Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 03

Prakāśa 3: प्रकृत्यादिशब्दप्रकाशः

प्रकाशः 3 • प्रकृत्यादिशब्दप्रकाशः

Prakāśa 3 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 689 Verses • Citations: SP 3.1–689 • 4 Lexicon Terms • Page 2 of 23 (Verses 30 shown)
श्रूयताम्— कर्मपदेषु तावत्—
क्रियमाणं तु यत् कर्म स्वयमेव प्रसिद्ध्यति। सुकरं स्वैर्गुणैः कर्त्तुः कर्मकर्त्तेति तं विदुः॥१॥
कर्त्तुपदेषु भूतपूर्वकत्वात् तदवदुपचार इति। तथाहि कन्यादयो लावण्यातिशयादिभि— रात्मभूषायै प्रसाधनादीन् प्रयुञ्जते। प्रयुञ्जते च माघादयो महाकवयः—
आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम्॥२॥ (माघ. १२.५)
स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम्॥ ३॥ (किराता. १. १०) इति
फलमनयोः सुखासिका लोकरञ्जनं च। अन्यथैको हस्तिपकैः पीड्येत, द्वितीयो दुदर्शे इति नाभिगम्यते।
अचेतनेष्वपि क्रियाफलविवक्षायां तु दृश्‍यते 'परिवारयन्ते वृक्षं कण्टकाः, शोषयते व्रीहिनातप' इति। एतेन करणेन तुल्यक्रियः कर्त्ता कर्मवद् भवतीत्यपि व वक्तव्यं भवति। परिवारयन्ति कण्टकैर्वृक्षं मनुष्याः, परिवारयन्ते कण्टकाः स्वयमेवेति। तथा 'दुहिपच्योः सकर्मकयोः कर्त्ता बहुलं कर्मवद् भवतीति न वक्‍तव्यम्। दुग्धे गौः पयः स्वयमेव, पयो मुञ्चतीति गम्यते। तस्मादुदुम्बरस्सलोहितं फलं पच्यत इति कर्मतैव क्रियाविशेषणविवक्षिता। उदुम्बरशब्दोऽत्र फलवृत्तिः, उदुम्बरं तत् कालेन पच्यते सलोहितगुणं यथा भवति लोहितेन पाकेन सम्बध्यत इति यावत् कर्त्तृत्वविवक्षायां च पचत्यात्मानामिति। तथा युजेः श्‍यन् कर्त्तरि वक्‍तव्यम्, मासं युज्यते ब्रह्मचारीति। कर्त्तृत्वविवक्षायां तु दैवादिकत्वं न सेत्स्यति, कर्मत्वविवक्षायां तु कर्मत्वं यथा; कर्त्तृत्वं तु स्वयं शब्देन गम्यत इत्यलमतिप्रसङ्गेन॥
कृदन्तमपि खलु क्रियारूपं विद्यते। तत्र—
भावो यथा— इह तैर्यातम्, इह तैरासितम्, इह तैर्भुक्तम्, इह तैः पीतम्; कृतं भवता, प्रसुप्तं भवता, सुकृतं भवता, सुसिक्‍तं भवता, भूतं भवता, प्रभूतं भवता, भविष्यमाणं भवता, भूयमानं भवता, भवितव्यं भवता, भवनीयं भवता, भव्य़ं भवता, अवश्‍यं भाव्यं भवता, आशितभवं भवता, ईषदाढ्यम्भवं भवता, दुराढ्यंभवं भवता, स्वाढयंभवं भवता, ईषदुत्थानं भवता, सूत्थानं भवता इति।
