Skip to main content
Search
Ch. 13 RV 13.60
Full Chapter
RV • Chapter 13: Canto 13

RV 13.60

Canonical Ref: RV 13.60
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः । ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): पयोधरैरिति॥ पुण्यजनाङ्गनानां यक्षस्त्रीणां पयोधरैः स्तनैर्निर्विष्ट उपभुक्तो हेमाम्बुजरेणुर्यस्य तत्। तत्र ताः क्रीडन्तीति व्तयज्यते। ब्रह्मण इदं ब्राह्मम्। `नस्तद्धिते` (पा.6।4।144)इति टिलोपः। ब्राह्मं सरो मानसाख्यं यस्याः सरय्वाः। बुद्धेर्महत्तत्त्वस्याव्यक्तं प्रधानमिव कारणम्। आप्तस्य वाच आप्तवाचो वेदाः। यद्वा, -बहुव्रीहिणा मुनयः। उदाहरन्ति प्रचक्षथे ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.60. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.59) All Verses in Chapter 13 Next Verse (RV 13.61) →