Skip to main content
Search
RV
Raghuvaṁśam • Chapter 16

Canto 16

षोडशः सर्गः (कुमुद्वतीपरिणयः)

Canto 16 of Raghuvaṁśam.

Total: 88 Verses • Citations: RV 16.1–88 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
RV 16.1 उपजातिः
अथेतरे सप्तरघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च । चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुसारि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ रामनिर्वाणानन्तरम्। इतरे लवादयः सप्तरघुप्रवीराः। पुरः पूर्वं जन्म यस्य तस्य भावस्तत्ता तया। गुणैश्च ज्येष्ठं कुशं रत्नविशेषभाजं तत्तच्छ्रेष्ठवस्तुभागिनं चक्रुः। तदुक्तम्-`जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते` इति। तथा हि-सुभ्रातॄणां भावः सौभ्रात्रम्। `हायनान्त-` (पा.5।1।130) इत्यादिना युवादित्वादण्प्रत्ययः। एषां कुशलवादीनां कुलानुसारि वंशानुगतं हि ॥
RV 16.2 इन्द्रवज्रा
ते सेतुवार्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः । अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त इति॥ सेतुर्जलबन्धः। वार्ता कृषिगोरक्षणादिः। `वार्ता कृष्याद्युदन्तयोः` इति विश्वः। गजबन्ध आकरेभ्यो गजग्रहणम्। ते मुख्यं प्रधानं येषां तैरवन्ध्यैः सफलैः कर्मभिरभ्युच्छ्रिताः। अतिसमर्था अपीत्यर्थः। ते कुशादयः। प्रविभज्यन्त इति प्रविभागाः। अन्योन्यदेशप्रविभागानां या सीमा ताम्। वेलां समुद्रा इव। न व्यतीयुर्नातिचक्रमुः। अत्र कामन्दकः-`कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम्। खन्याकरधनादानं शून्यानां च निवेशनम्॥ अष्टवर्गमिमं साधुः स्वयं वृद्धोऽपि वर्धयेत् ॥` इति ॥
RV 16.3 उपजातिः
चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानाम् । सुरद्विपानामिव सामयोनिर्भिन्नोऽष्टधा विप्रससार वंशः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): चतुर्भुजेति॥ चतुर्भुजो विष्णुः, तस्यां शा रामादयः ते प्रभवाः कारणानि यस्य स तथोक्तः। दानं त्यागो मदश्च। `दानं गजमदे त्यागे` इति विश्वः। प्रवृत्तिर्व्यापारः प्रवाहश्च। दानप्रवृत्तेरनुपारतानां सुरद्विपानां दिग्गजानां वंश इव। अष्टधा भिन्नः सन्। विप्रससार विस्तृतोऽभूत्। `सामयोनिः` इत्यत्र पालकाप्यः-`सूर्यस्याण्डकपाले द्वे समानीय प्रजापतिः। हस्ताभ्यां परिगृह्याथ सप्त समान्यगायत। गायतो ब्रह्मणस्तस्मात्समुत्पेतुर्मतङ्गजाः ॥` इति ॥
RV 16.4 उपजातिः
अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्‌धः । कुशः प्रवासस्थकलत्रवेषामदृष्टपूर्वां वनितामपश्यत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ अर्धं रात्रेरर्धरात्रः। `अर्धं नपुंसकम्` (पा.2।2।4) इत्येकदेशसमासः। `अहःसर्वैदेशसंख्यातपुण्यञ्च रात्रेः` (पा.5।4।87) इति समासान्तोऽच्प्रत्ययः। `रात्राह्नाहाः पुंसि` (पा.2।4।29) इति नियमात्पुंस्त्वम्। अर्धरात्रे निशीथे स्तिमितप्रदीपे सुप्तजने शय्यागृहे प्रबुद्धः, न तु सुप्तः। कुशः प्रवासस्थकलत्रवेषां प्रोषितभर्तृकावेषाम्। अदृष्टा पूर्वमित्यदृष्टपूर्वा ताम्। सुप्सुपेति समासः। वनितामपश्यत् ॥