कर्म यथा— प्रकृतः कटो भवता, कृतः क्रियमाणः करिष्यमाणो भवता, खलु कटः कर्त्तव्यः, कृत्यः, करणीयः, कार्यः; ईषत्कार्यः, ईषत्करः क्रियार्थो भवता, ईषदाढ्यंकरः स्वाढ्यंकरः, ईषत्पानः सोमो भवता, सुपानः, दुष्पानः; दुश्शासनोऽरिभिर्भवान् सुयोधनः, दुर्योधनः, दुर्दर्शनः, दुर्धर्षणः, दुर्मर्षणः, ईषल्लभ्यो जनैर्भवान्, सुलभः, दुर्दर्शः इति।
कर्त्ता यथा—कृतवान् कटम्, उपेयिवान् ग्रामम्, विद्वान् व्याकरणम्, अधीयन् पारायणम्, धारयन्नुपनिषदम्, द्विषान्नितिहासम्, कुर्वन् कटम्, कटं कुर्वाणः; विदिता जनापवादान् प्रजागरितापररात्रान्, कन्यामलङ्करिष्णुः, दिवमुत्पतिष्णुः, ग्राममागामुकः, योषामभिलाषुकः, ओदनं बुभुक्षुः, श्रियमाशंसुः, दादिर्गाः, पपिस्सोमम्, अवश्‍यंदायी, शतंदायी, ग्रामङ्गामी, ग्राममागामी, कटं कारको व्रजति, ओदनं पाचको व्रजतीति।
भावकर्म यथा— क्रियाः क्रियन्ते, विधयो विधीयन्ते, उष्ट्रासिका आस्यन्ते, हतशायिकाश्शय्यन्ते, अर्हति भवानिक्षुभक्षिकाम्, इक्षुभक्षिकां में धारयसि, व्यावहासीं विदधते (३.३. ४३ काशिका), सांकूटिनं कुर्वन्ति, उत्सवमामन्त्रयै, समाजमामन्त्रयै, आमन्त्रणमामन्त्रयै, मन्त्रणं निमन्त्रयै, कां त्वं कारिमकार्षीः (३.३. ११०), कां कारिकाम् कां कृतिम् कां क्रियाम्, का कृत्याम्; किं कृतम्, सर्वां कारिमकार्षम्, सर्वां कारिकाम्, सर्वां कृतिम्, सर्वां क्रियां, सर्वां कृत्याम्, सर्वं कृतमिति।
भावकर्त्ता यथा— ब्रह्मभूयं वर्त्तते, ब्रह्महत्या न भवति, पाको वर्त्तते, त्यागो भवति, सांराविणं वर्त्तते, आखूत्थो भवति (३.२. ४ मभा.), अन्वेषणा वर्त्तते, व्यावभाषी भवति, समजः पशूनाम्, उदजः पशूनाम्, गवामुपसरः (३.३. ७१), ऋतूनां पर्यायः, भवत आसिका, भवतः शायिका, अभ्यूषखादिका वर्त्तते, इक्षुभक्षिका उदपादि, शिरोर्त्तिर्वर्त्तते (३.३. १०८), प्रवाहिका न भवति, शिरोरोगः शिरोबाध /?/ते, अरोचको न भवति, निग्राहस्ते वृषल (३.३.४५ काशिका), अवग्राहस्ते वृषल, अजननिस्ते वृषल (३.३. ११२), अभवनिस्ते वृषल भूयादिति।
कर्मकर्त्ता यथा— स्वयं धौतो पादौ, स्वयं विलीनमाज्यम्, अकृष्टपच्याश्शालयः (३.१. ११४), पचेलिमा माषाः {३.१. ९६(१)}, भिदेलिमानि काष्ठानि, भिदुरा भूः, छिदुरा रज्जुः, भङ्गुरं काष्ठम्, आरोहयमाणो हस्ती, लूयमानः केदारः, ब्रुवाणा कथा, भूषमाणा कन्या, ग्रथ्नाना स्त्रक्, श्रथ्नाना स्त्रक्, चिकीर्षमाणः कटः, अवकिरमाणो हस्ती, नयमानो दण्डः उच्छ्रायमाणो दण्डः, दुहाना धेनुः, प्रस्नुवाना धेनुः, रुन्धाना गौः आघ्नाना गौः, रज्यद् वस्त्रम्, कुष्यन् पाद इति।
