Skip to main content
Search
Ch. 13 RV 13.61
Full Chapter
RV • Chapter 13: Canto 13

RV 13.61

Canonical Ref: RV 13.61
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
जलानि या तीरनिखातयूपा वहत्ययोध्यामनु राजधानीम् । तुरंगमेधावभृथावतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): जलालीति॥ यूपः संस्कृतः पशुबन्धनार्हो दारुविशेषः। तीरनिखातयूपा या सरयूस्तुरंगमेधा अश्वमेधास्तेष्ववभृथार्थमेवावतीर्णैरवरूढैरिक्ष्वाकुभिरिक्ष्वाकुगोत्रापत्यैर्नः पूर्वैः। तद्राजत्वादणो लुक्। पुण्यतरीकृतान्यतिशयेन पुण्यानि कृतानि जलान्ययोध्यां राजधानीं नगरीमनु समीपे, तया लक्षितयेत्यर्थः। `अनु`शब्दस्य `लक्षणेत्थंभूत-` (पा.1।4।90)इत्यादिना कर्मप्रवचनीयत्वात्तद्योगे द्वितीया। वहति प्रापयति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.61. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.60) All Verses in Chapter 13 Next Verse (RV 13.62) →