Skip to main content
Search
Ch. 14 RV 14.16
Full Chapter
RV • Chapter 14: Canto 14

RV 14.16

Canonical Ref: RV 14.16
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
कृताञ्जलिस्तत्र यदम्ब! सत्यान्नाभ्रश्यत स्वर्गफलाद्गुरुर्नः । तञ्चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातुः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): कृताञ्जलिरिति॥ तत्र निकेतने कृताञ्जलिः सन् रामः। हे अम्ब! नो गुरुः पिता स्वर्गः फलं यस्य तस्मात्सत्यान्नाभ्रश्यत न भ्रष्टवानिति यत्तदभ्रंशनं तञ्चिन्त्यमानं विचार्यमाणं तव सुकृतम्। इत्येवंप्रकारेण भरतस्य मातुः कैकेय्या लज्जां जहारापानयत्। राज्ञां प्रतिज्ञापरिपालनं स्वर्गसाधनमित्यर्थः। `भरत`ग्रहणं तदपेक्षयापि कैकेय्यनुसरणमिति द्योतनार्थम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 14.16. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 14.15) All Verses in Chapter 14 Next Verse (RV 14.17) →