Skip to main content
Search
RV
Raghuvaṁśam • Chapter 12

Canto 12

द्वादशः सर्गः (रावणवधः)

Canto 12 of Raghuvaṁśam.

Total: 104 Verses • Citations: RV 12.1–104 • 1 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
RV 12.61 अनुष्टुप्
दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता । जानकी विषवल्लीभिः परीतेव महौषधिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दृष्टेति॥ लङ्कायां रावणराजधान्यां विचिन्वता मृगयमाणेन तेन मारुतिना राक्षसीभिर्वृता जानकी। विषवल्लीभिः परीता परिवृता महौषधिः संजीविनीलतेव। दृष्टा ॥
RV 12.62 अनुष्टुप्
तस्यै भर्तुरभिज्ञानमङ्गुलीयं दददौ कपिः ॥ प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबिन्दुभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति॥ कपिर्हनुमान् भर्तू रामस्य संबन्ध्यभिज्ञानं प्रत्यभिज्ञानसाधकमङ्गुलीयमूर्मकाम्। `अङ्गुलीयकमूर्मिका` इत्यमरः (अ.को.2|6|108)। `जिह्वामूलाङ्गुलेश्छः` (पा.4।3।62) इति छप्रत्ययः। तस्यै जानक्यै ददौ। किंविधमङ्गुलीयम्? अनुष्णैः शीतलैस्तस्या आनन्दाश्रुबिन्दुभिः प्रत्युद्गतमिव स्थितम्। भर्त्रभिज्ञानदर्शनादानन्दबाष्पो जात इत्यर्थः ॥
RV 12.63 अनुष्टुप्
निर्वाप्य प्रियसंदेशैः सीतामक्षवधोद्धतः । स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निर्वाप्येति॥ स कपिः। प्रियस्य रामस्य संदेशैर्वाचिकैः सीतां निर्वाप्य सुखयित्वा। अक्षस्य रावणकुमारस्य वधेनोद्धतो दृप्तः सन्। क्षणं सोढोऽरेरिन्द्रजितः कर्तुः निग्रहो बाधो ब्रह्मास्त्रबन्धनरूपो येन स तथोक्तः सन्। लङ्कां पुरीं दददाह भस्मीचकार ॥
RV 12.64 अनुष्टुप्
प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती । हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रत्यभिज्ञेति॥ कृती कृतकृत्यः कपिः स्वयमायातं मूर्तिमद्वैदेह्या हृदयमिव स्थितं तस्या एव प्रत्यभिज्ञानरत्नं च रामायादर्शयत् ॥
RV 12.65 अनुष्टुप्
स प्राप हृदयन्यस्तमणिस्पर्शनिमीलितः । अपयोधरसंसर्गां प्रियालिङ्गननिर्वृतिम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ हृदये वक्षसि न्यस्तस्य धृतस्य मणेरभिज्ञानरत्नस्य। स्पर्शेन निमीलितो मोहितः स रामोऽविद्यमानः पयोधरसंसर्गः स्तनस्पर्शो यस्यास्तां तथाभूतां प्रियाया आलिङ्गनेन या निर्वृतिरानन्दस्तां प्राप ॥
RV 12.66 अनुष्टुप्
श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः । महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): श्रुत्वेति॥ प्रियाया उदन्तं वार्ताम्। `उदन्तः साधुवार्तयोः`इति विश्वः। श्रुत्वा तस्याः सीतायाः संगम उत्सुको रामो लङ्कायाः संबन्धी यो महार्णव एव परिक्षेपः परिवेषस्तं परिखालघुं दुर्गवेष्टनवत्सुतरं मेने ॥
RV 12.67 अनुष्टुप्
स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रूतः । न केवलं भुवः पृष्ठे व्योम्नि संबाधवार्तिभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ केवलमेकं भुवः पृष्ठे भूतले न किंतु व्योम्नि च संबाधवर्तिभिः संकटगामिभिर्हरिसैन्यैः कपिबलैरनुद्रुतोऽन्वितः सन् स रामोऽरिनाशाय प्रतस्थे चचाल ॥
RV 12.68 अनुष्टुप्
निविष्टमुदधेः कूले तं प्रपेदे विभीषणः । स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निविष्टमिति॥ उदधेः कूले निविष्टं तं रामम्। विशेषेण भीषयते शत्रूनिति विभीषणो रावणानुजः। राक्षसलक्ष्म्या स्नेहाद्बुद्धिं कर्तव्यताज्ञानमाविश्य चोदितः प्रेरित इव। प्रपेदे प्राप्तः ॥
