Skip to main content
Search
RV
Raghuvaṁśam • Chapter 12

Canto 12

द्वादशः सर्गः (रावणवधः)

Canto 12 of Raghuvaṁśam.

Total: 104 Verses • Citations: RV 12.1–104 • 1 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
RV 12.1 अनुष्टुप्
निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् । आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निर्विष्टेति॥ स्नेहयन्ति प्रीणयन्ति पुरुषमिति स्नेहाः। पचाद्यच्। स्निह्यन्ति पुरुषा येष्विति वा स्नेहाः। अधिकरणार्थे घञन्। विषयाः शब्दादयस्त एव स्नेहाः निर्विष्टा भुक्ता विषयस्नेहा येन स तथोक्तः। `निर्वेशो भृतिभोगयोः`इति विश्वः। दशा जीवनावस्था तस्या अन्तं वार्घकमुपेयिवान्। स दशरथः। उषसि प्रदीपार्चिरिव दीपज्वालेव। आसन्नं निर्वाणं मोक्षो यस्य स तथोक्त आसीत्। अर्चिःपक्षे तु- विषयो देश आश्रयः। भाजनमिति यावत्। `विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च` इति विश्वः। `स्नेहस्तैलादिकरसे द्रवे स्यात्सौहृदेऽपि च` इति विश्वः। दशा वर्तिका। `दशा वर्ताववस्थायाम्` इति विश्वः। निर्वाणैविनाशः। `निर्वाणं निर्वृतौ मोक्षो विनाशे गजमज्जने`इति यादवः ॥
RV 12.2 अनुष्टुप्
तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति । कैकेयीशङ्कयेवाह पलितच्छद्मना जरा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ जरा कैकेयीशङ्कयेव पलितस्य केशादिशौक्ल्यस्य छद्मना मिषेण। `पलितं जरसा शौक्ल्यं केशादौ` इत्यमरः (अ.को.2|6|41)। कर्णमूलं कर्णोपकण्ठमागत्य रामे श्रीराज्यलक्ष्मीर्न्यस्यतां निधीयतामिति तमाह। दशरथो `बृद्धोऽहम्`इति विचार्य रामस्य यौवराज्याभिषेकं चकाङ्क्षेत्यर्थः ॥
RV 12.3 अनुष्टुप्
सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः । प्रत्येकं ह्लादयांचक्रे कुल्येवोद्यानपादपान् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा पौरकान्तस्य रामस्याभ्युदयश्रुतिरभिषेकवार्ता। कुल्या कृत्रिमा सरित्। `कुल्याऽल्पा कृत्रिमा सरित्` इत्यमरः। उद्यानपादपानिव। पौरान्प्रत्येकं ह्लादयांचक्रे ॥
RV 12.4 अनुष्टुप्
तस्याभिषेकसंभारं कल्पितं क्रूरनिश्चया । दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ क्रूरनिश्चया कैकेयी तस्य रामस्य कल्पितं संभृतमभिषेकस्य संभारमुपकरणं शोकोष्णैः पार्थिवाश्रुभिर्दूषयामास। स्वदुःखमूलेन राजशोकेन प्रतिबबन्धेत्यर्थः ॥
RV 12.5 अनुष्टुप्
सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ । उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ चण्ड्यतिकोपना। `चण्डस्त्वत्यन्तकोपनः` इत्यमरः (अ.को.3|1|32)। सा किल भर्त्राऽऽश्वासिताऽनुनीता सती तेन भर्त्रा संश्रुतौ प्रतिज्ञातौ वरौ। इन्द्रेणसिक्ताऽभिवृष्टा भूर्बिले वल्मीकादौ मग्नावुरगाविव। उद्ववामोज्जगार ॥
RV 12.6 अनुष्टुप्
तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समाः । द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तयोरिति॥ सा तयोर्वरयोर्मध्य एकेन वरेण रामं चतुर्दश समाः संवत्सरान्। अत्यन्तसंयोगे द्वितीया। प्राव्राजयत् प्रावासयत्। द्वितीयेन वरेण सुतस्य भरतस्य वैधव्यैकफलां स्ववैधव्यमात्रफलाम्। न तूपभोगफलामिति भावः। श्रियमैच्छदियेष ॥
RV 12.7 अनुष्टुप्
पित्रा दत्तां रुदन्रामः प्राङ्महीं प्रत्यपद्यत । पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पित्रेति॥ रामः। प्राक् पित्रा दत्तां महीं रुदन्प्रत्यपद्यताङ्गीचकार। स्वत्यागदुःखादिति भावः। पश्चाद्वनाय गच्छेत्येवंरूपां तदाज्ञां पित्राज्ञां मुदितोऽग्रहीत्। पित्राज्ञाकरणलाभादिति भावः ॥
RV 12.8 अनुष्टुप्
दधतो मङ्गलक्षौमे वसानस्य च वल्कले । ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दधत इति॥ मङ्गलक्षौमे दधतो वस्कले वसानस्याच्छादयतश्च तस्य रामस्य सममेकविधं मुखरागं मुखवर्णं जना विस्मिता ददृशुः। सुखदुःखयोरविकृत इति भावः ॥
RV 12.9 अनुष्टुप्
स सीतालक्ष्मणसखेः सत्याद्गुरुमलोपयन् । विवेश दण्डकारण्यं प्रत्येकं च सतां मनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रामो गुरुं पितरं सत्याद्वरदानरूपात्। अलोपयन्नभ्रंशयन्। सीतालक्ष्मणयोः सखेति विग्रहः। ताभ्यां सहितः सन् दण्डकारण्यं विवेश। सतां मनः प्रत्येकं विवेश। पितृभक्त्या सर्वे सन्तः संतुष्टा इति भावः ॥
RV 12.10 अनुष्टुप्
राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजम् । शरीरत्यागमात्रेण शुद्धिलाभममन्यत ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): राजेति॥ तद्वियोगार्तः पुत्रवियोगदुःखितो राजिपि स्वकर्मणा मुनिपुत्रवधरूपेण जातः स्वकर्मजस्तं शापं पुत्रशोकजं मरणात्मकं स्मृत्वा शरीरत्यागमात्रेण देहत्यागेनैव शुद्धिलाभं प्रायश्चित्तम्। अमन्यत। मृत इत्यर्थः॥
RV 12.11 अनुष्टुप्
विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् । रन्ध्रान्वेषणदक्षाणां द्विषामामिषततां ययौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विप्रोषितेति॥ विप्रोषिता गताः कुमारा यस्मिंस्तत्तथोक्तम्। अस्तमितो मृत ईश्वरो राजा यस्या तत्तथोक्तं तद्राज्यं रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां भोग्यवस्तुतां ययौ। `आमिषं भोग्यवस्तुनि`इति केशवः ॥
RV 12.12 अनुष्टुप्
अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् । मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथानाथाः प्रकृतयोऽमात्याः। `प्रकृतिः सहजे योनावमात्ये परमात्मनि` इति विश्वः। मातृबन्धुषु निवासिनं भरतं स्तम्भिताश्रुभिः। पितृमरणगुप्त्यर्थमिति भावः। मौलैराप्तैः सचिवैः। आनाययामासुराममयां चक्रुः ॥
RV 12.13 अनुष्टुप्
श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः । मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): श्रुत्वेति॥ कैकेयीतनयो भरतः पितुस्तथाविधं स्वमातृमूलं मृत्युं मरणं श्रुत्वा स्वस्या मातुः केवलं मातुरेव पराङ्मुखो न। किंतु श्रियोऽपि पराङ्मुख आसीत् ॥
RV 12.14 अनुष्टुप्
ससैन्यश्चान्वगाद्रामं दर्शतानाश्रमालयैः । तस्य पश्यन्ससौमित्रेरुदश्रुर्वसतिद्रुमान् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ससैन्य इति॥ ससैन्यो भरतो राममन्वगाञ्च। किं कुर्वन्? आश्रमालयैर्वनवासिभिर्दर्शितान् `एते रामनिवासाः` इति कथितान् ससौमित्रेर्लक्ष्मणसहितस्य तस्य रामस्य वसतिद्रुमान्निवासवृक्षान्पश्यन्न्रुदश्रू रुदन् ॥
RV 12.15 अनुष्टुप्
चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः । लक्ष्म्या निमन्त्रयांचक्रे तमनुच्छिष्टसंपदा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): चित्रेति॥ चित्रकूटवनस्थं तं रामं च गुरोः पितुः कथितस्वर्गतिः। कथितपितृमरणः सन्नित्यर्थः। अनुच्छिष्टाऽननुभूतशिष्टा संपद्गुणोत्कर्षो यस्याः सा। `संपद्भूतौ गुणोत्कर्षे`इति केशवः। तया लक्ष्म्या करणेन निमन्त्रयांचक्रे आहूतवान् ॥
RV 12.16 अनुष्टुप्
