Aśvamedhikaparva Adhyāya 93
अश्वमेधिकपर्व • अध्यायः 93
Aśvamedhikaparva Adhyāya 93 of the classical Mahābhārata with 94 verses.
Total: 94 Verses
•
Citations: MBh 14.93.1–94
•
250 Lexicon Terms
•
Page 1 of 4 (Verses 30 shown)
हन्त वो वर्तयिष्यामि दानस्य परमं फलम् । न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ॥
English Translation
The Mungoose continued : O twice-born ones, I shall presently tell you what the excellent fruit was of the gift, made by a Brahmana, of a very little measure (of powdered barley) acquired by fair means.
Morphemic Decomposition & Padaccheda
हन्त
हन्त [ind]
वो
त्वद् [pron]
वर्तयिष्यामि
वर्तय् [10. Ā.]
दानस्य
दान [n]
परमं
परम [adj]
फलम्
फल [n]
न्यायलब्धस्य
न्याय [m]
न्यायलब्धस्य
लभ् [1. P.]
सूक्ष्मस्य
सूक्ष्म [adj]
विप्रदत्तस्य
विप्र [m]
विप्रदत्तस्य
दा [1. Ā.]
यद्
यद् [pron]
द्विजाः
द्विज [m]
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते । उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ॥
English Translation
On that righteous spot of ground known by the name of Kurukshetra, which is the habitation of many righteous persons, there lived a Brahmana observing the Unchcha vow. That mode of living is like that of the pigeon.
Morphemic Decomposition & Padaccheda
धर्मक्षेत्रे
धर्म [mn]
धर्मक्षेत्रे
क्षेत्र [mn]
कुरुक्षेत्रे
कुरुक्षेत्र [n]
धर्मज्ञैर्
धर्म [mn]
धर्मज्ञैर्
ज्ञ [adj]
बहुभिर्
बहु [adj]
वृते
वृ [1. Ā.]
उञ्छवृत्तिर्
उञ्छ [m]
उञ्छवृत्तिर्
वृत्ति [f]
द्विजः
द्विज [m]
कश्चित्
कश्चित् [pron]
कापोतिर्
कापोति [m]
अभवत्
भू [1. Ā.]
पुरा
पुरा [ind]
सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः । वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः ॥
English Translation
He lived there with his wife and son and daughter-in-law and practiced penances. Of righteous soul and with senses completely controlled, he adopted the mode of living which is followed by a parrot.
Morphemic Decomposition & Padaccheda
सभार्यः
स [ind]
सभार्यः
भार्या [f]
सह
सह [ind]
पुत्रेण
पुत्र [m]
सस्नुषस्तपसि
स [ind]
सस्नुषस्तपसि
स्नुषा [f]
सस्नुषस्तपसि
तपस् [n]
स्थितः
स्था [1. Ā.]
वधूचतुर्थो
वधू [f]
वधूचतुर्थो
चतुर्थ [adj]
वृद्धः
वृद्ध [adj]
स
तद् [pron]
धर्मात्मा
धर्म [mn]
धर्मात्मा
आत्मन् [m]
नियतेन्द्रियः
नियम् [1. Ā.]
नियतेन्द्रियः
इन्द्रिय [n]
षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः । षष्ठे काले कदाचिच्च तस्याहारो न विद्यते । भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ॥
Morphemic Decomposition & Padaccheda
षष्ठे
षष्ठ [adj]
काले
काल [m]
तदा
तदा [ind]
विप्रो
विप्र [m]
भुङ्क्ते
भुज् [6. P.]
तैः
तद् [pron]
सह
सह [ind]
सुव्रतः
सु [ind]
सुव्रतः
व्रत [n]
षष्ठे
षष्ठ [adj]
काले
काल [m]
कदाचिच्च
कदाचिद् [ind]
कदाचिच्च
च [ind]
तस्याहारो
तद् [pron]
तस्याहारो
आहार [m]
न
न [ind]
विद्यते
विद् [6. Ā.]
भुङ्क्ते
भुज् [6. P.]
ऽन्यस्मिन्
अन्य [pron]
कदाचित्
कदाचिद् [ind]
स
तद् [pron]
षष्ठे
षष्ठ [adj]
काले
काल [m]
द्विजोत्तमः
द्विजोत्तम [m]
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे । नाविद्यत तदा विप्राः संचयस्तान्निबोधत । क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा ॥
Morphemic Decomposition & Padaccheda
कपोतधर्मिणस्तस्य
कपोत [mn]
कपोतधर्मिणस्तस्य
धर्मिन् [adj]
कपोतधर्मिणस्तस्य
तद् [pron]
दुर्भिक्षे
दुर्भिक्ष [mn]
सति
अस् [2. P.]
