Śalyaparva Adhyāya 44
शल्यपर्व • अध्यायः 44
Śalyaparva Adhyāya 44 of the classical Mahābhārata with 111 verses.
Total: 111 Verses
•
Citations: MBh 9.44.1–111
•
250 Lexicon Terms
•
Page 1 of 4 (Verses 30 shown)
ततोऽभिषेकसंभारान्सर्वान्संभृत्य शास्त्रतः । बृहस्पतिः समिद्धेऽग्नौ जुहावाज्यं यथाविधि ॥
English Translation
Vaishampayana said "Collecting all articles sanctioned by Shastras for the ceremony of investiture. Brihaspati duly poured libations of the burning fire.
Morphemic Decomposition & Padaccheda
ततो
ततस् [ind]
ऽभिषेकसंभारान्
अभिषेक [m]
ऽभिषेकसंभारान्
सम्भार [mn]
सर्वान्
सर्व [pron]
संभृत्य
सम्भृ [3. Ā.]
शास्त्रतः
शास्त्र [n]
बृहस्पतिः
बृहस्पति [m]
समिद्धे
समिन्ध् [2. Ā.]
ऽग्नौ
अग्नि [m]
जुहावाज्यं
हु [3. Ā.]
जुहावाज्यं
आज्य [n]
यथाविधि
यथाविधि [ind]
ततो हिमवता दत्ते मणिप्रवरशोभिते । दिव्यरत्नाचिते दिव्ये निषण्णः परमासने ॥
English Translation
Himavat gave a seat which was set with many costly gems. Kartikeya was made a site on that sacred and best of seats set with excellent gems.
Morphemic Decomposition & Padaccheda
ततो
ततस् [ind]
हिमवता
हिमवन्त् [m]
दत्ते
दा [1. Ā.]
मणिप्रवरशोभिते
मणि [m]
मणिप्रवरशोभिते
प्रवर [adj]
मणिप्रवरशोभिते
शोभय् [10. Ā.]
दिव्यरत्नाचिते
दिव्य [adj]
दिव्यरत्नाचिते
रत्न [mn]
दिव्यरत्नाचिते
आचि [5. Ā.]
दिव्ये
दिव्य [adj]
निषण्णः
निषद् [1. Ā.]
परमासने
परम [adj]
परमासने
आसन [n]
सर्वमङ्गलसंभारैर्विधिमन्त्रपुरस्कृतम् । आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥
English Translation
The gods collected there all sorts of sacred articles, with due rites and mantras, that were necessary for the ceremony.
Morphemic Decomposition & Padaccheda
सर्वमङ्गलसंभारैर्
सर्व [pron]
सर्वमङ्गलसंभारैर्
मङ्गल [n]
सर्वमङ्गलसंभारैर्
सम्भार [mn]
विधिमन्त्रपुरस्कृतम्
विधि [m]
विधिमन्त्रपुरस्कृतम्
मन्त्र [mn]
विधिमन्त्रपुरस्कृतम्
पुरस्कृ [8. Ā.]
आभिषेचनिकं
आभिषेचनिक [adj]
द्रव्यं
द्रव्य [n]
गृहीत्वा
ग्रह् [6. Ā.]
देवतागणाः
देवता [f]
देवतागणाः
गण [m]
इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा । धाता चैव विधाता च तथा चैवानिलानलौ ॥
Morphemic Decomposition & Padaccheda
इन्द्राविष्णू
इन्द्राविष्णु [m]
महावीर्यौ
महत् [adj]
महावीर्यौ
वीर्य [n]
सूर्याचन्द्रमसौ
सूर्याचन्द्रमस् [m]
तथा
तथा [ind]
धाता
धातृ [m]
चैव
च [ind]
चैव
एव [ind]
विधाता
विधातृ [m]
च
च [ind]
तथा
तथा [ind]
चैवानिलानलौ
च [ind]
चैवानिलानलौ
एव [ind]
चैवानिलानलौ
अनिल [m]
चैवानिलानलौ
अनल [m]
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता । रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च ॥
Morphemic Decomposition & Padaccheda
पूष्णा
पूषन् [m]
भगेनार्यम्णा
भग [mn]
भगेनार्यम्णा
अर्यमन् [m]
च
च [ind]
अंशेन
अंश [m]
च
च [ind]
विवस्वता
विवस्वन्त् [m]
रुद्रश्च
रुद्र [m]
रुद्रश्च
च [ind]
सहितो
सहित [adj]
धीमान्मित्रेण
धीमत् [adj]
धीमान्मित्रेण
मित्र [mn]
वरुणेन
वरुण [m]
च
च [ind]
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः । विश्वेदेवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ॥
Morphemic Decomposition & Padaccheda
रुद्रैर्
रुद्र [m]
वसुभिर्
वसु [mn]
आदित्यैर्
आदित्य [m]
अश्विभ्यां
अश्विन् [m]
च
च [ind]
वृतः
वृ [1. Ā.]
