श्लिष्टं द्विधा पैशाचं मागधं च। तयोः पैशाचं (बृहत्कथामङ्गलम्) यथा—
पनमथ पनय—पकुप्पित—को/गोली—चलनग्ग—लग्ग—पतिबिंबं।
तससु नख—तप्पनेसुं एकातस तनु—थलं लुद्दं/रुत्तं ॥ ६१ ॥
(प्रणमत प्रणयप्रकुपितगौरीचरणाग्रलग्नप्रतिबिम्बम्।
दशसु नखदर्पणेषु एकादशतनुधरं रुद्रम् ॥)
मागधं यथा—(वेसं. ३.१.)
हद-माणुश-मंश—भोअणे कुंभ—शहश्शं वशाहिं शंचिदे।
अणिशं अ पिबामि शोणिदं वलिशशदं शमले हुवीअदु ॥ ६२ ॥
(हतमानुषमांसभोजनं कुम्भसहस्त्रं वसाभिः सञ्चितम्।
अनिशं च पिबामि शोणितं वर्षशतं समरो भवतु ॥)
(३. अपभ्रंशः)
अपभ्रंशस्त्रिधा उत्तमो, मध्यमः कनिष्ठश्च।
(उत्तमः) तेष्वावन्त्यलाटीयादिरुत्तमः। तत्र—
आवन्त्यो यथा—
एकदु असलोणी अल आहरणसुसंठी अच्छि उपलंपटं वीवउकहिंमलं भट्टएवटपि अमइए।
उणजाणिउं विरहातुरणुजूरि अएमज्झ हरोदावणुदिण्णुवहिणे विण्णूरि अ ए ॥
लाटीयो यथा—
हिरउ हरन्त हो चोरहोए भुजिदंहुहले जप्पिउपणव्व सच्छिले विलोइ अउगणे।
एहु पुणु पिणघणत्थणि संघट्टउ क्कपणु जं चन्दाणणे दिज्जइ अहरहो दन्तपणा/वणु ॥
(हृदयं हरतश्चौरस्यैष एव दण्डो हले, यत् प्रिय एणशावाक्षि गृहीत्वा लागितो गले।
एष पुनः पीनघनस्तने संघट्टः को यच्चन्द्रानने दीयतेऽधराय दन्तव्रणः ॥)
(मध्यमः) आभीरगौर्जरादिः मध्यमः। तयोः —
आभीरो यथा—(द्र. ८. २८)
लवियप्फउ वीउदुद्वडाकउ हहाण एच्छासि।
पुत्तहोमत्थजिभु जळदहिडां उजं मे पि जवि आआसि ॥ ६५ ॥
१. इमामारभ्य सप्त गाथा HOS-53 ग्रन्थे अन्यथैव मुद्रिताः। कुलकर्णिपाठस्तु दीयते।
गौर्जरो यथा—(द्र. ८.७)
अव अख्खो ञ्ची समुद्रुतरि सिलदुहि गरुकाणि।
मन्दो हि ए पिलहि अउअ जंपरुच्चइते व आणि ॥ ६६ ॥
काश्मीरपौरस्त्यादिः कनिष्ठः। तयोः काश्मीरो यथा—(द्र. सक. पृ. ६९२)