Skip to main content
Search
MBh
Mahābhārata • Parva 5 (Udyogaparva) • Adhyāya 1

Udyogaparva Adhyāya 1

उद्योगपर्व • अध्यायः 1

Udyogaparva Adhyāya 1 of the classical Mahābhārata with 26 verses.

Total: 26 Verses • Citations: MBh 5.1.1–26 • 250 Lexicon Terms
कृत्वा विवाहं तु कुरुप्रवीरा;स्तदाभिमन्योर्मुदितस्वपक्षाः । विश्रम्य चत्वार्युषसः प्रतीताः; सभां विराटस्य ततोऽभिजग्मुः ॥
English Translation
Vaishampayana said Then the heroic sons of Kuru belonging to the party of Abhimanyu pleased at having celebrated his (Abhimanyu's) nuptials and having rested during the night, awoke at break of day and went to the court of Virata.
सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकोत्तमरत्नचित्रा । न्यस्तासना माल्यवती सुगन्धा; तामभ्ययुस्ते नरराजवर्याः ॥
English Translation
The court of the Lord of the Matsyas was richly decorated and adorned with a collection of precious stones and choice gems, with seats arranged in it, having garlands and filled with fragrance. Those aged kings among men came there.
अथासनान्याविशतां पुरस्ता;दुभौ विराटद्रुपदौ नरेन्द्रौ । वृद्धश्च मान्यः पृथिवीपतीनां; पितामहो रामजनार्दनाभ्याम् ॥
English Translation
On the front seats sat the two kings Virata and Drupada, aged and revered among the rulers of the earth and Rama and Janardana also along with their father.
पाञ्चालराजस्य समीपतस्तु; शिनिप्रवीरः सहरौहिणेयः । मत्स्यस्य राज्ञस्तु सुसंनिकृष्टौ; जनार्दनश्चैव युधिष्ठिरश्च ॥
English Translation
Near the king of Panchala sat the brave ruler of Shini along with the son of Rohini and next to the king of Matsya (sat) Janardana and Yudhishthira.
सुताश्च सर्वे द्रुपदस्य राज्ञो; भीमार्जुनौ माद्रवतीसुतौ च । प्रद्युम्नसाम्बौ च युधि प्रवीरौ; विराटपुत्रश्च सहाभिमन्युः ॥
English Translation
(There sat) also all the sons of king Drupada, Bhima and Arjuna, the two sons of Madri, Pradyumna and Samba, who were valiant in battle and Abhimanyu in company with the son of Virata.
सर्वे च शूराः पितृभिः समाना; वीर्येण रूपेण बलेन चैव । उपाविशन्द्रौपदेयाः कुमाराः; सुवर्णचित्रेषु वरासनेषु ॥
English Translation
And on the best seats wrought in gold sat the heroic sons of Draupadi who were equal to their fathers in valour, beauty and strength.
तथोपविष्टेषु महारथेषु; विभ्राजमानाम्बरभूषणेषु । रराज सा राजवती समृद्धा; ग्रहैरिव द्यौर्विमलैरुपेता ॥
English Translation
Those mighty heroes, shining in ornaments and clothes, being seated, that assemblage of kings shone like the firmament studded with beautiful stars.
ततः कथास्ते समवाययुक्ताः; कृत्वा विचित्राः पुरुषप्रवीराः । तस्थुर्मुहूर्तं परिचिन्तयन्तः; कृष्णं नृपास्ते समुदीक्षमाणाः ॥
English Translation
Then those kings, heroes among men, having engaged in conversation with one another on various topics, remained for a moment gazing pensively on Krishna.
कथान्तमासाद्य च माधवेन; संघट्टिताः पाण्डवकार्यहेतोः । ते राजसिंहाः सहिता ह्यशृण्व;न्वाक्यं महार्थं च महोदयं च ॥
English Translation
Those lions among kings, having reached the end of their talk and their attention having been called by Madhava to the affairs of the Pandavas, listened to his lofty speech which conveyed deep meaning. Krishna said
