Skip to main content
Search
RV
Raghuvaṁśam • Chapter 12

Canto 12

द्वादशः सर्गः (रावणवधः)

Canto 12 of Raghuvaṁśam.

Total: 104 Verses • Citations: RV 12.1–104 • 1 Lexicon Terms • Page 4 of 4 (Verses 14 shown)
RV 12.91 अनुष्टुप्
रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः । विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रावणस्येति॥ रामेणास्तः क्षिप्त आशुगो बाणः। विश्रवसोऽपत्यं पुमान् रावणः। `विश्रवः`शब्दादपत्येऽर्थेऽण्प्रत्यये सति `विश्रवसो विश्रवणरवणौ`इति रावणादेशः। तस्य रावणस्यापि हृदयं वक्षो भित्त्वा विदीर्य। उरगेभ्यः पातालवासिभ्यः प्रियमाख्यातुमिव। भुवं विवेश ॥
RV 12.92 अनुष्टुप्
वचसैव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः । अन्योन्यजयसंरम्भो ववृधे वादिनोरिव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वचसेति॥ वाक्यं वचसैवास्त्रमस्त्रेण निघ्नतोः प्रतिकुर्वतोस्तयो रामरावणयोः। वादिनोः कथकयोरिव। अन्योन्यविषये जयसंरम्भो ववृधे ॥
RV 12.93 अनुष्टुप्
विक्रमव्यतिहारेण सामान्याऽभूद्द्वयोरपि । जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विक्रमेति॥ जयश्रीर्विक्रमस्य व्यतिहारेण पर्यायक्रमेण तयोर्द्वयोरपि। अन्तरा मध्ये। अव्ययमेतत्। वेदिर्वेद्याकारा भित्तिर्मत्तवारणयोरिव। सामान्या साधारणाऽभूत्। न त्वन्यतरनियतेत्यर्थः। अत्र `मत्तवारणयोः`इत्यत्र `द्वयोः`इत्यत्र च `अन्तरान्तरेण युक्ते` (पा.2।3।4) इति द्वितीया न भवति। `अन्तरा` शब्दस्योक्तरीत्याऽन्यत्रान्वयात्। मध्ये कामपि भित्तिं कृत्वा गजौ योधयन्तीति प्रसिद्धिः ॥
RV 12.94 अनुष्टुप्
कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः । परस्परशरव्राताः पुष्पवृष्टिं न सेहिरे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कृतेति॥ स्वयमस्त्रप्रयोगः कृतं प्रतिकृतं परकृतप्रतीकारस्ताभ्यां प्रीतैः सुरासुरैर्यथासंख्यं तयो राम-रावणयोर्मुक्तां पुष्पवृष्टिम्। द्वयीमिति शेषः। परस्परं शरव्राता न सेहिरे। अहमेवालं, किं त्वयेति चान्तराल एवेतरेतरबाणवृष्टिरितरेतरपुष्पवृष्टिमवारयदित्यर्थः ॥
RV 12.95 अनुष्टुप्
अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे । हृतां वैवस्वतस्येव कृटाशाल्मलिमक्षिपत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अय इति॥ अथ रक्षो रावणोऽयसः शङ्कुभिः कीलैश्चितां कीर्णा शतघ्नीं सोहकण्टककीलितयष्टिविशेषम्। `शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता। यष्टिः` इति केशवः। हृतां विजयलब्धाम्। वैवस्वतस्यान्तकस्य कूटशाल्मलिमिव। शत्रवे राघवायाक्षिपत् क्षिप्तवान्। कूटशाल्मलिरिव कूटशाल्मलिरिति व्युत्पत्त्या वैवस्वतगदाया गौणी संज्ञा। कूटशाल्मलिर्नामैकमूलप्रकृतिः कण्टकी वृक्षविशेषः। `रोचनः कूटशाल्मलिः` इत्यमरः (अ.को.2|4|47)। तत्सादृश्यं च गदाया अयःसंङ्कुचितत्वादनुसंधेयम् ॥
RV 12.96 अनुष्टुप्
राघवो रथमप्राप्तं तामाशां च सुरद्विषाम् । अर्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): राघव इति॥ राघवो रथमप्राप्तां तां शतघ्नीं सुरद्विषां रक्षसामाशां विजयतृष्णां च। `आशा तृष्णादिशोः प्रोक्ता` इति विश्वः। अर्धचन्द्र इव मुखं येषां तैर्बाणैः कदलीवत्सुखं यथा तथा चिच्छिद। अथवा कदल्यामिव सुखमक्लेशो यस्मिन्कर्मणि तदिति विग्रहः ॥
RV 12.97 अनुष्टुप्
अमोघं संदधे चास्मै धनुष्येकधनुर्धरः । ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अमोघमिति॥ एकोऽद्वितीयो धनुर्धरो रामः प्रियायाः शोक एव शल्यं तस्य निषअकर्षणमुद्धारकं यदौषधं तदमोघं ब्राह्मं ब्रह्मदेवताकमस्त्रमभिमन्त्रितं बाणमस्मै रावणाय च। तद्वधार्थमित्यर्थः। धनुषि संदधे ॥
RV 12.98 अनुष्टुप्
तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम् । वपुर्महोरगस्येव करालफणमण्डलम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ व्योम्नि शतधा भिन्नं प्रसृतं दीप्तिमन्ति मुखानि यस्य तद्ब्रह्मास्त्रम्। करालं भीषणं तुङ्गं वा फणमण्डलं यस्य तत्तथोक्तम्। `करालो दन्तुरे तुङ्गे करालो भीषणेऽपि च` इति विश्वः। महोरगस्य शेषस्य वपुरिव। ददृशे दृष्टम् ॥
