अन्ये त्वाहुः — योऽयं पाकादिको विशेष इतरेतरवैलक्षण्येनोपलभ्यमानः प्रतिनियतफलजनकः, यत्रैव फलसाधकत्वात् करणानि प्रवर्तन्ते तस्यैव तु व्यापारात्मकत्वात् क्रियारूपतापि संपन्नैवेति।
अपरमतं — तन्न विवेक्तुं शक्यम् इह कारकाणि व्याप्रियन्ते, न व्याप्रियन्त इति, उभयात्मके वस्तुनि विशिष्टोपाधिरूपस्य अनिर्धारितत्वादेकत्रापि प्रवृत्तिमुपयत् कारकमितरत्रापि प्रवृत्तमिवोपलभ्यते।
अथापरे ब्रुवते उभयात्मकमेव हि क्रियारूपं वस्तु कारकैस्संपद्यते। अत एव 'कारकाणां प्रवृत्तिविशेषः क्रिया' इत्येतद्भावनापक्षेऽपि सङ्गच्छते, न चास्माभिस्सकलधात्वर्थानुयायि— करोत्यर्थरूपा भावना अङ्गीक्रियते, यदित्थमध्यगीषत कृभ्वस्तयः क्रियासामान्यवचनाः, क्रियाविशेषवचनाः पच्यादय इति। किंतु प्रत्ययवाच्यत्वमस्या अनुकृष्यते।
ननु च भावनापक्षें कारकाणामिति बहुवचनानुपपत्तिः, कर्तुरेव हि व्यापारो भावना, न कारकाणामुच्यते। कर्तैव कारकशब्देनोक्तः, न पुनरितरकरणादि। कर्तॄणां तु क्रियाभेदेन बहुवचनम्।
कथं पुनरिदं ज्ञायते ? यतो भुजिक्रियामूरीकृत्येदमभिधत्ते। अन्यथा कारकाणि शुष्कौदने प्रवर्तन्ते अन्यथा मांसौदन इति कर्तैव शुष्कौदने मन्दप्रस्थानेन प्रवर्तते, मांसौदने संरम्भेणातः कर्तुर्मन्दतासंरम्भप्रदर्शनं ज्ञायते। कर्तैव परिग्रहीता, यस्य बुद्ध्यनुषङ्गात् तथाप्रवृत्तिः।
ननु च शुष्कौदनमांसौदनयोः करणाधिकरणादीनामपि तद्भेदनिमित्तं बहुवचनं भविष्यति।
नैवम्; विद्यमानमपि कारकान्तरं कांस्यपात्रादिशुष्कमांसौदनयोर्मन्दनया संरम्भेण वा प्रवर्तते। यदापि सकलकारकव्यापारः क्रियेति पक्षस्तदापि प्रधानत्वात् कर्तैव कारकशब्देनोच्यते, तस्य च सर्वक्रियाविशेषविषयत्वेनानपायात् प्रयोगप्रवृत्तिहेतुत्वाच्च। कर्म पुनः यद्यपि तदर्थत्वात् प्रवृत्तेः प्रधानं तथापि तस्यासर्वविषयत्वान्न कारकाणामिति बहुवचनेन सङ्ग्रहः। यद्येवं कर्तृशब्द एव कस्मान्न कृतः? कर्मणि लकाराणां तस्य व्युदासो मा भूत्। तेन यत्र संभवति कर्म तत्राङ्गीकृतमेव तु तदपेक्षया बहुवचनम्।
ननु च संरम्भादिप्रदर्शनादचेतनव्यापारस्य क्रियात्वं न प्राप्नोति।
नैवम्; संरम्भादेः कर्तृविलभणत्वात्। अतः कर्तृव्यापारः क्रियेति सिद्धम्। नन्वेवं सति भाष्यं न संगच्छते 'कः पचेः प्रधानार्थः, याऽसौ तण्डुलानां विक्लित्तिः' इति। आर्थं प्राधान्यमाश्रित्य तद्भाष्यमित्यविरोधः। यत्तदर्थः 'प्रेषणं, अध्येषणं वा स सर्वः पच्यर्थ' इति। एवं च पचतीत्याख्यातस्य विक्लित्त्युपसर्जनं विक्लेदनमर्थो भवति।
अन्ये तु कारकाणामिति बहुवचनं सर्वकारकव्यापारत्वेन व्याचक्षते, यस्मात्सर्व— कारकव्यापाराभिधायित्वं धातूनां दृश्यते। तथा च देवदत्तस्य काष्ठैस्स्थाल्यामोदनस्य च पाचकः इत्यादौ सर्वाण्येव कारकाणि धात्वर्थस्य विशेषणम्; नात्र कस्यचिदुणभावः प्रधानभावो वा अवगम्यते।
आख्यातास्तर्हि सर्वकारकव्यापाराः किमिति नावगम्यन्ते? प्राधान्यात्कर्तृकर्मणोरेव लकारोत्पत्तेः तद्व्याव्यापार एवाख्यातात्प्रतीयते।
किं पुनस्सर्वेषां कारकाणामेका प्रवृत्तिः? आहोस्वित् प्रतिकारकं भिन्नाः प्रवृत्तयः क्रियेति। न तावदाद्यः पक्षः, सर्वेषामेकस्याः प्रवृत्तेरसंभवात्। न हि यैव काष्ठानां प्रवृत्तिस्सैव देवदत्तस्य स्थाल्यादेश्च संभवति, तस्मात्प्रतिकारकं भिन्नाः प्रवृत्तयो धातुना युगपदभिधीयमानाः क्रियेत्युच्यन्ते।
अथवा पुनरस्त्वेकैका सर्वकारकाणां प्रवृत्तिः क्रिया। तथा हि सर्वैरेव कारकैरेका प्रवृत्तिरुपजन्यते सर्वाण्येव हि फलजननाय प्रवर्तन्ते। किञ्चित्तु केनचिद्रूपेण जनयतीत्यवान्तर— भेदात्करणादिव्यपदेशः, एकश्चानेकत्र वृत्तिर्जातिवदुपपद्यते। विशेषाद्वास्याः फलजननरूपत्वं, न पुनरधिश्रणादिरूपतेति।
(३. उपस्काररूपं पदम्)
विशेषणादिरूपं निपातादिरूपं, आख्यातादिरूपं, संबोधनादिरूपं, हेत्वादिरूपं चेत्युपस्काररूपा। एते चाग्रत उपस्कारार्थप्रस्तावे प्रपञ्चतो वर्णयिष्यन्त इति नेह प्रतन्यन्ते (द्र. पृ. २६५)। संबन्धाविच्छेदार्थं तु लेशत उदाह्रियन्ते। तत्र —
विशेषणादयः क्रियाविशेषणं, कारकविशेषणं, उपसर्गश्च; यथा— साधु पचति, भीष्ममुदारं दर्शनीयं कटं करोति, एहि मन्ये रथेन यास्यतीति।
निपाताः कर्मप्रवचनीयाः अव्ययानि च, यथा— अहं च त्वं च वृत्रहन्, असांप्रतं जेतुमित्यादयः।
आख्यातानि कृतस्तद्धिताश्च, यथा— स्मरसि देवदत्त कश्मीरेषु वत्स्यामः, रैपोषं पुष्यति, ब्राह्मणवद् ब्रवीति।
सम्बोधनादयः आमन्त्रणमवधिभावो लिङ्गं च, यथा— हे देवदत्त, भुक्ता व्रजतीति, स इति। संबन्धादयश्शेष इति, उपपदम्, सहार्थश्च, यथा— राज्ञः, पुरुषः, कुशलं देवदत्तायेति, पुत्रेण सहायात इति।
हेत्वादयो हेतुर्लक्षणं तादर्थ्यं च, यथा— विद्यया यशः, कमण्डलुना छात्रः, यूपाय दार्विति।
कथं पुनरयं हेतुः कारकाद् विशिष्यते ?
द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् ॥ ४९ ॥ (वाप. ३.७. २५)
यथा— बीजेन सस्यं, तपसा कृशः, अन्नेन वसति, व्रतेन ब्राह्मण्यम्। कारकं यथा— देवदत्तः श्रद्धया तीर्थे हेमशतं निष्कं ब्राह्मणाय ददाति। यद्येवं द्रव्यादिविषयत्वेन सहार्थत्वाद् हेतोरभेदः प्राप्नोति।
सहार्थोऽपि द्रव्यादिविषयत्वेन क्रियायामनियत एव भवति। यथा— पुत्रेण सह गोमान्, पुत्रेण सह स्थूलः, पुत्रेण सहागच्छति, पुत्रेण सह ब्राह्मण इति।
नैवम्; न हि सहार्थस्य द्रव्यादीन् प्रति निव(र्व)र्तनभावश्शब्देनोच्यते। हेतोः पुनराश्रितव्यापारस्यापि तृतीयादिभिः सोऽपि विधीयत इति क्रियाविषयः करणात्कथं भिद्यत इति चेत्,
क्रियायै करणं तस्य दृष्टः प्रतिनिधिस्तथा।
हेत्वर्थोऽपि क्रियाहेतुर्न च प्रतिनिधीयते ॥ ५० ॥
(वाप. ३. ७. २६)
तर्हि तादर्थ्यादभेदः।
किमिदं तादर्थ्यं नाम ?