भागं देवेभ्यो विदधात्यायन् प्र चन्द्रमास्तिरति दीर्घमायुः ॥ १२१ ॥
विषमं यथा—(ऋवे. १.१७०.१)
न नूनमस्ति नो श्वः कस्तद्वेद यदद्भुतम्।
अन्यस्य चित्तमभि संचरेण्यमुताधीतं विनश्यति ॥ १२२ ॥
पूर्वोक्तोदाहरणत्रयमपि वैदिकविषयमेव।
मात्राच्छन्दस्समं यथा—
वाउ न पुव्वु न पच्छिमु न वि दक्खिणु वहइ।
वणे न कयंबु न अंबु न पाडल महमहइ ॥ १२३a ॥
(वायुः न पूर्वः न पश्चिमः नापि दक्षिणः वहति।
वने न कदम्बः न आम्रः न पाटला गन्धं प्रसारयति ॥)
कोइल-मोर-मरालहं कोइ न वाहरइ।
माए न जाणउ माहहे केवं विरहिणि मरइ ॥ १२३b ॥
(कोकिलमोरमरालानां कोऽपि न व्याहरति।
मातर् न जाने माघे कथं विरहिणि मरइ ॥)
अर्धसमं यथा—
दिणहदिवट्ठहो इति स उप्पिज्ज्इउ सुरेविओ।
अवरणेह मिहइ घरुमादालव्च हि दूरे ॥ १२४ ॥
विषमं यथा—
जइविव्गव्डहीजइ विवव्डुरव्हु पहुदुग्गमुतरु अरहीजइ विगहणेसूरु।
विणदीसइ इतो इसु पुरिसु वसदि जहीते धुवट्ठहरहप अट्ठदि ॥ १२५ ॥
गणच्छन्दस्समं यथा—(कादम्बरीमङ्गलम्)
रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे।
अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ १२६ ॥
अर्धसमं यथा— (किराता. १३.१)
वपुषा परमेण भूधराणामथ संभाव्य पराक्रमं विभेदे।
मृगमाशु विलोकयाञ्चकार स्थिरदंष्ट्राङ्कमुखं नरेन्द्रसूनुः ॥ १२७ ॥
विषमं यथा—(किराता. १२.१)
अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम्।
क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धमञ्जयः ॥ १२८ ॥
तदेतत्त्रिविधमपि महाकाव्येतिहासश्रुत्यादिषु च द्ृश्यते।