अन्ये पुनरमीषामपि कर्मकर्त्तृत्वं मन्यन्ते—प्रकृतः कटं भवान्, प्रकृतः कटो भवता, यातः पन्थानं भवान्, यातः पन्था भवता, आसीनो मासं भवान्, आसीनो मासो भवता, भुङ्क्ते ओदनं भवान्, भुक्त ओदने भवता, अधिशयितः खट्वां भवान्, अधिशयिता खट्वा भवता, आरूढो वृक्षं भवान्, आरूढो वृक्षो भवता, आश्लिष्टः प्रियां भवान्, आश्लिष्टा प्रिया भवता, उपस्थितः सूर्यं भवान्, उपस्थितः सूर्यो भवता, उपासितोऽग्निं भवान्, उपासितोऽग्निर्भवता, अनूषितो गुरुं भवान् (३.४. ७२ काशिका), अनूषितो गुरुर्भवता, अनुजातो माणवको माणाविकाम्, अनुजाता माणाविका माणवकेन, अनुजीर्णो वृषलीं देवदत्तः, अनुजीर्णा वृषली देवदत्तेन इति। तन्न सम्यग् वाक्‍यभेदात्॥
ननु च भावनाक्षेपलब्धः कर्त्ता न तिङ्वाच्यः।
तत् कथमुच्यते कर्त्तृपदं, भावकर्त्तृपदं, कर्मकर्त्तृपदं चेति।
तथाहि— अन्वयव्यतिरेकाभ्यां शब्दस्याभिधानशक्तिः कल्प्यते। भावनाक्षेपेण च प्रतीयते; कर्त्तरि न तत्र प्रत्ययस्यान्वयव्यतिरेकौ कल्प्यते, यथा जात्याक्षेपेण व्यक्तेः प्रतीतौ न तां प्रति शब्दस्य वाचकशक्तिकल्पनोपपत्तिमती।
कथं पुनः कर्त्तुरनभिधाने प्रत्ययस्य वचनपुरुषभेदो युज्यते?
जात्यभिधानपक्षे जातेरलिङ्गसंख्याया अपि तदाधारव्यक्त्याश्रयाणि लिङ्गवचनानि प्रवर्त्तन्ते, तथैव भावनाया अभेदेऽपि। तथा कर्त्राश्रयो वचनपुरुषभेदः प्रपत्स्यतीति।
न च कर्त्तरि लकारः स्मर्यत इति वाच्यम्, यतः 'कर्त्तरि कृत् (३.४. ६७), 'लः कर्मणि च भावे चाकर्मकेभ्यः' (३.४. ६९), 'वर्त्तमाने लट्' (३.२. १२३), 'लस्य (३.४. ७७, ७८) 'तिबादयः (१.४. १०१), तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः तान्येकवचनद्विवचनबहुचान्येकशः युष्मदि XXX मध्यमः, अस्मधुत्तमः, शेषे प्रथमः (१.४. १०२—१०८), भावकर्मणोरात्मनेपदम् (१.३. १३), शेषात् कर्त्तरि परस्मैपदम् (१.३. ७८) इत्यादिवाक्‍यानां ' द्व्‍येकयोर्द्विवचनैकवचने (१.४. २२), 'बहुषु बहुवचनम्' (१.४. २१) इति संख्याविधानेन सहैकार्थविषयत्वादेकवाक्‍यता व्याख्याता। एको हि पचतीत्यादिशब्दस्तैर्व्याक्रियते। तत्रैष वाक्यार्थो भवति— कर्त्तुरेकत्वे एकवचनं तिबित्यादि, कर्त्तुर्द्वित्वे द्विवचनं तसित्यादि, कर्त्तुर्बहुत्वे बहुवचनं झीत्यादि। एवं च भावनाक्षिप्त— कर्त्तृसंख्यायामेव लकारः स्मर्यते न कर्त्तरि।
उच्यते, यदि भावनाक्षिप्तकर्त्तृसंख्या लकारेणोच्यते, देवदत्तेनास्यत इति भावाभिधायिनोऽपि कर्त्तृसंख्यायामेवाभिधानं प्राप्नोति, उभयत्रापि कर्त्तृसद्भावात्। येनैव हि निमित्तेन पचतीत्यादौ कर्म संख्याभिधानमासादयति तेनैव प्रयोगान्तरेऽप्यासादयेत्। कतं च कर्त्तर्यभिधीयमाने तद्‌विशिष्टसंख्याभिधानं युक्‍तम् ?