प्रभुः
प्रभु [adj]
विश्वेदेवैर्
विश्वेदेव [m]
मरुद्भिश्च
मरुत् [m]
मरुद्भिश्च
च [ind]
साध्यैश्च
साध्य [m]
साध्यैश्च
च [ind]
पितृभिः
पितृ [m]
सह
सह [ind]
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः । देवर्षिभिरसंख्येयैस्तथा ब्रह्मर्षिभिर्वरैः ॥
Morphemic Decomposition & Padaccheda
गन्धर्वैर्
गन्धर्व [m]
अप्सरोभिश्च
अप्सरस् [f]
अप्सरोभिश्च
च [ind]
यक्षराक्षसपन्नगैः
यक्ष [m]
यक्षराक्षसपन्नगैः
राक्षस [m]
यक्षराक्षसपन्नगैः
पन्नग [mn]
देवर्षिभिर्
देवर्षि [m]
असंख्येयैस्तथा
असंख्येय [adj]
असंख्येयैस्तथा
तथा [ind]
ब्रह्मर्षिभिर्
ब्रह्मर्षि [m]
वरैः
वर [adj]
वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः । भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः । सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः ॥
Morphemic Decomposition & Padaccheda
वैखानसैर्
वैखानस [m]
वालखिल्यैर्
वालखिल्य [mn]
वाय्वाहारैर्
वायु [m]
वाय्वाहारैर्
आहार [m]
मरीचिपैः
मरीचिप [m]
भृगुभिश्चाङ्गिरोभिश्च
भृगु [m]
भृगुभिश्चाङ्गिरोभिश्च
च [ind]
भृगुभिश्चाङ्गिरोभिश्च
अङ्गिरस् [m]
भृगुभिश्चाङ्गिरोभिश्च
च [ind]
यतिभिश्च
यति [m]
यतिभिश्च
च [ind]
महात्मभिः
महात्मन् [adj]
सर्वैर्
सर्व [pron]
विद्याधरैः
विद्याधर [m]
पुण्यैर्
पुण्य [adj]
योगसिद्धैस्तथा
योग [m]
योगसिद्धैस्तथा
सिध् [4. Ā.]
योगसिद्धैस्तथा
तथा [ind]
वृतः
वृ [1. Ā.]