दारुणे
दारुण [adj]
नाविद्यत
न [ind]
नाविद्यत
विद् [2. Ā.]
तदा
तदा [ind]
विप्राः
विप्र [m]
संचयस्तान्निबोधत
संचय [m]
संचयस्तान्निबोधत
तद् [pron]
संचयस्तान्निबोधत
निबुध् [4. P.]
क्षीणौषधिसमावायो
क्षि [9. Ā.]
क्षीणौषधिसमावायो
ओषधि [mf]
क्षीणौषधिसमावायो
समावाय [m]
द्रव्यहीनो
द्रव्य [n]
द्रव्यहीनो
हा [1. P.]
ऽभवत्
भू [1. Ā.]
तदा
तदा [ind]
काले कालेऽस्य संप्राप्ते नैव विद्येत भोजनम् । क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ॥
English Translation
When the habitual hours came for eating, the Brahmana had nothing to eat. This happened day after day. All the members of his family were stricken with hunger but were obliged to pass the days as best they could.
Morphemic Decomposition & Padaccheda
काले
काल [m]
काले
काल [m]
ऽस्य
इदम् [pron]
सम्प्राप्ते
सम्प्राप् [5. Ā.]
नैव
न [ind]
नैव
एव [ind]
विद्येत
विद् [2. Ā.]
भोजनम्
भोजन [n]
क्षुधापरिगताः
क्षुधा [f]
क्षुधापरिगताः
परिगम् [1. P.]
सर्वे
सर्व [pron]
प्रातिष्ठन्त
प्रस्था [1. Ā.]
तदा
तदा [ind]
तु
तु [ind]
ते
तद् [pron]
उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे । उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः । उञ्छमप्राप्तवानेव सार्धं परिजनेन ह ॥
English Translation
One day, in the month of Jyaishtha, while the Sun was in the meridian, the Brahman was engaged, in picking up grains of corn. Afflicted by heat and hunger, he was practicing this penance.
Morphemic Decomposition & Padaccheda
उञ्छंस्तदा
उञ्छ् [6. P.]
उञ्छंस्तदा
तदा [ind]
शुक्लपक्षे
शुक्ल [m]
शुक्लपक्षे
पक्ष [m]
मध्यं
मध्य [n]
तपति
तप् [4. Ā.]
भास्करे
भास्कर [m]
उष्णार्तश्च
उष्ण [mn]
उष्णार्तश्च
आर्त [adj]
उष्णार्तश्च
च [ind]
क्षुधार्तश्च
क्षुधा [f]
क्षुधार्तश्च
आर्त [adj]
क्षुधार्तश्च
च [ind]
स
तद् [pron]
विप्रस्तपसि
विप्र [m]
विप्रस्तपसि
तपस् [n]
स्थितः
स्था [1. Ā.]
उञ्छम्
उञ्छ [m]
अप्राप्तवान्
अप्राप्तवत् [adj]
एव
एव [ind]
सार्धं
सार्धम् [ind]
परिजनेन
परिजन [m]
ह
ह [ind]
स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि । क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ॥
Morphemic Decomposition & Padaccheda
स
तद् [pron]
तथैव
तथा [ind]
तथैव
एव [ind]
क्षुधाविष्टः
क्षुधा [f]
क्षुधाविष्टः
आविश् [6. Ā.]
स्पृष्ट्वा
स्पृश् [6. Ā.]
तोयं
तोय [n]
यथाविधि
यथाविधि [ind]
क्षपयामास
क्षपय् [10. Ā.]
तं
तद् [pron]
कालं
काल [m]
कृच्छ्रप्राणो
कृच्छ्र [adj]
कृच्छ्रप्राणो
प्राण [m]
द्विजोत्तमः
द्विजोत्तम [m]
अथ षष्ठे गते काले यवप्रस्थमुपार्जयत् । यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः ॥
Morphemic Decomposition & Padaccheda
अथ
अथ [ind]
षष्ठे
षष्ठ [adj]
गते
गम् [6. Ā.]
