते प्रियमप्यमिथ्या ॥
अथाभिषेकं रघुवंशकेतोः प्रारब्धमानन्दजलैर्जनन्योः । निर्वर्तयामासुरमात्यवृद्धास्तीर्थाहृतैः काञ्चनकुम्भतोयैः ॥
सरित्समुद्रान्सरसीश्च गत्वा रक्षःकपीन्द्रैरुपपादितानि । तस्थापतन्मूर्ध्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः ॥
तपस्विवेषक्रिययापि तावद्यः प्रेक्षणीयः सुतरां बभूव । राजेन्द्रनेपथ्यविधानशोभा तस्योदितासीत्पुनरुक्तदोषा ॥
स मौलरक्षोहरिभिः सैसन्यस्तूर्यस्वनानन्दितपौरवर्गः । विवेश सौधोद्गतलाजवर्षामुत्तोरणामन्वयराजधानीम् ॥
सौमित्रिणा सावरजेन मन्दमाधूतबालव्यजनो रथस्थः । धृतातपत्रो भरतेन साक्षादुपायसंघात इव प्रवृद्धः ॥
प्रासादकालागुरुधूमराजिस्तस्याः पुरो वायुवशेन भिन्ना । वनान्निवृत्तेन रघूत्तमेन मुक्ता स्वयं वेणिरिवाबभासे ॥
श्वश्रूजनानुषअठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीम् । प्रासादवातायनदृशअयबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः ॥
स्फुरत्प्रभामण्डलमानसूयं सा ब्रिभ्रती शाश्वतमङ्गरागम् । रराज शुद्धेति पुनः स्वपुर्यै संदर्शिता वह्निगतेव भर्त्रा ॥
वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्दनिधिः सुहृद्भ्यः । बाष्पायमाणो बलिमन्निकेतमालेख्यशेषस्य पितुर्विवेश ॥
कृताञ्जलिस्तत्र यदम्ब! सत्यान्नाभ्रश्यत स्वर्गफलाद्गुरुर्नः । तञ्चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातुः ॥
तथैव सुग्रीवबिभीषणादीनुपाचरत्कृत्रिमसंविधाभिः । संकल्पमात्रोदितसिद्धयस्ते क्रान्ता यथा चेतसि विस्मयेन ॥
सभाजनायोपगतान्स दिव्यान्मुनीन्पुरस्कृत्य हतस्य शत्रोः । शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवमादधानम् ॥
प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान् । सीतास्वहस्तोपहृताग्र्यपूजान्रक्षःकपीन्द्रान्विससर्ज रामः ॥
तञ्चात्मचिन्तासुलभं विमानं हृतं सुरारेः सह जीवितेन । कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकमन्वमंस्त ॥
पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः । धर्मार्थकामषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ॥
सर्वासु मातृष्वपि वत्सलत्वात्स निर्विशेषप्रतिपत्तिरासीत् । षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु ॥
तेनार्थवाँल्लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् । तेनास लोकः पितृमान्विनेत्रा तेनैव शोकापनुदेव पुत्री ॥
स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दुहित्रा । उपस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या ॥
तयोर्यथाप्रार्थितमिन्द्रियार्थानासेदुषोः सद्मसु चित्रवत्सु । प्राप्तानि दुःखान्यपि दण्डकेषु संचिन्त्यमानानि सुखान्यभूवन् ॥
अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण । आनन्दयित्री परिणेतुरासीदनक्षरव्यञ्जितदोहदेन ॥
तामङ्कमारोप्य कृशाङ्गयष्टं वर्णान्तराक्रान्तपयोधराग्राम् । विलज्जमानां रहसि प्रतीतः पप्रच्छ रामां रमणोऽभिलाषम् ॥
सा दष्टनीवारबलीनि हिंस्रैः संबद्धवैखानसकन्यकानि । इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि ॥
तस्यै प्रतिश्रुत्य रघुप्रवीरस्तदीप्सितं पार्श्वचरानुयातः । आलोकयिष्यन्मुदितामयोध्यां प्रासादमभ्रंलिहमारुरोह ॥
ऋद्धापणं राजपथं स पश्यन्विगाह्यमानां सरयूं च नौभिः । विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे ॥