Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 03

Prakāśa 3: प्रकृत्यादिशब्दप्रकाशः

प्रकाशः 3 • प्रकृत्यादिशब्दप्रकाशः

Prakāśa 3 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 689 Verses • Citations: SP 3.1–689 • 4 Lexicon Terms • Page 3 of 23 (Verses 30 shown)
ननु चोभयं विभक्‍त्यर्थः संख्या कर्म्मादयश्‍च। तत्र यथाऽऽख्यातेषु संख्याया अभिहितत्वात् कर्त्तृकर्म्मणोर्द्वितीयातृतीये न भवतः, तथा कृदन्तेषु कारकस्याऽभिहितत्वात् संख्या, संख्याया द्वितीयादयो न भविष्यन्ति।
स्यादेतत्। यद्यभिहिते प्रतिषेधः स्यात्, अनभिहिते त्वयं विधिः सामर्थ्यैकवाक्‍यताभ्यां पर्युदासाश्रयणात्। तत्र तिङ्न्तेषु संख्याभिधानेऽप्यनभिहितत्वात् कर्तृकर्मणोः कारकविभक्तिः प्राप्नोति। कृदन्तेषु कारकाभिधानेऽपि अनभिहितत्वात् संख्यायाः कारकविभक्‍तयः प्राप्नुवन्ति। अपि च 'देवदत्तः पचन्, देवदत्तः पचमान' इति शतृशानचोः कर्त्तरि च संख्याया अप्यनभिधानात् तृतीया न प्राप्नोति ? अथ शतृशानचोः कर्त्तृनभिधानमाश्रीयते तिडः किमपराद्धम् ? तस्यापि लादेशत्वात् शतृशानचोः कृत्त्वात्, 'कर्त्तरि च कृत्' (३.४. ६७) इति वचनात्; कर्त्तुरभिधानादिति चेत् कर्मणः कथमोदनं पच्यमान इति। अथ स्थानिनो लकारस्य कर्मणि विधानात् तदादेशत्वाच्च शानचः कर्माभिधानं भविष्यति। तथाहि 'लः कर्मणि च भावे चाकर्मकेभ्यः' (३.४. ६९) इति, 'भावकर्मणोः' (१.१३.१३),'आत्मनेपदम् (१.३. १२) इति वा कर्मणि लकारो विधीयते। एवं सति यत्रापि तिङोऽपि विधीयन्ते तत्रापि कर्मणि प्राप्नोति। ततश्‍च कर्त्तर्यति केनापवार्यते ?
तत्रापि 'कर्त्तरि कृत्'(३.४. ६७), 'शेषात् कर्तरि परस्मैपदम्' (१.३. ७८) इति कर्त्तरि लकारोऽपि विधीयते। तदुक्तम्—
आत्मनेपदरूपेण सर्वत्रैव हि कर्मणि।
लकारस्स्यात् तथैवायं कर्त्तर्यपि भवेन्न किम् ॥ ४ ॥
न च कर्त्तरि या कर्मणि या संख्या तत्र तिङो भवन्तीत्याश्रयितुमुचितम्। न हि 'लः कर्मणि च भावे चाकर्मकेभ्यः' (३.४.६९) इत्यस्य 'द्व्येकयोर्द्विवचनैकवचने' (१.४.२२)'बहुषु बहुवचनम्' (१.४.२१) इत्यनेनैकवाक्‍यत्वं विद्यते, भावेऽपि लकारस्य विधानात्। न च भावस्य साध्यत्वेन संख्यायोगोऽस्ति। नापि 'स्वौजस' (४.१.२) इत्यादेर्विधानस्य संख्याविभक्तिविधानेन सहैकवाक्‍यत्वम् असंख्येभ्योऽप्यव्ययेभ्यस्सुबुत्पत्तेः। आह च महावार्त्तिककारः 'सुप्‍तिङोरविशेषविधानाद् दृष्टविप्रयोगाच्च नियमार्थं वचनम् {१.४.२१(१)} इति। महाभाष्यकारोऽप्याह— 'सुप्‍तिङोऽविशेषेणोत्पद्यन्ते, उत्पन्नानां नियमः' इति। तस्मान्न कर्तृकर्मसंख्यायां लकारविधिः, अपितु कर्त्तृकर्मणोरेवेत्यभ्युपगन्तव्यम्।
कथं पुनस्सर्वकारकसन्निधाने लकारेण कर्त्तृकर्मणोरेवाभिधानम् ?
उच्यते, तयोरेव प्राधान्यात्। तत्र कर्त्तुः प्राधान्यम्, करणादीनां तदधीनवृत्तित्वात् कर्मणस्तु तदर्थत्वमेव तत्प्रवृत्तेः। यदि वा कर्त्तृकर्मव्यापाराभिधायिनो धातोः पर उपजायमानो लकारः कर्त्तृकर्मणी एवाभिदधाति।