RV 12.69 अनुष्टुप्
तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः । काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्मा इति॥ राघवस्तस्मै विभीषिणाय। `प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता` (पा.1।4।40)इति संप्रदानत्वाञ्चतुर्थीं। निशाचरैश्वर्यं राक्षसाधिपत्यं प्रतिशुश्राव प्रतिज्ञातवान्। तथा हि-कालेऽवसरे समारब्धाः प्रकान्ता नीतयः फलं बध्नन्ति गृह्णन्ति। जनयन्तीत्यर्थः। खलु॥
RV 12.70 अनुष्टुप्
स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि । रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रामो लवणं क्षारमम्भो यस्यासौ लवणाम्भस्तस्मिँल्लवणाब्धौ प्लृवगैः प्रयोज्यैः। शार्ङ्गिणो विष्णोः स्वप्नाय शयनाय रसातलात् पातालादुन्मग्नमुत्थितं शेषमिव स्थितम्। सेतुं बन्धयामास ॥
RV 12.71 अनुष्टुप्
तेनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलैः । द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ रामस्तेन पथा सेतुमार्गेणोत्तीर्य, सागरमिति शेषः । पिङ्गलैः सुवर्णवर्णैरत एव द्वितीयं हेमप्राकारं कुर्वद्भिरिव स्थितैर्वानरैर्लङ्कां रोधयामास ॥
RV 12.72 अनुष्टुप्
रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् । दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रण इति॥ तत्र लङ्कायां प्लवगानां रक्षसां च भीमो भयंकरो दिग्विजृम्भितं काकुत्स्थः-पौलस्त्ययो राम-रावणयोर्जयघोषणं जयशब्दो यस्मिन्स तथोक्तो रणः प्रववृते प्रवृत्तः। `अस्त्रियां समरानीकरणाः कलहनिग्रहौ` इत्यमरः ॥
RV 12.73 अनुष्टुप्
पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः । अतिशस्त्रनखन्यासः शैलरुग्णमतंगजः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पादपेति॥ किविधो रणः? पादपैर्वृक्षैराविद्धा भग्नाः परिघा लोहबद्धकाष्ठानि यस्मिन्स तथोक्तः। `परिघः परिघातनः` इत्यमरः (अ.को.2|8|91)। शिलाभिर्निष्पिष्टाश्चूर्णिता मुद्गरा अयोघना यस्मिन्स तथोक्तः। `द्रुघणो मुद्गरघनौ` इत्यमरः (अ.को.2|8|91)। अतिशस्त्राः शस्त्राण्यतिक्रान्ता नखान्यासा यस्मिन्स तथोक्तः। शैलै रुग्णा भग्ना मतंगजा यस्मिन्स तथोक्तः ॥
RV 12.74 अनुष्टुप्
अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् । सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथानन्तरम्। छिद्यत इति छेदः खण्डः। शिर एव छेद इति विग्रहः। रामशिरश्छेदस्य विद्युज्जिह्वाख्यराक्षसमायानिर्मितस्य दर्शनेनोद्भ्रान्तचेतनां गतसंज्ञां सीतां त्रिजटा नाम काचित्सीतापक्षपातिनी राक्षसी मायाकल्पितं न त्वेतत्सत्यमिति शंसन्ती ब्रुवाणा। `शप्श्यनोर्नित्यम्` (पा.7।1।81) इति नित्यं नुमागमः। समजीवयत् ॥
RV 12.75 अनुष्टुप्
कामं जीवति मे नाथ इति सा विजहौ शुचम् । प्राङ्मत्वा सत्यमस्यान्तं जीविता स्मीति लज्जिता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): काममिति॥ सा सीता मे नाथो जिवतीति हेतोः शुचं शोकं कामं विजहौ। किंतु प्राक् पूर्वमस्य नाथस्यान्तं नाशं सत्यं यथार्थं मत्वा जीविता जिवितवत्यस्मीति हेतोर्लज्जिता लज्जावती। कर्तरि क्तः। दुःखादपि दुःसहो लज्जाभर इति भावः ॥
RV 12.76 अनुष्टुप्
गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः । दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गरुडेति॥ गरुडस्तार्क्ष्यः तस्यापातेनागमनेन विश्लिष्टं मेघनादस्येन्द्रजितोऽस्त्रेण नागपाशेन बन्धनं यस्मिन्स तथोक्तः क्षणक्लेषो दाशरथ्यो रामलक्ष्मणयोः स्वप्नवृत्तः स्वप्नावस्थानुभूत इवाभवत् ॥