काले
काल [m]
यवप्रस्थम्
यव [mn]
यवप्रस्थम्
प्रस्थ [mn]
उपार्जयत्
उपार्जय् [10. P.]
यवप्रस्थं
यव [mn]
यवप्रस्थं
प्रस्थ [mn]
च
च [ind]
ते
तद् [pron]
सक्तून्
सक्तु [m]
अकुर्वन्त
कृ [2. Ā.]
तपस्विनः
तपस्विन् [m]
कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि । कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः ॥
Morphemic Decomposition & Padaccheda
तु
तु [ind]
हुत्वा
हु [3. Ā.]
वह्निं
वह्नि [m]
यथाविधि
यथाविधि [ind]
कुडवं
कुडव [mn]
कुडवं
कुडव [mn]
सर्वे
सर्व [pron]
व्यभजन्त
विभज् [1. Ā.]
तपस्विनः
तपस्विन् [m]
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा । ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन् ॥
Morphemic Decomposition & Padaccheda
अथागच्छद्
अथ [ind]
अथागच्छद्
गम् [6. Ā.]
द्विजः
द्विज [m]
कश्चिद्
कश्चित् [pron]
अतिथिर्
अतिथि [m]
भुञ्जतां
भुज् [6. P.]
तदा
तदा [ind]
ते
तद् [pron]
तं
तद् [pron]
दृष्ट्वातिथिं
दृश् [6. P.]
दृष्ट्वातिथिं
अतिथि [m]
तत्र
तत्र [ind]
प्रहृष्टमनसो
प्रहृष् [4. Ā.]
प्रहृष्टमनसो
मनस् [n]
ऽभवन्
भू [1. Ā.]
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा । विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ॥
Morphemic Decomposition & Padaccheda
ते
तद् [pron]
ऽभिवाद्य
अभिवादय् [10. Ā.]
सुखप्रश्नं
सुख [n]
सुखप्रश्नं
प्रश्न [m]
पृष्ट्वा
प्रच्छ् [1. P.]
तम्
तद् [pron]
अतिथिं
अतिथि [m]
तदा
तदा [ind]
विशुद्धमनसो
विशुध् [4. P.]
विशुद्धमनसो
मनस् [n]
दान्ताः
दम् [4. P.]
श्रद्धादमसमन्विताः
श्रद्धा [f]
श्रद्धादमसमन्विताः
दम [m]
श्रद्धादमसमन्विताः
समन्वित [adj]
अनसूयवो गतक्रोधाः साधवो गतमत्सराः । त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः ॥
Morphemic Decomposition & Padaccheda
अनसूयवो
अनसूयु [adj]
गतक्रोधाः
गम् [6. Ā.]
गतक्रोधाः
क्रोध [m]
साधवो
साधु [adj]
गतमत्सराः
गम् [6. Ā.]
गतमत्सराः
मत्सर [m]
कृत्वा
कृ [2. Ā.]
प्रवर्ग्यं
प्रवर्ग्य [m]
धर्मज्ञा
धर्म [mn]
धर्मज्ञा
ज्ञ [adj]
यथावद्
यथावत् [ind]
द्विजसत्तमाः
द्विजसत्तम [m]
सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम् । कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ॥
Morphemic Decomposition & Padaccheda
सब्रह्मचर्यं
स [ind]
सब्रह्मचर्यं
ब्रह्मचर्य [n]
स्वं
स्व [adj]
गोत्रं
गोत्र [mn]
समाख्याय
समाख्या [4. P.]
परस्परम्
परस्पर [adj]
कुटीं
कुटी [f]
प्रवेशयामासुः
प्रवेशय् [10. Ā.]
क्षुधार्तम्
क्षुधा [f]
क्षुधार्तम्
आर्त [adj]
अतिथिं
अतिथि [m]
तदा
तदा [ind]
इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ । शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो । प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम ॥
English Translation
Here is some clean Saktu acquired by lawful means, O powerful one! Given by us, O foremost of twice-born persons, do you accept it.
Morphemic Decomposition & Padaccheda
इदम्
इदम् [pron]
अर्घ्यं
अर्घ्य [n]
च
च [ind]
पाद्यं
पाद्य [n]
च
च [ind]
बृसी
बृसी [f]
चेयं
च [ind]
चेयं
इदम् [pron]
तवानघ
त्वद् [pron]
तवानघ
अनघ [adj]
शुचयः
शुचि [adj]
सक्तवश्चेमे
सक्तु [m]
सक्तवश्चेमे
च [ind]
सक्तवश्चेमे
इदम् [pron]
नियमोपार्जिताः
नियम [m]
नियमोपार्जिताः
उपार्जय् [10. P.]
