Skip to main content
Search
MBh
Mahābhārata • Parva 9 (Śalyaparva) • Adhyāya 34

Śalyaparva Adhyāya 34

शल्यपर्व • अध्यायः 34

Śalyaparva Adhyāya 34 of the classical Mahābhārata with 82 verses.

Total: 82 Verses • Citations: MBh 9.34.1–82 • 250 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते । आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः ॥
English Translation
Janamejaya said On the eye the great battle (between the Kurus and the Pandus) Rama, with Keshava's permission, had left Dwaraka accompanied by many of the Vrishnis.
साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव । न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् ॥
English Translation
He had said to Keshava-"I will help neither the son of Dhritarashtra nor the sons of Pandu, but will go wherever I like."
एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः । तस्य चागमनं भूयो ब्रह्मञ्शंसितुमर्हसि ॥
English Translation
Having said so, Rama that subduer of enemies, had gone away. O Brahmana, tell me everything about his return.
आख्याहि मे विस्तरतः कथं राम उपस्थितः । कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम ॥
English Translation
Tell me in full how Rama came there and how he witnessed the battle. Indeed you are a skillful narrator.
उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु । प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः । शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम् ॥
English Translation
Vaishampayana said After the great Pandavas had taken up their post at Upaplavya, they sent Krishna to Dhritarashtra for the object of peace, O mighty-armed one and for the behoof of all creatures.
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च । उक्तवान्वचनं तथ्यं हितं चैव विशेषतः । न च तत्कृतवान्राजा यथाख्यातं हि ते पुरा ॥
English Translation
Having gone to Hastinapura and met Dhritarashtra, Keshava spoke whole-some and sincere words.
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः । आगच्छत महाबाहुरुपप्लव्यं जनाधिप ॥
English Translation
The king, however, as I have told you before did not pay heed to his advice. Unable to secure peace, the mighty-armed Krishna, The foremost of men, returned, O king, to Upaplavya.
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः । अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत् ॥
English Translation
Dismissed by Dhritarashtra's son Krishna came back and upon the failure of his mission, O foremost of kings, said to the Pandavas.
न कुर्वन्ति वचो मह्यं कुरवः कालचोदिताः । निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया ॥
English Translation
Urged by fate, the Kauravas have disregarded my words. Come, O sons of Pandu, with me, under the constellation Pushya.
ततो विभज्यमानेषु बलेषु बलिनां वरः । प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः ॥
English Translation
After this, while the troops of both parties were being collected and arrayed, the great son of Rohini, that foremost of all powerful persons, said to his brother Krishna.
तेषामपि महाबाहो साहाय्यं मधुसूदन । क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा ॥
English Translation
"O mighty-armed one, O slayer of Madhu, let us help the Kurus.” Krishna, however, did not pay heed to those words of his.
ततो मन्युपरीतात्मा जगाम यदुनन्दनः । तीर्थयात्रां हलधरः सरस्वत्यां महायशाः । मैत्रे नक्षत्रयोगे स्म सहितः सर्वयादवैः ॥
English Translation
Enraged at this, that illustrious son of Yadu's race, viz., the wielder of the plough, then started on a pilgrimage of the Sarasvati.
आश्रयामास भोजस्तु दुर्योधनमरिंदमः । युयुधानेन सहितो वासुदेवस्तु पाण्डवान् ॥
English Translation
Accompanied by all the Yadavas, he set out under the conjunction of the asterism called Maitra. The Bhoja chief (Kritavarman), however, took the side O Duryodhana. Accompanied by Yuyudhana, Vasudeva took that of the Pandavas.
रौहिणेये गते शूरे पुष्येण मधुसूदनः । पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कुरून् ॥
English Translation
After the heroic son of Rohini had started under the constellation Pushya, the slayer of Madhu, placing the Pandavas in his van, went against the Kurus.
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह । संभारांस्तीर्थयात्रायां सर्वोपकरणानि च । आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा ॥
English Translation
While proceeding, Rama ordered his servants on the way, saying-"Bring all the necessary articles of use for a pilgrimage. Bring the sacred fire that is at Dwaraka and our priests.
सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः । कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च । क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम् ॥
English Translation
Bring gold, silver, kine, robes, horses, elephants, cars, mules, camels and other beasts of burden.
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः । ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान् ॥
एवं संदिश्य तु प्रेष्यान्बलदेवो महाबलः । तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा । सरस्वतीं प्रतिस्रोतः समुद्रादभिजग्मिवान् ॥
ऋत्विग्भिश्च सुहृद्भिश्च तथान्यैर्द्विजसत्तमैः । रथैर्गजैस्तथाश्वैश्च प्रेष्यैश्च भरतर्षभ । गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः ॥
श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम् । तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत । बुभुक्षितानामर्थाय कॢप्तमन्नं समन्ततः ॥
यो यो यत्र द्विजो भोक्तुं कामं कामयते तदा । तस्य तस्य तु तत्रैवमुपजह्रुस्तदा नृप ॥
तत्र स्थिता नरा राजन्रौहिणेयस्य शासनात् । भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः ॥
English Translation
Costly garments and bedsteads and coverlets were distributed amongst the Brahmanas desirous of ease and comfort. Whatever a Brahmana or Kshatriya wanted, it was given to him.
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च । पूजार्थं तत्र कॢप्तानि विप्राणां सुखमिच्छताम् ॥
यत्र यः स्वपते विप्रः क्षत्रियो वापि भारत । तत्र तत्र तु तस्यैव सर्वं कॢप्तमदृश्यत ॥
यथासुखं जनः सर्वस्तिष्ठते याति वा तदा । यातुकामस्य यानानि पानानि तृषितस्य च ॥
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ । उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च ॥
स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः । स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम् ॥
English Translation
The road, O king, along which the party proceeded, looked resplendent, was comfortable for all and resembled heaven itself.
नित्यप्रमुदितोपेतः स्वादुभक्षः शुभान्वितः । विपण्यापणपण्यानां नानाजनशतैर्वृतः । नानाद्रुमलतोपेतो नानारत्नविभूषितः ॥
English Translation
There were rejoicings everywhere and rich food was procurable everywhere. There were shops and stalls and various objects were kept there for sale. The entire way was thronged with human beings. And it was decorated with various kinds of trees and creatures and various kinds of gems.
ततो महात्मा नियमे स्थितात्मा; पुण्येषु तीर्थेषु वसूनि राजन् । ददौ द्विजेभ्यः क्रतुदक्षिणाश्च; यदुप्रवीरो हलभृत्प्रतीतः ॥
← Previous (Ch. 1252) Full Table of Contents Next (Ch. 1254) →