RV 12.77 अनुष्टुप्
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् । रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः पौसस्त्यो रावणः शक्त्या कासूनामकेनायुधेन। `कासूसामर्थ्योः शक्तिः` इत्यमरः। लक्ष्मणं वक्षसि बिभेद विदारयामास। रामस्त्वनाहतोऽप्यहतोऽपि शुचा शोकेन विदीर्णहृदय आसीत् ॥
RV 12.78 अनुष्टुप्
स मारुतिसमानीतमहौषधिहतव्यथः । लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ लक्ष्मणो मारुतिना मरुत्सुतेन हनुमता समानीतया महौषध्या संजिविन्या हतव्यथः सन् पुनः शरैर्लङ्कास्त्रीणां विलापे परिदेवने। `विलापः परिदेवनम्` इत्यमरः (अ.को.1|6|16)। आचार्यकमाचार्यकर्म। `योपधाद्गुरूपोत्तमाद्वुञ्` (पा.5।1।132)इति वुञ्। चक्रे। पुनरपि राक्षसाञ्जघानेति व्यज्यते ॥
RV 12.79 अनुष्टुप्
स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् । मेघस्येव शरत्कालो न किंचित्पर्यशेषयत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स लक्ष्मणः शरत्कालो मेघस्येव। मेघनादस्येन्द्रजितो नादं सिंहनादम्। अन्यत्र, -गर्जितं च इन्द्रायुधप्रभं शक्रधनुःप्रभं धनुश्च किंचिदल्पमपि न पर्यशेषयन्नावशेषितवान्। तमवधीदित्यर्थः ॥
RV 12.80 अनुष्टुप्
कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः । रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनः शिलः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कुम्बकर्ण इति॥ कपीन्द्रेण सुग्रीवेण स्वसुः शूर्पणखायास्तुल्यावस्थो नासाकर्णच्छेदेन सदृशः कृतः। कुम्भकर्णष्टङ्केन शिलाभेदकशस्त्रेण छिन्ना मनःशिला रक्तवर्णधातुविशेषो यस्य स तथोक्तः। `टङ्कः पाषाणदारणः`इति, `धातुर्मनः शिलाद्यद्रेः`इति चामरः। शृङ्गी शिखरीव। रामं रुरोध ॥
RV 12.81 अनुष्टुप्
अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् । रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अकाल इति॥ प्रियस्वप्न इष्टनिद्रोऽनुजो भवान्वृथा भ्रात्रा रावणेनाकाले बोधित इतीवासौ कुम्भकर्णो रामेषुभी रामबाणैर्दीर्घनिद्रां मरणं प्रवेशितो गमितः। यथा लोकेष्विष्टवस्तुविनाशदुःखितस्य ततोऽपि भूयिष्ठमुपपाद्यते तद्वदिति भावः ॥
RV 12.82 अनुष्टुप्
इतरण्यपि रक्षांसि पेतुर्वानरकोटिषु । रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतराणीति॥ इतराणि रक्षांस्यपि वानरकोटिषु। समरोत्थानि रजांसि तेषां रक्षसां शोणितनदीषु रक्तप्रवाहेष्विव। पेतुः। निपत्य मृतानीत्यर्थः ॥
RV 12.83 अनुष्टुप्
निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात् । अरावणमरामं वा जगदद्येति निश्चितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निर्ययाविति॥ अथ पौलस्त्यो रावणः। अद्य जगदरावणं रावणशून्यमरामं रामशून्यं वा भवेत्। इति निश्चितो निश्चितवान्, कर्तरि क्तः। विजयमरणयोरन्यतरनिश्चयवान् पुनर्युद्धाय मन्दिरान्निर्ययौ निर्जगाम ॥
RV 12.84 अनुष्टुप्
रामं पदातिमालोक्य लङ्केशं च वरूथिनम् । हरियुग्यं रथं तस्मै प्रजिघाय पुरंदरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): राममिति॥ पादाभ्यामततीति पदातिः। तं पादचारिणं रामम्। वरूथो रथगुप्तिः। `रथगुप्तिर्वरूथो ना` इत्यमरः (अ.को.2|8|57)। अत्र वरूथेन रथो लक्ष्यते। वरूथिनं रथिनं लङ्केशं चालोक्य पुरंदर इन्द्रः। युगं वहन्तीति युग्या रथाश्वाः। `तद्वहति रथयुगप्रासङ्म्` (पा.3।4।7।6)इति यत्प्रत्ययः। हरियुग्यं कपिलवर्णाश्वम्। `शुकाहिकपिमेकेषु हरिर्ना कपिले त्रिषु` इत्यमरः (अ.को.2|8|57)। रथं तस्मै रामाय प्रजिघाय प्रहितवान् ॥