प्रभो
प्रभु [adj]
प्रतिगृह्णीष्व
प्रतिग्रह् [9. Ā.]
भद्रं
भद्र [n]
ते
त्वद् [pron]
मया
मद् [pron]
दत्ता
दा [1. Ā.]
द्विजोत्तम
द्विजोत्तम [m]
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः । भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ॥
English Translation
Thus addressed by them, that Brahmana accepted the Kudava (twelve double handfuls) of powdered barley which was offered to him and ate it all. But his hunger, O king, was not satisfied with what he ate.
Morphemic Decomposition & Padaccheda
इत्युक्तः
इति [ind]
इत्युक्तः
वच् [2. P.]
प्रतिगृह्याथ
प्रतिग्रह् [9. Ā.]
प्रतिगृह्याथ
अथ [ind]
सक्तूनां
सक्तु [m]
कुडवं
कुडव [mn]
द्विजः
द्विज [m]
भक्षयामास
भक्षय् [10. Ā.]
राजेन्द्र
राजन् [m]
राजेन्द्र
इन्द्र [m]
न
न [ind]
च
च [ind]
तुष्टिं
तुष्टि [f]
जगाम
गम् [6. Ā.]
सः
तद् [pron]
स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् । आहारं चिन्तयामास कथं तुष्टो भवेदिति ॥
English Translation
The Brahmana while observing the Unchcha vow, seeing that his guest's hunger was still unsatisfied, began to think of what other food he could place before him for pleasing him.
Morphemic Decomposition & Padaccheda
स
तद् [pron]
उञ्छवृत्तिः
उञ्छ [m]
उञ्छवृत्तिः
वृत्ति [f]
तं
तद् [pron]
प्रेक्ष्य
प्रेक्ष् [1. P.]
क्षुधापरिगतं
क्षुधा [f]
क्षुधापरिगतं
परिगम् [1. P.]
द्विजम्
द्विज [m]
आहारं
आहार [m]
चिन्तयामास
चिन्तय् [10. Ā.]
कथं
कथम् [ind]
तुष्टो
तुष् [4. Ā.]
भवेद्
भू [1. Ā.]
इति
इति [ind]
तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति । गच्छत्वेष यथाकामं संतुष्टो द्विजसत्तमः ॥
English Translation
Then his wife said to him. Let my share be given to him! Let this foremost of twice-born persons be pleased and let him then go wherever he will.
Morphemic Decomposition & Padaccheda
तस्य
तद् [pron]
भार्याब्रवीद्
भार्या [f]
भार्याब्रवीद्
ब्रू [2. Ā.]
राजन्मद्भागो
राजन् [m]
राजन्मद्भागो
मद् [pron]
राजन्मद्भागो
भाग [m]
दीयताम्
दा [1. Ā.]
इति
इति [ind]
गच्छत्वेष
गम् [6. Ā.]
गच्छत्वेष
एतद् [pron]
यथाकामं
यथाकाम [adj]
संतुष्टो
संतुष् [4. P.]
द्विजसत्तमः
द्विजसत्तम [m]
इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः । क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत ॥
English Translation
Knowing that his chaste wife who said so, was herself stricken with hunger, that best of Brahmanas could not approve of her share of the powdered barley being given to the guest.
Morphemic Decomposition & Padaccheda
इति
इति [ind]
ब्रुवन्तीं
ब्रू [2. Ā.]
तां
तद् [pron]
साध्वीं
साधु [adj]
धर्मात्मा
धर्म [mn]
धर्मात्मा
आत्मन् [m]
स
तद् [pron]
द्विजर्षभः
द्विजर्षभ [m]
क्षुधापरिगतां
क्षुधा [f]
क्षुधापरिगतां
परिगम् [1. P.]
ज्ञात्वा
ज्ञा [4. Ā.]
सक्तूंस्तान्नाभ्यनन्दत
सक्तु [m]
सक्तूंस्तान्नाभ्यनन्दत
तद् [pron]
सक्तूंस्तान्नाभ्यनन्दत
न [ind]
सक्तूंस्तान्नाभ्यनन्दत
अभिनन्द् [1. Ā.]
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् । त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम् ॥
Morphemic Decomposition & Padaccheda
जानन्
ज्ञा [4. Ā.]