पितामहः पुलस्त्यश्च पुलहश्च महातपाः । अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च ॥
Morphemic Decomposition & Padaccheda
पितामहः
पितामह [m]
पुलस्त्यश्च
पुलस्त्य [m]
पुलस्त्यश्च
च [ind]
पुलहश्च
पुलह [m]
पुलहश्च
च [ind]
महातपाः
महातपस् [m]
अङ्गिराः
अङ्गिरस् [m]
कश्यपो
कश्यप [m]
ऽत्रिश्च
अत्रि [m]
ऽत्रिश्च
च [ind]
मरीचिर्
मरीचि [m]
भृगुर्
भृगु [m]
एव
एव [ind]
च
च [ind]
क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च । ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशां पते ॥
Morphemic Decomposition & Padaccheda
क्रतुर्
क्रतु [m]
हरः
हर [m]
प्रचेताश्च
प्रचेतस् [m]
प्रचेताश्च
च [ind]
मनुर्
मनु [m]
दक्षस्तथैव
दक्ष [m]
दक्षस्तथैव
तथा [ind]
दक्षस्तथैव
एव [ind]
च
च [ind]
ऋतवश्च
ऋतु [m]
ऋतवश्च
च [ind]
ग्रहाश्चैव
ग्रह [mn]
ग्रहाश्चैव
च [ind]
ग्रहाश्चैव
एव [ind]
ज्योतींषि
ज्योतिस् [n]
च
च [ind]
विशां
विश् [f]
पते
पति [m]
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः । समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च । पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप ॥
Morphemic Decomposition & Padaccheda
मूर्तिमत्यश्च
मूर्तिमत् [adj]
मूर्तिमत्यश्च
च [ind]
सरितो
सरित् [f]
वेदाश्चैव
वेद [m]
वेदाश्चैव
च [ind]
वेदाश्चैव
एव [ind]
सनातनाः
सनातन [adj]
कुञ्जरांश्च
कुञ्जर [m]
कुञ्जरांश्च
च [ind]
रथांश्चैव
रथ [m]
रथांश्चैव
च [ind]
रथांश्चैव
एव [ind]
खरोष्ट्रं
खर [m]
खरोष्ट्रं
उष्ट्र [m]
वाहनानि
वाहन [n]
च
च [ind]
पृथिवी
पृथिवी [f]
द्यौर्
दिव् [m]
दिशश्चैव
दिश् [f]
दिशश्चैव
च [ind]
दिशश्चैव
एव [ind]
पादपाश्च
पादप [m]
पादपाश्च
च [ind]
जनाधिप
जनाधिप [m]
अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती । उमा शची सिनीवाली तथा चानुमतिः कुहूः । राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् ॥
Morphemic Decomposition & Padaccheda
अदितिर्
अदिति [f]
देवमाता
देव [m]
देवमाता
मातृ [f]
च
च [ind]
ह्रीः
ह्री [f]
श्रीः
श्री [f]
स्वाहा
स्वाहा [f]
सरस्वती
सरस्वती [f]
उमा
उमा [f]
शची
शची [f]
सिनीवाली
सिनीवाली [f]
तथा
तथा [ind]
चानुमतिः
च [ind]
चानुमतिः
अनुमति [f]
कुहूः
कुहू [f]
राका
राका [f]
च
च [ind]
धिषणा
धिषणा [f]
चैव
च [ind]
चैव
एव [ind]
पत्न्यश्चान्या
पत्नी [f]
पत्न्यश्चान्या
च [ind]
पत्न्यश्चान्या
अन्य [pron]
दिवौकसाम्
दिवौकस् [m]
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् । ऐरावतः सानुचरः कलाः काष्ठास्तथैव च । मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप ॥
Morphemic Decomposition & Padaccheda
हिमवांश्चैव
हिमवन्त् [m]
हिमवांश्चैव
च [ind]
हिमवांश्चैव
एव [ind]
विन्ध्यश्च
विन्ध्य [m]
विन्ध्यश्च
च [ind]
मेरुश्चानेकशृङ्गवान्
मेरु [m]
मेरुश्चानेकशृङ्गवान्
च [ind]
मेरुश्चानेकशृङ्गवान्
अनेक [adj]
मेरुश्चानेकशृङ्गवान्
शृङ्गवत् [adj]
ऐरावतः
ऐरावत [m]
सानुचरः
स [ind]
सानुचरः
अनुचर [m]
कलाः
कला [f]
काष्ठास्तथैव
काष्ठा [f]
काष्ठास्तथैव
तथा [ind]
काष्ठास्तथैव
एव [ind]
च
च [ind]
मासार्धमासा
मास [mn]
मासार्धमासा
अर्ध [adj]
मासार्धमासा
मास [mn]
ऋतवस्तथा
ऋतु [m]
ऋतवस्तथा
तथा [ind]
रात्र्यहनी
रात्रि [f]
रात्र्यहनी
अहर् [n]
नृप
नृप [m]
उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः । अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ॥
Morphemic Decomposition & Padaccheda
उच्चैःश्रवा
उच्चैःश्रवस् [m]
हयश्रेष्ठो
हय [m]
हयश्रेष्ठो
श्रेष्ठ [adj]
नागराजश्च
नाग [m]
नागराजश्च
राज [m]
नागराजश्च
च [ind]
वामनः
वामन [m]
अरुणो
अरुण [mn]
गरुडश्चैव
गरुड [m]
गरुडश्चैव
च [ind]
गरुडश्चैव
एव [ind]
वृक्षाश्चौषधिभिः
वृक्ष [m]
वृक्षाश्चौषधिभिः
च [ind]
वृक्षाश्चौषधिभिः
ओषधि [mf]
सह
सह [ind]
धर्मश्च भगवान्देवः समाजग्मुर्हि संगताः । कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ॥
Morphemic Decomposition & Padaccheda
धर्मश्च
धर्म [mn]
धर्मश्च
च [ind]
भगवान्
भगवत् [adj]
देवः
देव [m]
समाजग्मुर्
समागम् [6. P.]
