Skip to main content
Search
RV
Raghuvaṁśam • Chapter 17

Canto 17

सप्तदशः सर्गः (अतिथिवर्णनम्)

Canto 17 of Raghuvaṁśam.

Total: 81 Verses • Citations: RV 17.1–81 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
RV 17.1 अनुष्टुप्
अतिथिं नाम काकुत्स्थात्पुत्रं प्राप कुमुद्वती । पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अतिथिमिति॥ कुमुद्वती काकुत्स्थात्कुशात्। अतिथिं नाम पुत्रम्। चेतना बुद्धिः पश्चिमादन्तिमाद्यामिन्या रात्रेर्यामात्प्रहरात्। `द्वौ यामप्रहरौ समौ` इत्यमरः (अ.को.1|4|7)। प्रसादं वैशद्यमिव। प्राप। ब्राह्मे मुहूर्ते सर्वेषां बुद्धिवैशद्यं भवतीति प्रसिद्धिः ॥
RV 17.2 अनुष्टुप्
स पितुः पितृमान्वंशं मातुश्चानुपमद्युतिः । अपुनात्सवितेवोभौ मार्गावुत्तरदक्षिणौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ पितृमान्। प्रशंसार्थे मतुप्। सुशिक्षित इत्यर्थः। अनुपमद्युतिः सवितुश्चेदं विशेषणम्। सोऽतिथिः पितुः कुशस्य मातुः कुमुद्वत्याश्च वंशम्। सविता। उत्तरदक्षिणावुभौ मार्गाविव। अपुनात् पवित्रीकृतवान् ॥
RV 17.3 अनुष्टुप्
तमादौ कुलविद्यानामर्थमर्थविदां वरः । पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ अर्थाञ्छब्दार्थान्दानसंग्रहादिक्रियाप्रयोजनानि च विदन्तीत्यर्थविदः तेषां वरः श्रेष्ठः पिता कुशः। तमतिथिमादौ प्रथमं कुलविद्यानामान्वीक्षिकीत्रयीवार्ता-दण्डनीतिनामर्थमभिधेयमग्राहयदबोधयत्। पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्स्वीकारितवान्। उदवाहयदित्यर्थः। ग्रहेर्ण्यन्तस्य सर्वत्र द्विकर्मकत्वम् स्तीत्युक्तं प्राक् ॥
RV 17.4 अनुष्टुप्
जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः । अमन्यतैकमात्मानमनेकं वशिना वशी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): जात्य इति॥ जातौ भवो जात्यः कुलीनः शूरो वशी कुशोऽभिजातेन कुलीनेन। `अभिजातः कुलीनः स्यात्` इत्यमरः। शौर्यवता वशिना तेनातिथिना। करणेन एकमात्मानम्। एको न भवतीत्यनेकस्तम्। अमन्यत। सर्वगुणसामग्र्यादात्मजमात्मन एव रूपान्तरममंस्तेत्यर्थः ॥
RV 17.5 अनुष्टुप्
स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् । जघान समरे दैत्यं दुर्जयं तेन चावधि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स कुशः कुलोचितं कुलाभ्यस्तमिन्द्रस्य साहायकं सहकारित्वम्। `योपधात्-` (पा.5।1।132) इत्यादिना वुञ्। उपेयिवान् प्राप्तः सन् समरे नामतोऽर्थतश्च दुर्जयं दैत्यं जघानावधीत्। तेन दैत्येन। अवधि हतश्च। `लुङिच` (पा.2।4।43) इति हनो वधादेशः ॥
RV 17.6 अनुष्टुप्
तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती । अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ कुमुदस्य नाम नागराजस्य स्वसा कुमुद्वती कुशपत्नी कुमुदानन्दं शशङ्कं कौमुदी ज्योत्स्नेव। तं कुशमन्वगात्। कुशस्तु। कुः पृथ्वी तस्या मुत्प्रीतिः सैवानन्दो यस्येति कुमुदानन्दः। परानन्देन स्वयमानन्दतीत्यर्थः ॥
RV 17.7 अनुष्टुप्
तयोर्दिवस्पतेरासीदेकः सिंहासनार्धभाक् । द्वितीयापि सखी शच्याः पारिजातांशभागिनी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तयोरिति॥ थयोः कुश-कुमुद्वत्योर्मध्य एकः कुशो दिवस्पतेरिन्द्रस्य सिंहासनार्धं सिंहासनैकदेशः, तद्भाक्। आसीत्। द्वितीया कुमुद्वत्यपि शच्या इन्द्राण्याः पारिजातांशस्य भागिनी ग्राहिणी। `संपृच्-` इत्यादिना भजेर्घिनुण्प्रत्ययः। सख्यासीत्। कस्कादित्वाद्दिवस्पतिः साधुः ॥