वृद्धां
वृद्ध [adj]
क्षुधार्तां
क्षुधा [f]
क्षुधार्तां
आर्त [adj]
च
च [ind]
श्रान्तां
श्रम् [1. Ā.]
ग्लानां
ग्ला [4. Ā.]
तपस्विनीम्
तपस्विनी [f]
त्वगस्थिभूतां
त्वच् [f]
त्वगस्थिभूतां
अस्थि [n]
त्वगस्थिभूतां
भू [1. Ā.]
वेपन्तीं
विप् [1. P.]
ततो
ततस् [ind]
भार्याम्
भार्या [f]
उवाच
वच् [2. P.]
ताम्
तद् [pron]
अपि कीटपतंगानां मृगाणां चैव शोभने । स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि ॥
Morphemic Decomposition & Padaccheda
अपि
अपि [ind]
कीटपतंगानां
कीट [m]
कीटपतंगानां
पतंग [m]
मृगाणां
मृग [m]
चैव
च [ind]
चैव
एव [ind]
शोभने
शोभन [adj]
स्त्रियो
स्त्री [f]
रक्ष्याश्च
रक्ष् [4. P.]
रक्ष्याश्च
च [ind]
पोष्याश्च
पुष् [2. P.]
पोष्याश्च
च [ind]
नैवं
न [ind]
नैवं
एवम् [ind]
त्वं
त्वद् [pron]
वक्तुम्
वच् [2. P.]
अर्हसि
अर्ह् [1. Ā.]
अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च । प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात् ॥
Morphemic Decomposition & Padaccheda
अनुकम्पितो
अनुकम्प् [1. P.]
नरो
नर [m]
नार्या
नारी [f]
पुष्टो
पुष् [2. P.]
रक्षित
रक्ष् [4. P.]
एव
एव [ind]
च
च [ind]
प्रपतेद्
प्रपत् [1. Ā.]
यशसो
यशस् [n]
दीप्तान्न
दीप् [4. P.]
दीप्तान्न
न [ind]
च
च [ind]
लोकान्
लोक [m]
अवाप्नुयात्
अवाप् [5. Ā.]
इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज । सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ॥
English Translation
Thus addressed, she answered him, saying, O twice-born one, our religions acts and wealth are united. Do you take a fourth of this barley! Indeed, be pleased with me.
Morphemic Decomposition & Padaccheda
इत्युक्ता
इति [ind]
इत्युक्ता
वच् [2. P.]
सा
तद् [pron]
ततः
ततस् [ind]
प्राह
प्राह् [1. P.]
धर्मार्थौ
धर्म [mn]
धर्मार्थौ
अर्थ [mn]
नौ
मद् [pron]
समौ
सम [pron]
द्विज
द्विज [m]
सक्तुप्रस्थचतुर्भागं
सक्तु [m]
सक्तुप्रस्थचतुर्भागं
प्रस्थ [mn]
सक्तुप्रस्थचतुर्भागं
चतुर् [nr]
सक्तुप्रस्थचतुर्भागं
भाग [m]
गृहाणेमं
ग्रह् [6. Ā.]
गृहाणेमं
इदम् [pron]
प्रसीद
प्रसद् [1. Ā.]
मे
मद् [pron]
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः । स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम ॥
English Translation
Truth, pleasure, religious merit, and Heaven, as acquirable by good qualities, of women, as also all the objects of their desire, O foremost of twice-born ones, depend on the husband.
Morphemic Decomposition & Padaccheda
सत्यं
सत्य [n]
रतिश्च
रति [f]
रतिश्च
च [ind]
धर्मश्च
धर्म [mn]
धर्मश्च
च [ind]
स्वर्गश्च
स्वर्ग [m]
स्वर्गश्च
च [ind]
गुणनिर्जितः
गुण [mn]
गुणनिर्जितः
निर्जि [1. P.]
स्त्रीणां
स्त्री [f]
पतिसमाधीनं
पति [m]
पतिसमाधीनं
सम [pron]
पतिसमाधीनं
अधीन [adj]
काङ्क्षितं
काङ्क्ष् [2. Ā.]
च
च [ind]
द्विजोत्तम
द्विजोत्तम [m]
ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः । भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा ॥
English Translation
In the production of children the mother contributes her blood. The father contributes his sced. The husband is the highest deity of the wife. Through the favour of the husband, women get both pleasure and offspring as the reward.
