कृतसीतापरित्यागः स रत्नाकरमेखलाम् । बुभुजे पृथिवीपालः पृथिवीमेव केवलम् ॥
लवणेन विलुप्तेज्यास्तामिस्नेण तमभ्ययुः । मुनयो यमुनाभाजः शरण्यं शरणार्थिनः ॥
अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुः स्वतेजसा । त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् ॥
प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियाम् । धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शार्ङ्गिणः ॥
ते रामाय वधोपायमाचख्युर्विबुधद्विषः । दुर्जयो लवणः शूली विशूलः प्रार्थ्यतामिति ॥
आदिदेशाथ शत्रुघ्ने तेषां क्षेमाय राघवः । करिष्यन्निव नामास्य यथार्थमरिनिग्रहात् ॥
यः कश्चन रघूणां हि परमेकः परंतपः । अपवाद इवोत्सर्गं व्यावर्तयितुमीश्वरः ॥
अग्रजेन प्रयुक्ताशीस्ततो दाशरथी रथी । ययौ वनस्थलीः पश्यन्पुष्पिताः सुरभीरभीः ॥
रामादेशादनुगता सेना तस्यार्थसिद्धये । पश्चादध्ययनार्थस्य धातोरधिरिवाभवत् ॥
आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपतां वरः । विरराज रथप्रष्ठैर्वालखिल्यैरिवांशुमान् ॥
तस्य मार्गवशादेका बभूव वसतिर्यतः । रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ॥
तमृषिः पूजयामास कुमारं क्लान्तवाहनम् । तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः ॥
तस्यामेवस्य यामिन्यामन्तर्वत्नी प्रजावती । सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः ॥
संतानश्रवणाद्भ्रातुः सौमित्रिः सौमनस्यवान् । प्राञ्जलिर्मुनिमामन्त्र्य प्रातर्युक्तरथो ययौ ॥
स च प्राप मधूपघ्नं कुम्भीनस्याशअच कुक्षिजः । वनात्करमिवादाय सत्त्वराशिमुपस्थितः ॥
धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः । क्रव्याद्गणपरीवारश्चिताग्निरिव जंगमः ॥
अपशूलं तमासाद्य लवणं लक्ष्मणानुजः । रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम् ॥
नातिपर्याप्तमालक्ष्य मत्कुक्षेरद्य भोजनम् । दिष्ट्या त्वमसि मे धात्रा भीतेनेवोपपादितः ॥
इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया । प्रांशुमुत्पाटयामास मुस्तास्तम्बमिव द्रुमम् ॥
सौमित्रेर्निशितैर्बाणैरन्तरा शकलीकृतः । गात्रं पुष्परजः प्राप न शाखी नैर्ऋतेरितः ॥
विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलम् । प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितम् ॥
ऐन्द्रमस्त्रमुपादाय शत्रुघ्नेन स ताडितः । सिकतात्वादपि परां प्रपेदे परमाणुताम् ॥
तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः । एकताल इवोत्पातपवनप्रेरितो गिरिः ॥
कार्ष्णेन पत्रिणा शत्रुः स भिन्नहृदयः पतन् । अनिनाय भुवः कम्पं जहाराश्रमवासिनाम् ॥
वयसां पङ्क्तयः पेतुर्हतस्योपरि विद्विषः । तत्प्रतिद्वन्द्विनो मूर्धअनि दिव्याः कुसुमवृष्टयः ॥
स हत्वा लवणं वीरस्तदा मेने महौजसः । भ्रातुः सोदर्यमात्मानमिन्द्रजिद्वधशोभिनः ॥
तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः । शुशुभे विक्रमोदग्नं व्रीडयावनतं शिरः ॥
उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः । निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः ॥
या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता ॥
तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीम् । हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये ॥