स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे । परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स हीति॥ स हि भरतः प्रथमजेऽग्रजे तस्मिन् रामेऽकृतश्रीपरिग्रहे सति स्वयं भुवः स्वीकरणादात्मानं परिवेत्तारं मेने। `परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात्` इत्यमरः (अ.को.2|7|60)। भूपरिग्रहोऽपि दारपरिग्रहसम इति भावः ॥
RV 12.17 अनुष्टुप्
तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः । ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ स्वर्गिणः पितुर्निदेशादपाक्रष्टुं निवर्तयितुमशक्यं तं रामं पश्चाद्राज्याधिदेवते स्वामिन्यौ कर्तुं पादुके ययाचे याचितवान् ॥
RV 12.18 अनुष्टुप्
स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम् । नन्दिग्रामगतस्तस्य राज्‌यं न्यासमिवाभुनक् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स भरतो भ्रात्रा रामेण तथेत्युक्त्वा विसृष्टः सन् पुरीमयोध्यां नाविशदेव। किंतु नन्दिग्रामगतः सन्। तस्य रामस्य राज्यं न्यासमिव निक्षेपमिव। अभुनगपालयत्। न तूपभुक्तवानित्यर्थः। अन्यथा `भुजोऽनवने` (पा.1।3।63) इत्यात्मनेपदप्रसङ्गात्। भुजेर्लङ् ॥
RV 12.19 अनुष्टुप्
दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः । मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दृढेति॥ ज्येष्ठे दृढभक्ती राज्यतृष्णापराङ्मुखो भरत इति पूर्वोक्तानुष्ठानेन मातुः पापस्य प्रायश्चित्तं तदपनोदकं कर्म। अकरोदिव। इत्युत्प्रेक्षा। `दृढभक्तिः`इत्यत्र `दृढ`शब्दस्य `स्त्रियाः पुंवत्-` (पा.6।3।34)इत्यादिना पुंवद्भावो दुर्घटः। `अप्रियादिषु`इति निषेधात्। `भक्ति`शब्दस्य प्रियादिषु पाठात्। अतो दृढं भक्तिरस्येति नपुंसकपूर्वपदो बहुव्रीहिरिति गणव्याख्याने दृढभक्तिरित्येवमादिषु पूर्वपदस्य नपुंसकस्य विवक्षितत्वात्सिद्धमिति समाधेयम्। वृत्तिकारश्च-दीर्घनिवृत्तिमात्रपरो `दृढभक्ति`शब्दो लिङ्गविशेषस्यानुपकारत्वात्स्त्रीत्वमविवक्षितमेव। तस्मादस्त्रीलिङ्गत्वाद्दृढभक्तिशब्दस्यायं प्रयोग इत्यभिप्रायः। न्यासकारोऽप्येवम्। भोजराजस्तु-`कर्मसाधनस्यैव भक्तिशब्दस्य प्रियादिपाठाद्भवानीभक्तिरित्यादौ कर्मसाधनत्वात्पुंवद्भावप्रतिषेधः। दृढभक्तिरित्यादौ भावसाधनत्वात्पुंवद्भावसिद्धिः पूर्वपदस्य`इत्याह ॥
RV 12.20 अनुष्टुप्
रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् । चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): राम इति॥ सानुजः शान्तो रामोऽपि वैदेह्या सह वने वन्येन वनभवेन कन्दमूलादिना वर्तयन् वृत्तिं कुर्वञ्जीवन् वृद्धेक्ष्वाकूणां व्रतं वनवासात्मकं युवा यौवनस्थ एव चचार ॥
RV 12.21 अनुष्टुप्
प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम् । कदाचिदङ्के सीतायाः शिशअये किंचिदिव श्रमात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रभावेति॥ स रामः कदाचित् प्रभावेण स्वमहिम्ना स्तम्भिता स्थिरीकृता छाया यस्य तं वनस्पतिमाश्रितः सन्। किंचिदीषच्छ्रमादिव सीताया अङ्के शिश्ये सुष्वाप ॥
RV 12.22 अनुष्टुप्
ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः । प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ऐन्द्रिरिति॥ ऐन्द्रिरिन्द्रस्य पुत्रो द्विजः पक्षी काकस्तस्याः सीताया स्तनौ। प्रियस्य रामस्योपभोगचिह्नेषु। तत्कृतनखक्षतेष्वित्यर्थः। पुरोभागिनो दोषैकदर्शिनः कर्म पौरोभाग्यम्। `दोषैकदृक्पुरोभागी` इत्यमरः (अ.को.3|1|46)। दुःश्लिष्टदोषघातमाचरन्कुर्वन्निव। नखैर्विददार विलिलेख। `किल`इत्यैतिह्ये ॥