Morphemic Decomposition & Padaccheda
ऋतुर्
ऋतु [m]
मातुः
मातृ [f]
पितुर्
पितृ [m]
बीजं
बीज [mn]
दैवतं
दैवत [n]
परमं
परम [adj]
पतिः
पति [m]
भर्तुः
भर्तृ [m]
प्रसादात्
प्रसाद [m]
स्त्रीणां
स्त्री [f]
वै
वै [ind]
रतिः
रति [f]
पुत्रफलं
पुत्र [m]
पुत्रफलं
फल [n]
तथा
तथा [ind]
पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम । पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे ॥
English Translation
You are my Pati (lord) for the protection you give me. You are my Bhartri for the means of sustenance you give me. You are, again, boon-giver to me one account of your having presented me a son. Do you, therefore, take my share of the barley and give it to the guest.
Morphemic Decomposition & Padaccheda
पालनाद्धि
पालन [n]
पालनाद्धि
हि [ind]
पतिस्त्वं
पति [m]
पतिस्त्वं
त्वद् [pron]
मे
मद् [pron]
भर्तासि
भर्तृ [m]
भर्तासि
अस् [2. P.]
भरणान्मम
भरण [n]
भरणान्मम
मद् [pron]
पुत्रप्रदानाद्
पुत्र [m]
पुत्रप्रदानाद्
प्रदान [n]
वरदस्तस्मात्
वर [mn]
वरदस्तस्मात्
द [adj]
वरदस्तस्मात्
तस्मात् [ind]
सक्तून्
सक्तु [m]
गृहाण
ग्रह् [6. Ā.]
मे
मद् [pron]
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् । उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ॥
English Translation
Overcome by decrepitude, you are of advanced years. Afflicted by hunger, you are greatly weakened. Worn out with fasts, you are very much emaciated.
Morphemic Decomposition & Padaccheda
जरापरिगतो
जरा [f]
जरापरिगतो
परिगम् [1. P.]
वृद्धः
वृद्ध [adj]
क्षुधार्तो
क्षुधा [f]
क्षुधार्तो
आर्त [adj]
दुर्बलो
दुर्बल [adj]
भृशम्
भृशम् [ind]
उपवासपरिश्रान्तो
उपवास [m]
उपवासपरिश्रान्तो
परिश्रम् [4. P.]
यदा
यदा [ind]
त्वम्
त्वद् [pron]
अपि
अपि [ind]
कर्शितः
कर्शय् [10. P.]
इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् । द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ॥
English Translation
Thus addressed by her, he took her share of the powdered barley and addressing his guest, said, 'O twice-bom one, O best of men, do you accept this quantity of powdered barley as well.
Morphemic Decomposition & Padaccheda
इत्युक्तः
इति [ind]
इत्युक्तः
वच् [2. P.]
स
तद् [pron]
तु
तु [ind]
राजेन्द्र
राजन् [m]
राजेन्द्र
इन्द्र [m]
कृष्णद्वैपायनो
कृष्णद्वैपायन [m]
ऽब्रवीत्
ब्रू [2. Ā.]
द्विज
द्विज [m]
सक्तून्
सक्तु [m]
इमान्
इदम् [pron]
भूयः
भूयस् [ind]
प्रतिगृह्णीष्व
प्रतिग्रह् [9. Ā.]
सत्तम
सत्तम [adj]
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः । तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ॥
English Translation
The Brahmana, having accepted that quantity, immediately ate it up, but his hunger was not yet satisfied. Secing him ungratified, the Brahmana in the observance of the Unchcha vow became thoughtful.
Morphemic Decomposition & Padaccheda
स
तद् [pron]
तान्
तद् [pron]
प्रगृह्य
प्रग्रह् [9. Ā.]
भुक्त्वा
भुज् [6. P.]
च
च [ind]
न
न [ind]
तुष्टिम्
तुष्टि [f]
अगमद्
गम् [6. Ā.]
द्विजः
द्विज [m]
तम्
तद् [pron]
उञ्छवृत्तिर्
उञ्छ [m]
उञ्छवृत्तिर्
वृत्ति [f]
आलक्ष्य
आलक्षय् [10. Ā.]
ततश्चिन्तापरो
ततस् [ind]
ततश्चिन्तापरो
चिन्ता [f]
ततश्चिन्तापरो
पर [pron]
ऽभवत्
भू [1. Ā.]