सर्वैर्भवद्भिर्विदितं यथायं; युधिष्ठिरः सौबलेनाक्षवत्याम् । जितो निकृत्यापहृतं च राज्यं; पुनः प्रवासे समयः कृतश्च ॥
English Translation
It is known to you all how this Yudhishthira was defeated by a trick at a game of dice by the son of Subala, how he was robbed of his kingdom and how he made a stipulation regarding his exile in the forest.
शक्तैर्विजेतुं तरसा महीं च; सत्ये स्थितैस्तच्चरितं यथावत् । पाण्डोः सुतैस्तद्व्रतमुग्ररूपं; वर्षाणि षट्सप्त च भारताग्र्यैः ॥
English Translation
The sons of Pandu, who are capable of subjugating the word by sheer force of arms, whose chariots go unrestrained to the celestial or the terrestrial regions and who are true of their words, have fulfilled that austere vow for thirteen years.
त्रयोदशश्चैव सुदुस्तरोऽय;मज्ञायमानैर्भवतां समीपे । क्लेशानसह्यांश्च तितिक्षमाणै;र्यथोषितं तद्विदितं च सर्वम् ॥
एवं गते धर्मसुतस्य राज्ञो; दुर्योधनस्यापि च यद्धितं स्यात् । तच्चिन्तयध्वं कुरुपाण्डवानां; धर्म्यं च युक्तं च यशस्करं च ॥
अधर्मयुक्तं च न कामयेत; राज्यं सुराणामपि धर्मराजः । धर्मार्थयुक्तं च महीपतित्वं; ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत् ॥
पित्र्यं हि राज्यं विदितं नृपाणां; यथापकृष्टं धृतराष्ट्रपुत्रैः । मिथ्योपचारेण तथाप्यनेन; कृच्छ्रं महत्प्राप्तमसह्यरूपम् ॥
न चापि पार्थो विजितो रणे तैः; स्वतेजसा धृतराष्ट्रस्य पुत्रैः । तथापि राजा सहितः सुहृद्भि;रभीप्सतेऽनामयमेव तेषाम् ॥
यत्तत्स्वयं पाण्डुसुतैर्विजित्य; समाहृतं भूमिपतीन्निपीड्य । तत्प्रार्थयन्ते पुरुषप्रवीराः; कुन्तीसुता माद्रवतीसुतौ च ॥
बालास्त्विमे तैर्विविधैरुपायैः; संप्रार्थिता हन्तुममित्रसाहाः । राज्यं जिहीर्षद्भिरसद्भिरुग्रैः; सर्वं च तद्वो विदितं यथावत् ॥
तेषां च लोभं प्रसमीक्ष्य वृद्धं; धर्मात्मतां चापि युधिष्ठिरस्य । संबन्धितां चापि समीक्ष्य तेषां; मतिं कुरुध्वं सहिताः पृथक्च ॥
इमे च सत्येऽभिरताः सदैव; तं पारयित्वा समयं यथावत् । अतोऽन्यथा तैरुपचर्यमाणा; हन्युः समेतान्धृतराष्ट्रपुत्रान् ॥
तैर्विप्रकारं च निशम्य राज्ञः; सुहृज्जनास्तान्परिवारयेयुः । युद्धेन बाधेयुरिमांस्तथैव; तैर्वध्यमाना युधि तांश्च हन्युः ॥
तथापि नेमेऽल्पतया समर्था;स्तेषां जयायेति भवेन्मतं वः । समेत्य सर्वे सहिताः सुहृद्भि;स्तेषां विनाशाय यतेयुरेव ॥
दुर्योधनस्यापि मतं यथाव;न्न ज्ञायते किं नु करिष्यतीति । अज्ञायमाने च मते परस्य; किं स्यात्समारभ्यतमं मतं वः ॥
तस्मादितो गच्छतु धर्मशीलः; शुचिः कुलीनः पुरुषोऽप्रमत्तः । दूतः समर्थः प्रशमाय तेषां; राज्यार्धदानाय युधिष्ठिरस्य ॥
English Translation
The intentions of the other side not being known, how can you determine on what to do yourself. Therefore let a man virtuous, holy, of good parentage and wifeless go from here-a capable ambassador who will be able to pursuable them into surrendering half of Yudhishthira's kingdom.
निशम्य वाक्यं तु जनार्दनस्य; धर्मार्थयुक्तं मधुरं समं च । समाददे वाक्यमथाग्रजोऽस्य; संपूज्य वाक्यं तदतीव राजन् ॥
English Translation
Hearing this speech of Janardana which was pregnant with meaning and virtue, interesting and impartial, his elder brother accepted the suggestions and after praising the speech addressed him O king, thus.
← Previous (Ch. 663) Full Table of Contents Next (Ch. 665) →