अथ संख्यामात्रमभिधीयते न विशेषः; तर्हि पुरुषादिभेदप्रतीतेरनुपपत्तिः। तद्विशिष्टा— भिधानं च तदभिधानपुरस्सरेण न्याय्यम्, नाऽगृहीतविशेषणा विशेष्यबुद्धिर्वर्त्तत इति न्यायात् न च शब्देनासंस्पृश्‍यमानोऽपि कर्त्ता सन्निधिमात्रेण संख्यां विसेषायितुमुत्सहते, संख्याया धर्मरूपत्वाद् धर्मिणा कर्त्तुरवच्छेदकत्वेन संस्पर्शो युज्यते। करणादीनामपि सान्निध्य— धर्मित्वात् तथात्वोपपत्तेः। किञ्च लकारेणाभिहितयोर्भावनासंख्ययोरुत्तरकालो भावनाक्षिप्‍तः कर्त्ता लभ्यते। ततोऽस्य पूर्वभावाद् भावनासमकालमभिहितया संख्यया अविशेषात् सर्वकारकाणामवच्छेदः प्राप्नोति। पश्‍चाच्च कर्त्ताक्षिप्‍तः कथं भावनासमकालमभिहितां संख्यामात्मनि निरुन्ध्यात् ?
अथ संख्यावदभावनाप्रतीतिसमकालमेव कर्त्ता प्रतीयते; न तर्ह्याक्षेपलभ्यः, अपितु संख्यावल्लकारेणाभिधीयत एवेति।
किञ्च देवदत्तादिपदेन पचतीत्यादेस्सामानाधिकरण्यदर्शनात् संख्यावान् कर्त्तैव लकारेणाभिधीयते। यदि पुनः कर्त्तृस्संख्यानमेकत्वादिकं लकारो ब्रूयात् तदा देवदत्तस्य पचतीत्येवं प्रयोगः स्यात् यथा देवदत्तस्यैकत्वमिति। अथ न संख्यानमुच्यते लकारेण, किन्तु संख्येय एव देवदत्तादिरभिधीयते। देवदत्तः पचतीत्येकत्वसंख्यावच्छिन्नः पाकं करोतित्यर्थः। एवं चं संख्येयेऽभिधीयमाने कर्त्तैवाभिहितो भवति।
न च कर्त्रभिधानेऽपि शक्तेः कारकत्वात् समानाधिकरणाऽनुपपत्तिरिति वाच्यम्, शक्तिर्हि लकारेणाप्यभिधीयमाना गुणद्रव्यपरतन्त्रैवाभिधीयते। यथा—'शुक्लः पटः, शुक्‍ला शाटी'—ति।
अपि च भवन्तोऽपि कर्म लकारवाच्यं मन्यन्ते, तदनुपपन्नम्। यथैव हि भावनाक्षेपलभ्यत्वात् कर्त्तुरवाच्यत्वं तथा कर्मणोऽपि भवितुमर्हति।
अथानाक्षेपात् कर्मणो वाच्यत्वम्। एवं च सति कर्त्तुरपि तथात्वोपपत्तिः। न हि क्रियाक्षेपे कर्तृकर्मणोर्विशेषमुपलभामहे। यथैव हि कर्त्रा विना क्रिया न प्रतीयते एवं कर्मणापि। न सर्वत्र कर्मसम्बन्ध इति चेत्, यत्राऽस्ति तत्र कथम् ? अथ कर्मणोऽपि क्रियाक्षेपलभ्यत्वात् तद्गताऽपि संख्यैवोच्यते लकारेण। कथमिदानीं कर्त्तृकर्माऽनभिधायको लकारः क्‍वचित् कर्त्तृगतां संख्यामभिधत्ते; क्‍वचित् कर्मगतामिति विशेषो भवति? न च विशेषणं नास्तीति वाच्यम्, यतः पचतीत्यत्र उल्लसितेन कर्त्तृरूपत्वेन पच्यत इत्यत्र रूपगृहीतकर्मनिष्ठत्वेन प्रतीतिरूत्पद्यते। किं च लकारणे कर्त्तृकर्मणोरनभिधाने देवदत्तः पचतीत्यनभिहिते कर्त्तरि तृतीया, ओदनः पच्यत इति कर्मणि द्वितीया प्राप्नोति।
अथैवमुच्यते कर्त्तृकर्म्मसंख्ययोरभिहितत्वान्न भविष्यतो विभक्ती। कृदन्तेषु तर्ह्यनिष्टप्राप्तिः संख्यायाः कृत्यभिधानात्। तत्र पक्‍व ओदन इति द्वितीया, पक्ता देवदत्त इति तृतीया प्राप्नोति।
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →