कुमुदानि प्रबुध्यन्ते शतपत्राणि शेरते।
शकटं गाहते व्योम मातृमण्डलमुज्झति ॥ ८३ ॥
हन्तीति पलायत इत्यादौ त्ववस्थित एव हेतुहेतुमद्भाव इति न द्योत्यते; नन्वपूर्वं क्रियते पचति पठतीत्यत्रापि प्रसङ्गात्। एते तावदवध्यवधिमद्भावो यावदादौ समुच्चयादौ चादयश्च व्याख्याताः। तदेवं सूत्रकारस्य भाष्यकारस्य च दर्शने अस्ति क्रियायाः क्रियान्तरेण संबन्धः। वार्त्तिककारस्तु युष्मदस्मदादेशनिघाताद्यर्थम्, 'आख्यातं साव्ययकारकविशेषणं वाक्यम्' 'एकतिङ् वाक्यमिति अन्यदेव लौकिकात् पारिभाषिकं वाक्यलक्षणमारभते। न च तेन लौकिको व्यवहारस्सिध्यतीत्युपेक्ष्यते। तदुक्तम्—
निघातादिव्यवस्थार्थे शास्त्रे यत् पारिभाषिकम्।
साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणम् ॥ ८४ ॥
(वाप. २.३)
एतेन भिन्नाभिन्नप्रवक्तृकानेकवाक्योपकल्पितैकवाक्यस्थानामपि क्रियाणां परस्परमभिसंबन्धो व्याख्यातः। स भिन्नप्रवक्तृकत्वे यथा—
कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम्।
पुनरपि तदेव कथयसि मृतां तु कथयामि या श्वसिति ॥ ८५ ॥
अभिन्नवक्तृत्वे यथा—
यत्स्वच्छे सलिलात्मनि प्रतिफलद्देवे त्रियामापतौ पीयूषाकृति पर्यवस्यति किल ज्योत्स्नेति तत्त्वान्तरम्।
तिग्मं धाम चिरं चकास्ति दिवि तत् (यत्) तत्रास्ति दिव्यः पुमान् यं विज्ञातवतां त्रुटन्ति निखिला भूयोभवग्रन्थयः ॥ ८६ ॥
१. २. 'चचाल सा चे'— ति युक्ततरः पाठः।
(११. प्रकरणम्)
प्रबन्धाङ्गमवान्तरवाक्यं प्रकरणम्।
(आर्थप्रकरणम्)
तत् त्रिधा— १. प्रस्तुतं, २. कल्पितं, ३. आकस्मिकं च। तेषु
(१) प्रस्तुतं द्विधा— अङ्गं वर्णकं च। तयोः
अङ्गं यथा—(कुसं. ५. ३०)
अथाजिनाषाढधरः प्रगल्भवाग् ज्वलन्निव ब्रह्ममयेन तेजसा।
विवेश कश्चिज्जटिलस्तपोवनं शरीरबन्धः प्रथमाश्रमो यथा ॥ ८७ ॥
इत्यत आरभ्य—(कुसं. ५.८४)
इतो गमिष्याम्यथवेति वादिनी श्रमालसा२ च स्तनाभिन्नवल्कला।
स्वरूपमास्थाय च तां कृतस्मितस्समाललम्बे वृषराजकेतनः ॥ ८८ ॥
इति यावत्। अत्र हि—(कुसं. ५.३१)
तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती।
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥ ८९ ॥
इत्यादेः प्रकरणार्थस्य कथाशरीरत्वमवगम्यते।
वर्णको यथा—(कुसं. १.३१)
असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य।