Skip to main content
Search
MBh
Mahābhārata • Parva 12 (Śāntiparva) • Adhyāya 329

Śāntiparva Adhyāya 329

शान्तिपर्व • अध्यायः 329

Śāntiparva Adhyāya 329 of the classical Mahābhārata with 51 verses.

Total: 51 Verses • Citations: MBh 12.329.1–51 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ । एष मे संशयो जातस्तं छिन्धि मधुसूदन ॥
English Translation
How did Agni and Soma, in days of yore, attain to uniformity with regard to their original nature? Thus doubt has arisen in my mind. Do you remove it, O slayer of Madhu.
हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन । आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम ॥
English Translation
I shall recite to you, O son of Pandu, an ancient story of events arising from my own energy. Do you listen to it with concentrated mind.
संप्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते । अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे । ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके । तम इत्येवाभिभूतेऽसंज्ञकेऽद्वितीये प्रतिष्ठिते । नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते । एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसंभवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात् । अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः ॥
निदर्शनमपि ह्यत्र भवति । नासीदहो न रात्रिरासीत् । न सदासीन्नासदासीत् । तम एव पुरस्तादभवद्विश्वरूपम् । सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते ॥
English Translation
The Shruti declares,-Day was not. Night was not. Aught was not. Naught was not. In the beginning there was only Ignorance. She was of the form of the universe, and she is the night of Narayana of universal form. This is the meaning of the word of Tamas.
तस्येदानीं तमःसंभवस्य पुरुषस्य पद्मयोनेर्ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्यामग्नीषोमौ ससर्ज । ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद्ब्रह्मक्षत्रमुपातिष्ठत् । यः सोमस्तद्ब्रह्म यद्ब्रह्म ते ब्राह्मणाः । योऽग्निस्तत्क्षत्रं क्षत्राद्ब्रह्म बलवत्तरम् । कस्मादिति लोकप्रत्यक्षगुणमेतत्तद्यथा । ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम् । दीप्यमानेऽग्नौ जुहोतीति कृत्वा ब्रवीमि । भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति ॥
English Translation
From that Purusha thus born of Tamas and having Brahma for his parent, came into existence the Being called Brahman. Brahman, wishing to create creatures caused Agni and Soma to originate from his own own eyes. Afterwards when creatures were to be created, the ceated persons came out in their due order as Brahmanas and Kshatriyas. He who came into being as Soma was none else than Brahma; and they that were born as Brahmanas were all Soma in sooth. He who came into Being as Agni was none else than Kshatriya. The Brahmanas became gifted with greater energy than the Kshatriyas. If you enquire about the reason thereof, the answer is that this superiority of the Brahmanas to the Kshatriyas is an attribute which is manifest to the whole world. It occurred as follows. The Brahmanas represent the eldest creation amonst men. None were created before who were superior to the Brahmanas. He who offers food into the mouth of a Brahmana is considered as pouring libations into a burning fire. I say that having arranged things thus, the creation of creatures was accomplished by Brahman. Having established all created beings in their respective positions, he keeps us the three worlds. There is a similar declaration in the Mantras of the Shrutis.
मन्त्रवादोऽपि हि भवति । त्वमग्ने यज्ञानां होता विश्वेषाम् । हितो देवेभिर्मानुषे जने इति । निदर्शनं चात्र भवति । विश्वेषामग्ने यज्ञानां होतेति । हितो देवैर्मानुषैर्जगत इति । अग्निर्हि यज्ञानां होता कर्ता । स चाग्निर्ब्रह्म ॥
न ह्यृते मन्त्राद्धवनमस्ति । न विना पुरुषं तपः संभवति । हविर्मन्त्राणां संपूजा विद्यते देवमनुष्याणामनेन त्वं होतेति नियुक्तः । ये च मानुषा होत्राधिकारास्ते च । ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योः । तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति । यज्ञा देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति ॥
शतपथे हि ब्राह्मणं भवति । अग्नौ समिद्धे स जुहोति यो विद्वान्ब्राह्मणमुखे दानाहुतिं जुहोति । एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति । अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान्धारयति । अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति ॥
विश्वं ब्रह्मासृजत्पूर्वं सर्वादिर्निरवस्करम् । ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः ॥
ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धा तपांसि च । धारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा ॥
नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः । ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये ॥
English Translation
There is no duty higher than Truth. There is no one more worthy of respect than the mother. There is none more efficient than the Brahmana for conferring happiness both in this world and the next.
नैषामुक्षा वर्धते नोत वाहा; न गर्गरो मथ्यते संप्रदाने । अपध्वस्ता दस्युभूता भवन्ति; येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः ॥
English Translation
The inhabitants of those kingdoms where Brahinanas have certain means of inaintenance become very wretched. There the no oxen do not carry the people or draw the plough, nor do cars of any kind bear them. There milk kept in jars is never churned for producing butter. On the other hand, the dwellers become shorn of every prosperity, and follow the ways of robbers.
वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावनाश्च ब्राह्मणाः । वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः । इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च ॥
अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः । कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप । अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः । क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं संयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता ॥
त्रिपुरवधार्थं दीक्षामभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः । ततः प्रादुर्भूता भुजगाः । तैरस्य भुजगैः पीड्यमानः कण्ठो नीलतामुपनीतः । पूर्वे च मन्वन्तरे स्वायंभुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठत्वमेव वा ॥
अमृतोत्पादने पुरश्चरणतामुपगतस्याङ्गिरसो बृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः । अथ बृहस्पतिरपां चुक्रोध । यस्मान्ममोपस्पृशतः कलुषीभूता न प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसंकीर्णाः कलुषीभवतेति । तदाप्रभृत्यापो यादोभिः संकीर्णाः संवृत्ताः ॥
विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणाम् । स प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमसुरेभ्यः ॥
अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त । हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमस्माकम् । ततो देवा वर्धन्ते वयं क्षीयामः । तदेनं त्वं वारयितुमर्हसि तथा यथास्मान्भजेदिति ॥
अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच । पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि । नार्हस्येवं कर्तुमिति । स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा संपूज्य हिरण्यकशिपुमगात् ॥
हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुः शापं प्राप्तवान् । यस्मात्त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति । तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान्वधम् ॥
विश्वरूपो मातृपक्षवर्धनोऽत्यर्थं तपस्यभवत् । तस्य व्रतभङ्गार्थमिन्द्रो बह्वीः श्रीमत्योऽप्सरसो नियुयोज । ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्तासु चाप्सरःसु नचिरादेव सक्तोऽभवत् । सक्तं चैनं ज्ञात्वाप्सरस ऊचुर्गच्छामहे वयं यथागतमिति ॥
तास्त्वाष्ट्र उवाच । क्व गमिष्यथ आस्यतां तावन्मया सह श्रेयो भविष्यतीति । तास्तमब्रुवन् । वयं देवस्त्रियोऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इति ॥
अथ ता विश्वरूपोऽब्रवीदद्यैव सेन्द्रा देवा न भविष्यन्तीति । ततो मन्त्राञ्जजाप । तैर्मन्त्रैः प्रावर्धत त्रिशिराः । एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपावेकेनाप एकेन सेन्द्रान्देवान् । अथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे ॥
देवाश्च ते सहेन्द्रेण ब्रह्माणमभिजग्मुरूचुश्च । विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते । वयमभागाः संवृत्ताः । असुरपक्षो वर्धते वयं क्षीयामः । तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति ॥
तान्ब्रह्मोवाच ऋषिर्भार्गवस्तपस्तप्यते दधीचः । स याच्यतां वरं यथा कलेवरं जह्यात् । तस्यास्थिभिर्वज्रं क्रियतामिति ॥
देवास्तत्रागच्छन्यत्र दधीचो भगवानृषिस्तपस्तेपे । सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तपसः कुशलमविघ्नं चेति । तान्दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम् । यद्वक्ष्यथ तत्करिष्यामीति । ते तमब्रुवञ्शरीरपरित्यागं लोकहितार्थं भगवान्कर्तुमर्हतीति । अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार ॥
तस्य परमात्मन्यवसृते तान्यस्थीनि धाता संगृह्य वज्रमकरोत् । तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसंभूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान । शिरसां चास्य छेदनमकरोत् । तस्मादनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान ॥
तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं परित्यज्य अप्सु संभवां शीतलां मानससरोगतां नलिनीं प्रपेदे । तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश ॥
अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगदनीश्वरं बभूव । देवान्रजस्तमश्चाविवेश । मन्त्रा न प्रावर्तन्त महर्षीणाम् । रक्षांसि प्रादुरभवन् । ब्रह्म चोत्सादनं जगाम । अनिन्द्राश्चाबला लोकाः सुप्रधृष्या बभूवुः ॥
← Previous (Ch. 1656) Full Table of Contents Next (Ch. 1658) →