RV 12.85 अनुष्टुप्
तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः । देवसूतभुजालम्बी जैत्रमध्यास्त राघवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ राघवो व्योमगङ्गोर्मिवायुभिराधूतध्वजपटम्। मार्गंवशादिति भावः। जेतैव जैत्रो जयनशीलः, तं जैत्रम्। `जेतृ`शब्दात्तृन्नन्तात्`प्रज्ञादिभ्यश्च` (पा.5।4।38)इति स्वार्थेऽण्प्रत्ययः। तं रथं देवसूतभुजालम्बी मातलिहस्तावलम्बः सन्, अध्यास्ताधिष्ठितवान्। आसेर्लङअ ॥
RV 12.86 अनुष्टुप्
मातलिस्तस्य माहेन्द्रमामुमोच तनुच्छदम् । यत्रोत्पलदलक्लैब्यमस्त्राण्यापुः सुरद्विषाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मातलिरिति॥ मातलिरिन्द्रसारथिर्माहेन्द्रम्। तनुश्छाद्यतेऽनेनेति तनुच्छदो वर्म। `पुंसि संज्ञायां घः प्रायेण` (पा.3।3।118) इति घः। तम्। तस्य रामस्यामुमोैचासञ्जयामास। यत्र तनुच्छदे सुरद्विषामस्त्राण्युत्पलदलानां यत्क्लैब्दं नपुंसकत्वं निरर्थकत्वं तदापुः ॥
RV 12.87 अनुष्टुप्
अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् । रामरावणयोर्युद्धं चरितार्थमिवाभवत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अन्योन्येति॥ चिरादन्योन्यदर्शनेन प्राप्तविक्रमावसरं रामरावणयोर्युद्धमायोधनं चरितार्थं सफलमभवदिव। प्राक्पराक्रमावसरदौर्बल्याद्विफलस्याद्य तल्लाभात्साफल्यमुत्प्रेक्ष्यते ॥
RV 12.88 अनुष्टुप्
भुजमूर्घोरुबाहुल्यादेकोऽपि धनदानुजः । ददृशे ह्ययथापूर्वो मातृवंश इव स्थितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भुजेति॥ यथाभूतः पूर्वं यथापूर्वः। सुप्सुपेति समासः। यथापूर्वो न भवतीत्ययथापूर्वः। निहतबन्धुत्वाद्रक्षः परिचारशून्य इत्यर्‌थः। अत एवैकोऽपि सन् घनदानुजो रावणः। भुजाश्च मूर्धानश्चोरवः पादाश्च भूजमूर्धोरु। प्राण्यङ्गत्वाद्द्वन्द्वैकवद्भावः। तस्य बाहुल्याद्बहुलत्वाद्धेतोः। तद्बहहुत्वे यादवः-`दशास्यो विंशतिभुजश्चतुष्पान्मातृमन्दिरे`इति। मातृवंशे मातृसंबन्धिनि वर्गे स्थइत इव ददृशे दृष्टो हि। `वंशो वेणौ कुले वर्गे`इति विश्वः। अत्र रावणमातू रक्षोजातित्वात्तद्वर्गो रक्षोवर्ग इति लभ्यते। अतश्चैकोऽप्यनेकरक्षः परिवृत इवालक्ष्यतेत्यर्थः ॥
RV 12.89 अनुष्टुप्
जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम् । रामस्तुलितकैलासमरातिं बह्वमन्यत ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): जेतारमिति॥ लोकपालानामिन्द्रादीनां जेतारम्। `कर्तृकर्मणोः कृति`कैलासमुत्क्षिप्तरुद्रादिं तमेवं शौर्यवीर्यसत्त्वसंपन्नं महावीर्यमरातिं शत्रुं रामो गुणग्राहित्वाज्जेतव्योत्कर्षस्य जेतुः स्वोत्कर्षहेतुत्वाञ्च बह्वमन्यत। साधु मद्विक्रमस्यायं पर्याप्तो विषय इति बहुमानमकरोदित्यर्थः। बह्विति क्रियाविशेषणम् ॥
RV 12.90 अनुष्टुप्
तस्य स्फुरति पौलस्त्यः सीतासंगमशंसिनि । निचखानाधिकक्रोधः शरं सव्येतरे भुजे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ अधिकक्रोधः पौलस्त्यः स्फुरति स्पन्दमानेऽत एव सीतासंगमशंसिनि तस्य रामस्य सव्य इतरो यस्मात्सव्येतरे दक्षिणे। `न बहुव्रीहौ` (पा.1।1।29)इति `इतर` शब्दस्य सर्वनामसंज्ञाप्रतिषेधः। भुजे शरं निचखान निखातवान् ॥
← Previous (Ch. 11) Full Table of Contents Next (Ch. 13) →