RV 16.5 इन्द्रवज्रा
सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरुहूतभासः । जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा वनिता साधुसाधारणपार्थिवर्द्धेः सज्जनसाधारणराज्यश्रियः पुरुहूतभास इन्द्रतेजसः परेषां शत्रूणां जेतुर्बन्धुमतस्तस्य कुशस्य पुरस्तात्स्थित्वा जयशब्दपूर्वं यथा तथाऽञ्जलिं बबन्ध ॥
RV 16.6 उपजातिः
अथानपोढार्गलमप्यगारं छायामिवादर्शतलं प्रविष्टाम् । सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविसृष्टतल्पः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ सविस्मयः पूर्वार्धेन शरीरपूर्वभागेन विसृष्टतल्पस्त्यक्तशय्यो दाशरथेस्तनूजः कुशः। अनपोढार्गलमनुद्धाटितविष्कम्भमपि। `तद्विष्कम्भोऽर्गलं न ना` इत्यमरः (अ.को.2|2|18)। अगारम्। आदर्शतलं छायामिव। प्रविष्टां तां वनितां प्रोवाचावदत् ॥
RV 16.7 उपजातिः
लब्धान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते । बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लब्धेति। का त्वमिति च॥ युग्मम्। सावरणेऽपि गेहे लब्धान्तरा लब्धावकाशा। त्वमिति शेषः। योगप्रभावश्च ते न लक्ष्यते। मृणालिनी हैमं हिमकृतमुपरागमुपद्रवमिव। अनिर्वृतानां दुःखितानामाकारं बिभर्षि च। न हि योगिनां दुःखमस्तीति भावः। किं च, हे शुभे! त्वं का? कस्य वा परिग्रहः पन्ती? ते तव मदभ्यागमे कारणं वा किम्? वशिनां जितेन्द्रियाणां रघूणां मनः परस्त्रीषु विषये विमुखा प्रवृत्तिर्यस्य तत्तथाभूतं मत्वाऽऽचक्ष्व ॥
RV 16.8 उपजातिः
का त्वं शुभे! कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते । आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लब्धेति। का त्वमिति च॥ युग्मम्। सावरणेऽपि गेहे लब्धान्तरा लब्धावकाशा। त्वमिति शेषः। योगप्रभावश्च ते न लक्ष्यते। मृणालिनी हैमं हिमकृतमुपरागमुपद्रवमिव। अनिर्वृतानां दुःखितानामाकारं बिभर्षि च। न हि योगिनां दुःखमस्तीति भावः। किं च, हे शुभे! त्वं का? कस्य वा परिग्रहः पन्ती? ते तव मदभ्यागमे कारणं वा किम्? वशिनां जितेन्द्रियाणां रघूणां मनः परस्त्रीषु विषये विमुखा प्रवृत्तिर्यस्य तत्तथाभूतं मत्वाऽऽचक्ष्व ॥
RV 16.9 उपजातिः
तमब्रवीत्सा गुरुणानवद्या या नीतपौरा स्वपदोन्मुखेन । तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्निधिदेवतां माम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ सा वनिता तं कुशमब्रवीत्। अनवद्याऽदोषा या पूःस्वपदोन्मुखेन विष्णुपदोन्मुखेन गुरुणा त्वत्पित्रा नीतपौरा हे राजन्! मां संप्रति वीतनाथामनाथां तस्याः पुरो नगर्या अयोध्याया अधिदेवतां जानीहि ॥
RV 16.10 उपजातिः
वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या । समग्रशक्तौ त्वयि सूर्यवंश्ये सति प्रपन्ना करुणामवस्थाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वस्वौकसारामिति॥ साऽहं सौराज्येन राजन्वत्तया हेतुना बद्धोत्सवया विभूत्या। वस्वौकसाराऽलका पुरी। `अलका पुरी वस्वौकसारा स्यात्` इति कोशः। अथवा, -मानसोत्तरशैलशिखरवर्तिनी शक्रनगरी। `वस्वौकसारा शक्रस्य` इति विष्णुपुराणात्। तामभिभूय तिरस्कृत्य समग्रशक्तौ त्वयि सूर्यवंश्ये सति करुणामवस्थां दीनां दशां प्रपन्ना प्राप्ता ॥
RV 16.11 उपजातिः
विशीर्णतल्पाट्टशतो निवेशः पर्यस्तसालः प्रभुणा विना मे ॥ विडम्बयत्यस्तनिमग्नसूर्यं दिनान्तमुग्रानिलभिन्नमेघम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विशीर्णेति॥ तल्पान्यट्टालिकाः। `तल्पं शय्याट्टदारेषु` इत्यमरः (अ.को.3|3|138)। अट्टानि गृहभेदः। `अट्टं भक्ते च शुष्के च क्षौमेऽत्यर्थेगृहान्तरे` इति विश्वः। विशीर्णानि तल्पानामट्टानां च शतानि यस्य स तथोक्तः। `विशीर्णकल्पाट्टशतो निवेशः` इति वा पाठः। अट्टाः क्षौमाः। `स्यादट्टः क्षौममस्त्रियाम्` इत्यमरः (अ.को.2|2|12)। ईषदसमाप्तं विशीर्णानि विशीर्णकल्पान्यट्टशतानि यस्य स तथोक्तः। पर्यस्तसालः स्रस्तप्राकारः। `प्राकारो वरणः सालः` इत्यमरः (अ.को.2|2|3)। प्रभुणा स्वामिना विनैवंभूतो मे निवेशः निवेशनम्। अस्तनिमग्नसूर्यमस्ताद्रिलीनार्कमुग्रानिलेन भिन्नमेघं दिनान्तं विडम्बयत्यनुकरोति ॥
RV 16.12 उपेन्द्रवज्रा
निशआसु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणाम् । नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निशास्विति॥ निशासु भास्वन्ति दीप्तिमन्ति कलान्यव्यक्तमधुराणि नूपुराणि यासां तासामभिसारिकाणाम्। `कान्तार्थइनी तु या याति संकेतं साऽभिसारिका` इत्यमरः। यः राजपथः संचरत्यनेनेति संचरः संचारसाधनमभूत्। `गोचरसंचर-` इत्यमरः। यः राजपथः संचरत्यनेनेति संचरः संचारसाधनमभूत्। `गोचरसंचर-` (पा.3।3।119) इत्यादिना घप्रत्ययान्तो निपातः। नदत्सु मुखेषु या उल्कास्तभिर्विचितामिषाभिरन्विष्टमांसाभिः शिवाभिः क्रोष्ट्रीभिः स राजपथो दाह्यते गम्यते। वहेरन्यो वहिधातुरस्तीत्युपदेशः ॥
RV 16.13 उपजातिः
आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिमन्वगच्छत् । वन्यैरिदानीं महिषैस्तदम्भः श्रृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आस्फालितमिति॥ यदम्भः प्रमदाकराग्रैरास्फालितं ताडितं सत्। जलक्रीडास्विति शेषः। मृदङ्गानां धीरध्वनिस्तमन्वगच्छदन्वकरोत्। तद्दीर्घिकाणामम्भ इदानीं वन्यैर्महिषैः कर्तृभिः शृङ्गैर्विषणैराहतं सत् क्रोशति। न तु मृदङ्गध्वनिमनुकरोतीत्यर्थः ॥
RV 16.14 उपजातिः
