अत्रावियुक्तानि रथाङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि । द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये! सस्पृहमीक्षितानि ॥
इमां तटाशोकलतां च त्वीं स्तनाभिरामस्तबकाभिनम्राम् । त्वत्प्राप्तिबुद्ध्या परिरब्धुकामः सौमित्रिणा साश्रुरहं निषिद्धः ॥
अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् । प्रत्युद्द्रजन्तीव खमुत्पतन्त्यो गोदावरीसारसपङ्क्तयस्त्वाम् ॥
एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता । आनन्दयत्युन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे ॥
अत्रानुगोदं मृगयानिवृत्तस्तरंगवातेन विनीतखेदः । रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥
भ्रूमेदमात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार । तस्याविलाम्भः परिशुद्धिहेतोर्भौमो मुनेः स्थआनपरिग्रहोऽयम् ॥
त्रेताग्निधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्तविमानमार्गम् । घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मेलघिमानमात्मा ॥
एतन्मुनेर्मानिनि! शातकर्णेः पञ्चाप्सरो नाम विहारवारि । आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥
पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोनाः । समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ॥
तस्यायमन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः । वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ॥
हविर्भुजामेधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः । असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥
अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि । नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥
एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् । सभाजने मे भुजमूर्ध्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥
वाचंयमत्वात्प्रणतिं ममैष कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः । दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधत्ते ॥
अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः । चिराय संतर्प्य समिद्भिरग्निं यो मन्त्रपूतां तनुमप्यहौषीत् ॥
छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु । तस्यातिथीनामधुना सपर्या स्थइता सुपुत्रेष्विव पादपेषु ॥
धारास्वनोद्गारिदरीमुखोऽसौ श्रृङ्गाग्रलग्नाम्बुजवप्रपङ्कः । बध्नाति मे बन्धुरगात्रि! चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः ॥
एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी । मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥
अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य । यवाङ्कुरापाण्डुकपोलशोभी मयावतंसः परिकल्पितस्ते ॥
अनिग्रहत्रासविनीतसत्त्वमपुष्पलिङ्गात्फलबन्धिवृक्षम् । वनं तपःसाधनमेतदत्रेराविष्कृतोदग्रतरप्रभावम् ॥
अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम् । प्रवर्तयामास किलानसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥
वीरसनैर्ध्यानजुषामृषीणाममी समध्यासितवेदिमध्याः । निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥
त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः । राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति ॥
क्वचित्प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा । अन्यत्र माला सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव ॥
क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पङ्क्तिः । अन्यत्र कालागुरुदत्तपत्रा भक्तिर्भुवश्चन्दनकल्पितेव ॥
क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव । अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभः प्रदेशा ॥
क्वचिञ्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य । पश्यानवद्याङअगि! विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः ॥
समुद्रपत्न्योर्जलसंनिपाते पूतात्मनामत्र किलाभिषेकात् । तत्त्वावबोधेन विनापि भूयस्तनुत्यजां नास्ति शरीरबन्धः ॥
पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय । जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि! कामाः फलितास्तवेति ॥
पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः । ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