Skip to main content
Search
Ch. 16 RV 16.13
Full Chapter
RV • Chapter 16: Canto 16

RV 16.13

Canonical Ref: RV 16.13
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिमन्वगच्छत् । वन्यैरिदानीं महिषैस्तदम्भः श्रृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): आस्फालितमिति॥ यदम्भः प्रमदाकराग्रैरास्फालितं ताडितं सत्। जलक्रीडास्विति शेषः। मृदङ्गानां धीरध्वनिस्तमन्वगच्छदन्वकरोत्। तद्दीर्घिकाणामम्भ इदानीं वन्यैर्महिषैः कर्तृभिः शृङ्गैर्विषणैराहतं सत् क्रोशति। न तु मृदङ्गध्वनिमनुकरोतीत्यर्थः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 16.13. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 16.12) All Verses in Chapter 16 Next Verse (RV 16.14) →