वृक्षेशया यष्टिनिवासभङ्गान्मृदङ्गशब्दापगमादलास्याः । प्राप्ता दवोल्काहतशेषबर्ह्याः क्रीडामयूरा वनबर्हिणत्वम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वृक्षेशया इति॥ यष्टिरेव निवासः स्थानं तस्य भङ्गात्। वृक्षे शेरत इति वृक्षेशयाः। `अधिकरणे शेतेः` (पा.3।2।15) इत्यच्प्रत्ययः। `शयवासवासिष्वकालात्` (पा.6।3।18) इत्यलुक्सप्तम्याः। मृदङ्गशब्दानामपगमादभावादलास्या नृत्यशून्याः। दवोऽरण्यवह्निः। `दवदावौ वनारण्यवह्नी` इत्यमरः (अ.को.3|3|217)। तस्योल्काभिः स्फुलिङ्गैर्हेतेभ्यः शेषाणि बर्हाणि येषां ते क्रीडामयूरा वनबर्हिणत्वं वनमयूरत्वं प्राप्ताः ॥
RV 16.15 इन्द्रवज्रा
सोपानमार्गेषु च येषु रामा निक्षिप्तवत्यश्चरणान्सरागान् । सद्योहतन्यङ्कुभिरस्रदिग्धं व्याघ्रैः पदं तेषु निधीयते मे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सोपानेति॥ किंच, येषु सोपानमार्गेषु रामा रमण्यः सरागाँल्लाक्षारसार्द्राश्चरणान्निक्षिप्तवत्यः। तेषु मे मम मार्गेषु सद्योहतन्यङ्कुभिर्मारितमृगैर्व्याघ्नैरस्रदिग्धं रुधिरलिप्तं पदं निधीयते ॥
RV 16.16 उपजातिः
चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः । नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): चित्रेति॥ पद्मवनमवतीर्णाः प्रविष्टाः। तथा लिखिता इत्यर्थः। करेणुभिः करिणीभिः। चित्रगताभिरेव। `करेणुरिभ्यां स्त्री नेमे` इत्यमरः (अ.को.3|3|59)। दत्तमृणालभङ्गाश्चित्रद्विपा आलेख्यमातङ्गाः। नखा एवाङ्कुशास्तेषामाघातैर्विभिन्नकुम्भाः सन्तः संरब्धसिंहप्रहृतं कुपितसिंहप्रहारं वहन्ति ॥
RV 16.17 उपजातिः
स्तम्भेषु योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम् । स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्तम्मेष्विति॥ उत्क्रान्तवर्णक्रमा विशीर्णवर्णविन्यासास्ताश्च धूसराश्च यास्तासां स्तम्भेषु योषित्प्रतियातनानां स्त्रीप्रतिकृतीनां दारुमयीणां फणिभिर्विमुक्ता निर्मोकाः कञ्चुका एव पट्टाः। `समौ कञ्चुकनिर्मोकौ` इत्यमरः (अ.को.1|8|11)। सङ्गात्सक्तत्वात् स्तनोत्तरीयाणि स्तनाच्छादनवस्त्राणि भवन्ति ॥
RV 16.18 उपजातिः
कालान्तरश्यामसुधेषु नक्तमितस्ततो रूढतृणाङ्कुरेषु । त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्च्छन्ति न चन्द्रपादाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कालेति॥ कालान्तरेण कालभेदवशेन श्यामसुधेषु मलिनचूर्णेष्वितस्ततो रूढतृणाङ्कुरेषु हर्म्येषु गृहेषु नक्तं रात्रौ मुक्तागुणानां शुद्धिरिव शुद्धिः स्वाच्छ्यं येषां तादृशा अपि। ततः पूर्वं ये मूर्च्छन्ति स्म त एव चन्द्रपादाश्चन्द्ररश्मयः। `पादा रश्म्यङ्घितुर्यांशाः` इत्यमरः। न मूर्च्छन्ति। न प्रति फलन्तीत्यर्थः ॥
RV 16.19 इन्द्रवज्रा
आवर्ज्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः । वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आवज्येति॥ किंच, विलासिनीभिः सदयं शाखा लतावयवानावर्ज्यानमय्य यासां लतानां पुष्पाण्युपात्तानि गृहीतानि ता मदीया उद्यानलताः। वन्यैः पुलिन्दैर्म्लेच्छविशेषैरिव वानरैः। उभयैरपीत्यर्थः। क्लिश्यन्ते पीड्यन्ते। क्लिश्नातेः कर्मणि लट्। `भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः` इत्यमरः (अ.को.2|10|20) ॥
RV 16.20 उपजातिः
रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि । तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छिन्नधूमप्रसरा गवाक्षाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रात्राविति॥ रात्रावनाविष्कृतदीपभासः। दीपप्रभाशून्या इत्यर्थः। दिवापि दिवसेऽपि कान्तामुखानां श्रिया कान्त्या वियुता रहिता विच्छिन्नो नष्टो धूमप्रसरो येषां ते गवाक्षाः कृमितन्तुजालैर्लूतातन्तुवितानैः। तिरस्क्रियन्ते छाद्यन्ते ॥
RV 16.21 उपजातिः
बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गमनाप्नुवन्ति । उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): बलिक्रियेति॥ `बलिः पूजोपहारः स्यात्` इति शाश्वतः। बलिक्रियावर्जितानि सैकतानि येषां तानि स्नानीयानि स्नानसाधनानि चूर्णादीनि। `कृत्यल्युटो बहुलम्` (पा.3।3।113) इति करणेऽनीयर्प्रत्ययः। स्नानीयसंसर्गमनाप्नुदृष्ट्वा दूये परितप्ये ॥
RV 16.22 उपजातिः
तदर्हसीमां वसतिं विसृज्य मामभ्युपेतुं कुलराजधानीम् । हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तत्तस्मादिमां वसतिं कुशावतीं विसृज्य कुलराजधानीमयोध्यां मामभ्युपेतुमर्हसि। कथमिव? ते गुरुः पिता रामस्तां प्रसिद्धां कारणवशान्मानुषीं तनुं मानुषमूर्तिं हित्वा परमात्ममूर्तिं यथा विष्णुमूर्तिमिव ॥
RV 16.23 उपजातिः
तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणाम् । पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तथेति॥ रघूणां प्राग्रहरः श्रेष्ठः कुशस्तस्याः पुरः प्रणयं याञ्चां प्रतीतो हृष्टः सन्, तथेति प्रत्यग्रहीत् स्वीकृतवान्। पूः पुराधिदेवताप्यभिव्यक्तमुखप्रसादा सती। इष्टलाभादिति भावः। शरीरबन्धेन शरीरयोगेन करणेन तिरोबभूवान्तर्दधे। मानवं रूपं विहाय दैवं रूपमग्रहीदित्यर्थः ॥
RV 16.24 उपजातिः
तदद्भुतं संसदि रात्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस । श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतमभ्यनन्दन् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ नृपतिः कुशस्तदद्भुतं रात्रिवृत्तान्तं प्रातः संसदि सभायां द्विजेभ्यः शशंस। ते द्विजाः श्रुत्वैनं कुलराजधान्या साक्षात् स्वयमेव पतित्वे विषये वृतमभ्यनन्दन्। पतित्वेन वृतोऽसीत्यपूजयन्। आशीर्भिरिति शेषः। अत्र गार्ग्यः-`दृष्ट्वा स्वप्नं शोभनं नैव सुप्यात्पश्चाद्दृष्टो यः स पाकं विधत्ते। शंसेदिष्टं तत्र साधुर्द्विजेभ्यस्ते चाशीर्भिः प्रीणयेयुर्नरेन्द्रम्`। इदमपि स्वप्नतुल्यमिति भावः ॥
RV 16.25 उपजातिः
कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः । अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कुशावतीमिति॥ स कुशः कुशावतीं श्रोत्रियेषु छान्दसेष्वधीनां श्रोत्रियसात्। `तदधीनवचने` (पा.5।4।54) इति सातिप्रत्ययः। `श्रोत्रियंश्छन्दोऽधीते` (पा.5।2।84) इति निपातः। `श्रोत्रियच्छान्दसौ समौ` इत्यमरः (अ.को.2|7|6)। कृत्वा यात्रानुकूलेऽहनि सावरोधः सान्तःपुरः सन्। वायुरभ्रवृन्दैरिव। सैन्यैरनुद्रुतोऽनुगतः सन्, अयोध्याभिमुखं प्रतस्थे ॥
RV 16.26 उपजातिः
सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः । सेना रथोदारगृहा प्रयाणे तस्याभवज्जंगमराजधानी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ केतुमाला एव उएपवनानि यस्याः सा बृहद्भिर्नागैर्गजैर्विहारशैलैः क्रीडाशैलैरनुगतेव स्थिता। रथा एवोदारगृहा यस्याः सा। सा सेना तस्य कुशस्य प्रयाणे जंगमराजधानी संचारिणी नगरीव। अभवद्बभूव ॥
RV 16.27 उपजातिः
तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् । बभौ बलौघः शशिनोदितेन वेलामुदन्वानिव नीयमानः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ आतपत्रमेवामलं मण्डलं बिम्बं यस्य तेन। तेन कुशेन पूर्वनिवासभूमिमयोध्यां प्रति प्रस्थापितो बलौघः। आतपत्रवदमलमण्डलेनोदितेन शशिना वेलां नीयमानः प्राप्यमाणः। उदकमस्यास्तीत्युदन्वान् उदधिरिव। बभौ। `उदन्वानुदधौ च` (पा.8।2।13) इति निपातनात्साधुः ॥
RV 16.28 उपजातिः
तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव सोढुम् । वसुंधरा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ प्रयातस्य प्रथितस्य तस्य कुशस्य वरूथिनीनां सेनानां कर्त्रीणां `कर्तृकर्मणोः कृति` (पा.2।3।65) इति कर्तरि षष्ठी। पीडां सोढुमपर्याप्तवतीवाशक्तेव वसुंधरा रजश्छलेन द्वितीयं विष्णुपदमाकाशमध्यारुरोहेव। इत्युत्प्रेक्षा ॥
RV 16.29 उपजातिः
उद्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि च व्रजन्ती । सा यत्र सेना ददृशे नृपस्य तत्रैव सामग्र्यमतिं चकार ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उद्यच्छमानेति॥ पश्चात्कुशावत्याः सकाशाद्गमनाय प्रयाणाय तथा पुरोऽग्रे निवेशे निमित्ते। निवेष्टुं चेत्यर्थः। उद्यच्छमानोद्योगं कुर्वती। `समुदाङ्भ्यो यमोऽग्रन्थे` (पा.1।3।75) इत्यस्य सकर्मकाधिकारत्वादात्मनेपदम्। पथि च व्रजन्ती नृपस्य सा सेना यत्र पश्चात्पुरो मध्ये वा ददृशे तत्रैव सामग्र्यमतिं कृत्स्नताबुद्धिं चकार। अपरिमिता तस्य सेनेत्यर्थः ॥
RV 16.30 उपजातिः
तस्य द्विपानां मदवारिसेकात्खुराभिघाताञ्च तुरंगमाणाम् । रेणुः प्रपेदे पथि पङ्क्तभावं पङ्कोऽपि रेणुत्वमियाय नेतुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ नेतुस्तस्य कुशस्य द्विपानां मदवारिभिः सेकात्तुरंगमाणां खुराभिघाताञ्च यथासंख्यं पथि रेणू रजः पङ्कभावं पङ्कतां प्रपेदे। पङ्कोऽपि रेणुत्वमियाय। तस्य तावदस्तीत्यर्थः ॥
← Previous (Ch. 15) Full Table of Contents Next (Ch. 17) →