RV 12.99 अनुष्टुप्
तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयत् । स रावणशिरःपङ्क्तिमज्ञातव्रणवेदनाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ स रामो मन्त्रप्रयुक्तेन तेनास्त्रेणाज्ञातव्रणवेदनामतिशैघ्र्यादननुभूतव्रणदुःखां रावणशिरःपङ्क्तिं निमेषार्धादपातयत् पातयामास ॥
RV 12.100 अनुष्टुप्
बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः । रराज रक्षः कायस्य कण्ठच्छेदपरम्परा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): बालेति॥ पतिष्यत आसन्नपातस्य रक्षःकायस्य रावणकलेवरस्य छिद्यन्त इति छेदाः खण्डाः। कण्ठानां ये छेदास्तेषां परम्परा पङ्क्तिः। वीचिमिर्भिन्ना नानाकृताप्सु बालार्कस्य प्रतिमा प्रतिबिम्बमिव। रराज। अर्कस्य बालविशेषणमारुण्यसिद्ध्यर्थमिति भावः ॥
RV 12.101 अनुष्टुप्
मरुतां पश्यतां तस्य शिरांसि पतितान्यपि । मनो नातिविशश्वास पुनःसंधानशङ्क्तिनाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मरुतामिति॥ पतितानि तस्य रावणस्य शिरांसि पश्यतामपि पुनः-संधानशङ्क्तिनाम्। पूर्वं तथादर्शनादिति भावः। मरुताममराणाम्। `मरुतौ पवनामरौ` इत्यमरः (अ.को.3|3|66)। मनो नातिविशश्वासाऽतिविश्वासं न प्राप ॥
RV 12.102 मालिनी
अथ मदगुरुपक्षैर्लोकपालद्विपाना- मनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय । उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः सुरभि सुरविमुक्तं पुष्पवर्षं पपात ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ मदेन गजगण्डसंचारसंक्रान्तेन गुरुपक्षैर्भारायमाणपक्षैरसिवृन्दैर्लोकपालद्विपानामैरावतादीनां गगनवर्तिनां गण्डभित्तीर्विहायानुगतमनुद्रुतं सुरभि सुगन्धि। `सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः। गन्धोपले सौरभेय्यां सल्लकीमातृभेदयोः॥ सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभि स्मृतम्।` इति विश्वः। सुरविमुक्तं पुष्पवर्षमुपनत आसन्नो मणिबन्धो राज्याभिषेकसमये भावी यस्य तस्मिन्। पौलस्त्यशत्रो रामस्य मूर्ध्नि पपात। इदमेव राज्याभिषेकसूचकमिति भावः ॥
RV 12.103 वसन्ततिलका
यन्ता हरेः सपदि संहृतकार्मुकज्य- मापृच्छ्य राघवमनुष्ठितदेवकार्यम् । नामाङ्करावणशराङ्कितकेतुयष्टि- मूर्ध्वं रथं हरिसहस्रयुजं निनाय ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यन्तेति॥ हरेरिन्द्रस्य यन्ता मातलिः सपदि संहृतकार्मुकज्यमनुष्ठितं देवकार्यं रावणवधरूपं येन तं राघवमापृच्छ्य `साधु यामि` इत्यामन्त्र्य। नामाङ्कैर्नामाक्षरचिह्नै रावणशरैरङ्किता चिह्निता केतुयष्टिर्ध्वजदण्डो यस्य तम्। हरीणां वाजिनां सहस्रेण युज्यत इति हरिसहस्रयुक्। तम्। `यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। हरिः` इत्युभयत्राप्यमरः। रथमूर्ध्वं निनाय नीतवान् ॥
RV 12.104 नाराचम्
रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः । रविसुतसहितेन तेनानुयातः ससौमित्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रघुपतिरिति॥ रघुपतिरपि जातवेदस्यग्नौ विशुद्धां जातशुद्धिं प्रियां सीतां प्रगृह्य स्वीकृत्य। प्रियसुहृदि विभीषणे वैरिणो रावणस्य श्रियं राजलक्ष्मीं संगमय्य संगतां कृत्वा। गमेर्ण्यन्ताल्ल्यप्प्रत्ययः। `मितां ह्रस्वः` (पा.6।4।92) इति ह्रस्वः। `ल्यपि लघुपूर्वात्` (पा.6।4।56)इति णेरयादेशः। रविसुतसहितेन सुग्रीवयुक्तेन ससौमित्रिणा सलक्ष्मणेन तेन विभीषणेनानुयातोऽनुगतः सन् विमानं रत्नमिव विमानरत्नमित्युपमितसमासः। भुजविजितं यद्विमानरत्नं पुष्पकं तदारूढः सन्। पुरीमयोध्यां प्रतस्थे। `समवप्रविभ्यः स्थः` (पा.1।3।22) इत्यात्मनेपदम्। अत्र प्रस्थानक्रियाया अकर्मकत्वेऽपि तदङ्गभूतोद्देशक्रियापेक्षया सकर्मकत्वम्। अस्ति च धातूनां क्रियान्तरोपसर्जनकस्वार्थाभिधायकत्वम्। यथा `कुसूलान्पचति` इत्यादावादानक्रियागर्भः पाको विधीयत इति ॥
← Previous (Ch. 11) Full Table of Contents Next (Ch. 13) →