RV 12.23 अनुष्टुप्
तस्मिन्नास्थदिषीकास्त्रं रामो रामावबोधितः । आत्मानं मुमुचे तस्मादिकेनेत्रव्ययेन सः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ रामस्य सीतयाऽवबोधितो रामस्तस्मिन् काक इषीकास्त्रं काशास्त्रम्। `इषीका काशमुच्यते`इति हलायुधः। आस्थदस्यति स्म। `असु क्षेपणे` इति धातोर्लुङ्। `अस्यतिवक्तिख्यातिभ्योऽङ्` (पा.3।1।52) इत्यङ्प्रत्ययः। `अस्यतेस्थुक्` (पा.7।4।17)इति थुगागमः। स काक एकनेत्रस्य व्ययेन दानेन तस्मादस्त्रादात्मानं मुमुचे मुक्तवान्। मुचेः कर्तरि लिङ्। `धेनुं मुमोचज`(2।1)इतिक्प्रयोगः ॥
RV 12.24 अनुष्टुप्
रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः । आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): राम इति॥ रामस्त्वासन्नदेशत्वाद्धेतोः पुनर्भरतागमनमाशङ्क्योत्सुकसारङ्गामुत्कण्ठितहरिणां चित्रकूटस्थलीं जहौ तत्याज। आसन्नश्चासौ देशश्चेति विग्रहः ॥
RV 12.25 अनुष्टुप्
प्रययावातिथेयेषु वसन्नृषिकुलेषु सः । दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रययाविति॥ सः रामः। अतिथिषु साधूनि आतिथेयानि। `पथ्यतिथिवसतिस्वपतेर्ढञ्` (पा.4।4।104)इति ढञ्प्रत्ययः। तेषु। ऋषिकुलेष्वृष्याश्रमेषु। `कुलं कुल्ये गणे देहे गेहे जनपदेऽन्वये`इति हैमः। वर्षासु भवानि वार्षिकाणि। `वर्षाभ्यष्ठक्` (पा.4।3।18)इति ठक्प्रत्ययः। तेषु। ऋक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव वसन् दक्षिणां दिशं प्रययौ ॥
RV 12.26 अनुष्टुप्
बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता । प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): बभाविति॥ तं राममनुगच्छन्ती विदेहाधिपतेः सुता सीता कैकेय्या प्रतिषिद्धा निवारिताऽपि गुणोन्मुखी गुणोत्सुका लक्ष्मी राजलक्ष्मीरिव बभौ॥
RV 12.27 अनुष्टुप्
अनसूयातिसृष्टेन पुण्यगन्धेन काननम् । सा चकाराङ्गरागेण पुष्पोञ्चलितषट्पदम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनसूयेति॥ सा सीताऽनसूययाऽत्रिभार्यया। अतिसृष्टेन दत्तेन पुण्यगन्धेनाङअगरागेण काननं वनं पुष्पेभ्य उञअचलिता निर्गताः षट्पदा यस्मिंस्तत्तथाभूतं चकार ॥
RV 12.28 अनुष्टुप्
संध्याभ्रकपिशस्तस्य विरोधो नाम राक्षसः । अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): संध्येति॥ संध्याभ्रकपिशो विराधो नाम राक्षसः। ग्रहो राहुरिन्दोरिव। तस्य रामस्य मार्गमध्वानमावृत्यावरुध्यातिष्ठत् ॥
RV 12.29 अनुष्टुप्
स जहार तयोर्मध्ये मैथिलीं लोकशोषणः । नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ लोकस्य शोषणः शोषकः स राक्षसस्तयो रामलक्ष्मणमयोर्मध्ये मैधिलीम्। नभो-नभस्ययोः श्रावण-भाद्रपदयोरन्तरे मधअये वृष्टिमवग्रहो वर्षप्रतिबंध इव। जहार। `वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ` इत्यमरः (अ.को.1|3|13)॥
RV 12.30 अनुष्टुप्
तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम् । गन्धेनाशुचिना चेति वसुधायां निचटख्नतुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ ककुत्स्थस्य गोत्रापत्ये पुमांसौ काकुत्स्थौ रामलक्ष्मणौ तं विराधं विनिष्पिष्य हत्वा। अशुचिनाऽपवित्रेण गन्धेन स्थलीमाश्रमभुवं पुरा दूषयति दूषयिष्यतीति हेतोः। `यावत्पुरानिपातवोर्लट्` (पा.3।3।4) इति भविष्यदर्थे लट्। वसुधायां निचख्नतुर्भूमौ खनित्वा निक्षिप्तवन्तौ च ॥
← Previous (Ch. 11) Full Table of Contents Next (Ch. 13) →