RV 17.8 अनुष्टुप्
तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः । स्मरन्तः पश्चिमामाज्ञां भर्तुः सङ्ग्रामयायिनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ सङ्ग्रामयायिनः सङ्ग्रामं यास्यतः। आवश्यकार्थे णिनिः। `अकेनोर्भविष्यदाधमर्ण्ययोः` (पा.2।3।70) इति षष्ठीनिषेधः। भर्तुः स्वामिनः कुशस्य पश्चिमामन्तिमामाज्ञां विपर्यये पुत्रोऽभिषेक्तव्य इत्येवंरूपां स्मरन्तो मन्त्रिवृद्धास्तदात्मसंभवमतिथिं राज्ये समादधुर्निदधुः ॥
RV 17.9 अनुष्टुप्
ते तस्य कल्पयामासुरभिषेकाय शिल्पिभिः । विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त इति॥ ते मन्त्रिणस्तस्यातिथेरभिषेकाय शिल्पिभिरुद्वेदि उन्नतवेदिकं चतुःस्तम्भप्रतिष्ठितं चतुर्षु स्तम्भेषु प्रतिष्ठितं नवं विमानं मण्डपं कल्पयामासुः कारयामासुः ॥
RV 17.10 अनुष्टुप्
तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः । उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्र विमाने भद्रपीठे पीठविशेष उपवेशितमेनमतिथिं हेमकुम्भेषु संभृतैः संगृहीतैस्तीर्थवारिभिः। करणैः प्रकृतयो मन्त्रिणा उपतस्थु ॥
RV 17.11 अनुष्टुप्
नदद्भिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः । अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नदद्भिरिति॥ आहतं पुष्करं मुखं येषां तौ। `पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखेऽपि च` इत्यमरः। स्निग्धां मधुरं गम्भीरं च नदद्भिस्तूर्यैस्तस्यातिथेरविच्छिन्नसंतत्यविच्छिन्नपारंपर्यं कल्याणं भावि शुभमन्वमीयतानुमितम् ॥
RV 17.12 अनुष्टुप्
दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् । ज्ञातिवृद्धैः प्रयुक्तान्स भेजे नीराजनाविधीन् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दूर्वेति॥ सोऽतिथिः दूर्वाश्च यवाङ्कुराश्च प्लक्षत्वचश्चु अभिन्नपुटा बालपल्लवाश्चोत्तराणि प्रधानानि येषु तान्। अभिन्नपुटानि मधूकपुष्पाणीति केचित्। कमलानीत्यन्ये। ज्ञातिषु ये वृद्धास्तैः प्रयुक्तान्नीराजनाविधीन्भेजे ॥
RV 17.13 अनुष्टुप्
पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः । उपचक्रमिरे पूर्वमभिषेक्तुं द्विजातयः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पुरोहितेति॥ पुरोहितपुरोगाः पुरोहितप्रमुखा द्विजातयो ब्राह्मणा जिष्णुं जयशीलं तमतिथिं जैत्रैर्जयशीलरथर्वभिर्मन्त्रविशेषैः करणैः पूर्वमभिषेक्तुमुपचक्रमिरे ॥
RV 17.14 अनुष्टुप्
तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत । सशब्दमभिषेकश्रीर्गङ्गेव त्रिपुरद्विषः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ तस्यातिथेर्मूर्ध्नि सशब्दं निपतन्त्योघमहती महाप्रवाहा। अभिषिच्चतेऽनेनेत्यभिषेको जलम्। स एव श्रीः। यद्वा, -तस्य श्रीः समृद्धिस्त्रिपुरद्विषः शिवस्य, मूर्ध्नि निपतन्ती गङ्गेव। व्यरोचत। त्रयाणां पुराणां द्वेष्टेति विग्रहः ॥
RV 17.15 अनुष्टुप्
स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः । प्रवृद्ध इव पर्जन्यः सारङ्गैरभिनन्दितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्तूयमान इति॥ तस्मिन्क्षणेऽभिषेककाले बन्दिभिः स्तूयमानः सोऽतिथिः प्रवृद्धः प्रवृद्धवान्। कर्तरि क्तः। अत एव सारङ्गैश्चातकैरभिनन्दितः पर्जन्यो मेघ इव। अलक्ष्यत ॥
