Skip to main content
Search
Ch. 3 SP 3.453
Full Chapter
SP • Chapter 3: Prakāśa 3: प्रकृत्यादिशब्दप्रकाशः

SP 3.453

Canonical Ref: SP 3.453
Sanskrit (Devanāgarī)
हन्तीति पलायत इत्यादौ त्ववस्थित एव हेतुहेतुमद्भाव इति न द्योत्यते; नन्वपूर्वं क्रियते पचति पठतीत्यत्रापि प्रसङ्गात्। एते तावदवध्यवधिमद्भावो यावदादौ समुच्‍चयादौ चादयश्‍च व्याख्याताः। तदेवं सूत्रकारस्य भाष्यकारस्य च दर्शने अस्ति क्रियायाः क्रियान्तरेण संबन्धः। वार्त्तिककारस्तु युष्मदस्मदादेशनिघाताद्यर्थम्, 'आख्यातं साव्ययकारकविशेषणं वाक्‍यम्' 'एकतिङ् वाक्‍यमिति अन्यदेव लौकिकात् पारिभाषिकं वाक्‍यलक्षणमारभते। न च तेन लौकिको व्यवहारस्सिध्यतीत्युपेक्ष्यते। तदुक्तम्—
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 3.453. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 3.452) All Verses in Chapter 3 Next Verse (SP 3.454) →