Skip to main content
Search
Ch. 14 RV 14.28
Full Chapter
RV • Chapter 14: Canto 14

RV 14.28

Canonical Ref: RV 14.28
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
सा दष्टनीवारबलीनि हिंस्रैः संबद्धवैखानसकन्यकानि । इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा सीता हिंस्रैर्दष्टा नीवारा एव बलयो येषु तानि। तिर्यग्भिक्षुकादिदानं बलिः। संबद्धाः कृतसंबन्धाः कृतसख्या वैखानसानां कन्यका तेषु तानि कुशवन्ति भागिरधीतीरतपोवनानि भूयः पुनरपि गन्तुमियेषाभिललाष ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 14.28. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 14.27) All Verses in Chapter 14 Next Verse (RV 14.29) →