RV 17.16 अनुष्टुप्
तस्य सन्मन्त्रपूताभिः स्नानमद्भिः प्रतीच्छतः । ववृधे वैद्युतस्याग्नेर्वृष्टिसेकादिव द्युतिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ सन्मन्त्रैः पूताभिः शुद्धाभिरद्भिः स्नानं प्रतीच्छतः कुर्वपतस्तस्य वृष्टिसेकात्। विद्युतोऽयं वैद्युतः। तस्याबिन्धनस्याग्नेरिव। द्युतिर्ववृधे ॥
RV 17.17 अनुष्टुप्
स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु । यावतैषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ सोऽतिथइरभिषेकान्ते स्नातकेभ्यो गृहस्थेभ्यस्तावत्तावत्परिमाणं वसु धनं ददौ। यावता वसुना। एषां स्नातकानां पर्याप्ददक्षिणाः समग्रदक्षिणा यज्ञाः समाप्येरन्। तावद्ददावित्यन्वयः ॥
RV 17.18 अनुष्टुप्
ते प्रीतमनसस्तस्मै यामाशिषमुदैरयन् । सा तस्य कर्मनिर्वृत्तर्दूरं पश्चात्कृता फलैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त इति॥ प्रीतमनसस्ते स्नातकास्तस्मा अतिथये यामाशिषमुदैरयन् व्याहरन् साशीस्तस्यातिथेः कर्मनिर्वृत्तैः पूर्वपुण्यनिष्पन्नैः फलैः साम्राज्यादिभिर्दूरं दूरतः पश्चात्कृता। स्वफलदानस्य तदानीमनवकाशात्कालान्तरोद्वीक्षणं न चकारेत्यर्थः ॥
RV 17.19 अनुष्टुप्
बन्धच्छेदं स बद्धानां वधार्हाणामवध्यताम् । धुर्याणां च धुरो मोक्षमदोहं चादिशद्गवाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): बन्धेति॥ सोऽतिथिर्बद्धानां बन्धच्छेदं वधार्हाणामवध्यताम्। धुरं वहन्तीति धुर्या बपलीवर्दादयः। तेषां धुरो भारस्य मोक्षं गवामदोहं वत्सानां पानार्थं दोहनिवृत्तिं चादिशदादिदेश ॥
RV 17.20 अनुष्टुप्
क्रीडापतत्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः । लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्रीडेति॥ पञ्जरस्थाः शुकादयः। अस्यातिथेः क्रीडापतत्रिणोऽपि। किमुतान्य इति `अपि`शब्दार्थः। तदादेशात्तस्यातिथेः शासनात्। लब्धमोक्षाः सन्तो यथेष्टं गतिर्येषां ते स्वेच्छाचारिणोऽभवन् ॥
RV 17.21 अनुष्टुप्
ततः कक्ष्यान्तरन्यस्तं गजदन्तासनं शुचि । सोत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः सोऽतिथिः। नेपथ्यग्रहणाय प्रसाधनस्वीकाराय। कक्ष्यान्तरं हर्म्याङ्गणविशेषः। `कक्ष्या प्रकोष्ठे हर्म्यादेः` इत्यमरः (अ.को.3|3|166)। तत्र न्यस्तं स्थापितं शुचि निर्मलं सोत्तरच्छदमास्तरणसहितं गजदन्तस्यासनं पीठमध्यास्त। तत्रोपविष्ट इत्यर्थः ॥
RV 17.22 अनुष्टुप्
तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः । आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ तोयेन निर्णिक्तपाणयः क्षालितहस्ता;प्रसाधका अलंकर्तारो धूपेन गन्धद्रव्यधूपेनाशअयानकेशान्तं शोषितकेशपाशान्तं तमतिथिं तैस्तैराकल्पस्य नेपथ्यस्य साधनैर्गन्धमाल्यादिभिः। उपसेदुरुपतस्थुः, अलंचक्रुरित्यर्थः ॥
RV 17.23 अनुष्टुप्
तेऽस्य मुक्तागुणोन्नद्धं मौलिमन्तर्गतस्रजम् । प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त इति॥ ते प्रसाधका मुक्तागुणेन मौक्तिकसरेणोन्नद्धमुद्बद्धमन्तर्गतस्रजमस्यातिथेर्मौलिं धम्मिल्लं प्रभामण्डलशोभिना पद्मरागेण माणिक्येन प्रत्यूपुः प्रत्युप्त चक्रुः ॥
RV 17.24 अनुष्टुप्
चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना । समापय्य ततश्चक्रुः पत्रं विन्यस्तरोचनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): चन्दनेनेति॥ किंच, मृगनाभ्या कस्तूरिकया सुगन्धिना चन्दनेन अङ्गरागमङ्गविलेपनं समापय्य समाप्य ततोऽनन्तरं विन्यस्ता रोचना गोरोचना यस्मिंस्तत्पत्रं पत्ररचनं चक्रुः ॥
RV 17.25 अनुष्टुप्
आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् । आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आमुक्तेति॥ आमुक्ताभरणः आसञ्जिताभरणः। स्रजोऽस्य सन्तीति स्रग्वी। `अस्मायामेधास्रजो विनिः` (पा.5।2।121) इति विनिप्रत्ययः। हंसाश्चिह्नमस्येति हंसचिह्नं यद्दुकूलं तद्वान्। अत्र बहुव्रीहिणैवार्थसिद्धेर्मतुबानर्थक्येऽपि सर्वधनीत्यादिवत् कर्मधारयादपि मत्वर्थीयं प्रत्ययमिच्छन्ति। एवमन्यत्रापि द्रष्टव्यम्। राज्यश्रीरेव वधूर्नवोढा तस्या वरो वोढा। `वधूः स्नुषा नवोढा स्त्री वरो जामातृषिङ्गयोः` इति विश्वः। सोऽतिथिः। अतिशयेन प्रेक्ष्यो दर्शनीय आसीत् । वरोऽप्येवंविशेषणः ॥
RV 17.26 अनुष्टुप्
नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये । विरराजोदिते सूर्ये मेरौ कल्पतरोरिव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नेपथ्येति॥ हिरण्मये सौवर्ण आदर्शे दर्पणे नेपथ्यदर्शिनो वेषं पश्यतस्तस्यातिथेश्छाया प्रतिबिम्बम्। उदिते सूर्ये दर्पणकल्पे मेरौ यः कल्पतरुस्तस्य छायेव। विरराज। तस्य सूर्यसंक्रान्तबिम्बस्य संभवत् `मेरौ`इत्युक्तम् ॥
RV 17.27 अनुष्टुप्
स राजककुदव्यग्रपाणिभिः पार्श्ववर्तिभिः । ययावुदीरितालोकः सुधर्मानवमां सभाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ सोऽतिथी राजककुदानि राजचिह्नानि छत्रचामरादीनि। `प्राधान्ये राजलिङ्गे च वृषाङअके ककुदोऽस्त्रियाम्` इत्यमरः (अ.को.1|1|59)। तेषु व्यग्राः पाणयो येषां तैः पार्श्ववर्तिभिर्जनैरुदीरितालोक उञ्चारितजयशब्दः। `आलोको जयशब्दः स्यात्` इति हलायुधः। सुधर्माया देवसभाया अनवमामन्यूनां सभामास्थानीं ययौ। `स्यात्सुधर्मा देवसभा` इत्यमरः (अ.को.1|1|59) ॥
RV 17.28 अनुष्टुप्
वितानसहितं तत्र भेजे पैतृकमासनम् । चूडामणिभिरुद्धृष्टपादपीठं महीक्षिताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वितानेति॥ तत्र सभायां वितानेनोल्लोचेन सहितम्। `अस्त्री वितानमुल्लोचः` इत्यमरः (अ.को.2|6|121)। महीक्षितां राज्ञां चूडामणिभिः शिरोरत्नैरुद्धृष्टमुल्लिखितं पादपीठं यस्य तत्। पितुरिदं पैतृकम्। `ऋतष्ठञ्` (पा.4।3।78) इति ठञ्प्रत्ययः। आसनं सिंहासनं भेजे ॥
RV 17.29 अनुष्टुप्
शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् । श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शुशुभ इति॥ तेन चाक्रान्तं। श्रीवत्सो नाम गृहविशेषः तल्लक्षणं श्रीवत्सरूपम्। `श्रीवत्सनन्द्यावर्तादिविच्छेदा बहवो द्वयोः` इति सज्जनः। महदधिकं मङ्गलायतनं मङ्गलगृहं सभारूपम्। कौस्तुभेन मणिनाऽऽक्रान्तं श्रीवत्सलक्षणम्। केशवस्येदं कैशवम्। वक्ष इव शुशुभे ॥
RV 17.30 अनुष्टुप्
बभौ भूयः कुमारत्वादाधिराज्यमवाप्य सः । रेखाभावादुपारूढः सामग्र्यमिव चन्द्रमाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): बभाविति॥ सोऽतिथिः कुमारत्वाद्बाल्याद्भूयो यौवराज्यमवाप्यैवानन्तरम्। अधिराजस्य भाव आधिराज्यं माहाराज्यमवाप्य। रेखाभावादर्धेन्दुत्वमवाप्यैव सामग्र्यमुपारूढः पूर्णतां गतश्चन्द्रमा इव बभौ इति व्याख्यानम्। तदपि यौवराज्याभावनिश्चये ज्याय एव ॥
← Previous (Ch. 16) Full Table of Contents Next (Ch. 18) →