अथ कथं कर्त्तृकर्मवत् कालादिकमपि नाभिदधाति? विषयभेदात्। तथाहि षडर्थास्तिङन्तेन प्रतीयन्ते — (३.१.६७ मभा.)
१. क्रिया, २. कालः, ३. उपग्रहः, ४. कारकं, ५. पुरुषः, ६. संख्येति।
तेषु 'क्रियाकालात्मनेपदनिमित्तानि प्रकृतिरभिधत्ते, प्रत्ययः साधनं संख्यां पुरुषं च। तत्र प्रकृत्यभिधेयेषु क्रिया प्रधानम्, कालोपग्रहौ विशेषणम्। प्रत्ययाभिधेयेषु साधनं प्रधानं, संख्यापुरुषौ विशेषणम्।
कथं पुनः संख्या कारकस्यैव विशेषणम्, न क्रियाकालोपग्रहपुरुषाणाम् ?
उच्यते, क्रियायाः साध्यत्वेनापरिनिष्पन्नत्वात् कालस्य च क्रियातोऽव्यतिरेकात्, व्यतिरेकेऽपि वा क्रियावच्छेदकत्वेनोपसर्जनत्वात्। उपग्रहस्यापि गन्धनादेः क्रियाधर्मत्वे— नाऽपरिनिष्ठितत्वे अनिदन्तानिर्देश्‍यत्वादसंबन्धः संख्यायाः। पुरुषस्तु प्रथमादिः साधनमेव, नान्यः कश्‍चित्। अतः कारकेणैव संख्याभिसंबध्यते, न क्रियादिभिरिति। तदेवं तिङ्वाच्यत्वेन कर्त्तुः कर्त्तृपदं, भावकर्त्तृपदं, कर्मकर्त्तृपदं चेति यदुक्‍तं तदुपपन्नमेवेति।
कर्त्तृपदं, कर्मपदं, करणपदं, संप्रदानपदम्, अपादानपदम् अधिकरणपदं चेति कारकरूपभेदाः। तत्र कर्त्रादयः कारकप्रस्तावेऽग्रतः प्रपञ्चयिष्यन्ते; इह तु संबन्धाविच्छेदा लेशत उदाह्रियन्ते। तेषां —
कर्त्ता त्रिझा १. स्वतन्त्रः २. अस्वतन्त्रः ३. कर्मकर्त्त चेति।
(१. स्वतन्त्रः) तत्र (स्वतन्त्रः) क्रियायां स्वेच्छया करणादिकारकाणि यः प्रयुङक्ते, न तु तैः प्रयुज्यते सः स्वतन्त्रः। स द्विधा १. स्वविभक्तिवाच्यः, २. परविभक्तिवाच्यश्‍चेति।
तयोः स्वविभक्तिवाच्यो यथा— (माघ. १०.२५)
मानभङ्गपटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम्। लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ॥ ५ ॥
परविभक्तिवाच्यो यथा—(माघ. १०.३३)
चारुता वपुरभूषयदासां तामनूननवयौवनयोगः। तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसङ्गमभूषः ॥ ६ ॥
(२. अस्वतन्त्रः) योऽन्यप्रयुक्तः क्रियासु व्याप्रियते सोऽस्वतन्त्रः। सोऽपि द्विधा— १. उद्भूतव्यापारः २. अनुद्भूतव्यापारश्‍च।
तयोरुद्भूतव्यापारो यथा—(किराता. १.३१)
गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां जनाधिपः। परैस्त्वदन्यः क इवाऽपहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥ ७ ॥
अनुद्भूतव्यापारो यथा—(किराता ९.७१)
चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदश्शशिभासः। सङ्गतं च दयितैः स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् ॥ ८ ॥
(३. कर्मकर्त्ता) कर्मकर्त्तापि द्विधैव—
१. उद्रिक्त्तकर्मांशः, २. अनुद्रिक्त्तकर्मांशश्‍च।
तयोरुद्रिक्त्तकर्मांशो यथा—
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →