शं यो मनुष्याणां रागद्वः समृद्धो भवति। तत्रान्येषामधिपतिः सर्वेषां
मनुष्यकैः कामैस्संपन्नतमः। स मनुष्याणां परम आनन्दः।
आर्षं द्विधा स्मृतिः पुराणं च। तयोः
स्मृतिर्यथा— (मनु. ३.१३)
शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते।
ते च स्वा चैव राज्ञस्तु ताश्च स्वा चाग्रजन्मनः ॥ ५४ ॥
पुराणं यथा— (वायुपु. ६७.६५)
हिरण्यकशिपुर्दैत्यो यां यां साचि व्युदैक्षत।
भय भ्रान्तैस्तुरैश्चक्रे तस्यै तस्यै दिशे नमः ॥ ५५ ॥
लौकिकं द्विविधं काव्यं शास्त्रं च।
तयोः काव्यं यथा—
कस्य नो कुरुते मुग्धे!पिपासाकुलितं मनः।
अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ॥ ५६ ॥
शास्त्रं यथा—
प्रकामधवलं यस्याश्चक्षुः पर्यन्तपक्ष्मलम्।
नवनीतोपमं तस्या भवति स्मरमन्दिरम् ॥ ५७ ॥
(२. प्राकृतम्)
प्राकृतं त्रिधा सहजं, लक्षितं श्लिष्टं च। तेषु—
सहजं द्विधा संस्कृतसमं देश्यं च। तयोः —
संस्कृतसमं यथा— (मामा. ६. १०)
सरले! साहसरागं परिहर रम्भोरु! मुञ्च संरम्भम्।
विरसं विरहायासं वोढुं तव चित्तमसहं मे ॥ ५८ ॥
देश्यं यथा— (असाध्यसंस्कृता गाथा)
विप्प अपि आपु आणुणाहं षडरसमं परिहसन्तेई।
वासअर विणडिओ विसं ललंस्व णावेसि ॥ ५९ ॥
लक्षितं द्विधा महाराष्ट्रं शौरसेनं च। तयोः—
महाराष्ट्रं यथा— (सेब. १.१)
णमह अवङढिअतुंगं अवसारिअवित्थअं अणोणअगहिरं। अप्पलहुअपरिसण्हं अणाअपरमत्थअडं महुमहणं ॥ ६० ॥
(नमत अवर्धिततुङ्गमप्रसारितविस्मृतमनवनतगभीरम्। अप्रलघुकुपरिश्लक्ष्णमज्ञातपरमार्थप्रकटं मधुमथनम् ॥)
शौरसेनं यथा— . . . . . . . .