हि
हि [ind]
संगताः
संगम् [6. Ā.]
कालो
काल [m]
यमश्च
यम [m]
यमश्च
च [ind]
मृत्युश्च
मृत्यु [m]
मृत्युश्च
च [ind]
यमस्यानुचराश्च
यम [m]
यमस्यानुचराश्च
अनुचर [m]
यमस्यानुचराश्च
च [ind]
ये
यद् [pron]
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः । ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः ॥
English Translation
I do not mention the various other gods that came there lest the list be a heavy one. All of them came to that ceremony for investing Kartikeya with the dignity of generalissimo.
Morphemic Decomposition & Padaccheda
बहुलत्वाच्च
बहुल [adj]
बहुलत्वाच्च
त्व [n]
बहुलत्वाच्च
च [ind]
नोक्ता
न [ind]
नोक्ता
वच् [2. P.]
ये
यद् [pron]
विविधा
विविध [adj]
देवतागणाः
देवता [f]
देवतागणाः
गण [m]
ते
तद् [pron]
कुमाराभिषेकार्थं
कुमार [m]
कुमाराभिषेकार्थं
अभिषेक [m]
कुमाराभिषेकार्थं
अर्थ [mn]
समाजग्मुस्ततस्ततः
समागम् [6. P.]
समाजग्मुस्ततस्ततः
ततस् [ind]
समाजग्मुस्ततस्ततः
ततस् [ind]
जगृहुस्ते तदा राजन्सर्व एव दिवौकसः । आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः ॥
English Translation
All the celestials, O king brought there every thing necessary for the ceremony and every sacred article.
Morphemic Decomposition & Padaccheda
जगृहुस्ते
ग्रह् [6. Ā.]
जगृहुस्ते
तद् [pron]
तदा
तदा [ind]
राजन्
राजन् [m]
सर्व
सर्व [pron]
एव
एव [ind]
दिवौकसः
दिवौकस् [m]
आभिषेचनिकं
आभिषेचनिक [adj]
भाण्डं
भाण्ड [n]
मङ्गलानि
मङ्गल [n]
च
च [ind]
सर्वशः
सर्वशस् [ind]
दिव्यसंभारसंयुक्तैः कलशैः काञ्चनैर्नृप । सरस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव तु ॥
English Translation
Gladly the celestials made that great youth, that terror of the Asuras, the generalissimo of the celestial hosts, after pouring upon his head the sacred and excellent water of the Sarasvati from golden jars that contained other sacred articles necessary for the purpose.
Morphemic Decomposition & Padaccheda
दिव्यसंभारसंयुक्तैः
दिव्य [adj]
दिव्यसंभारसंयुक्तैः
सम्भार [mn]
दिव्यसंभारसंयुक्तैः
संयुज् [7. Ā.]
कलशैः
कलश [mn]
काञ्चनैर्
काञ्चन [adj]
नृप
नृप [m]
सरस्वतीभिः
सरस्वती [f]
पुण्याभिर्
पुण्य [adj]
दिव्यतोयाभिर्
दिव्य [adj]
दिव्यतोयाभिर्
तोय [n]
एव
एव [ind]
तु
तु [ind]
अभ्यषिञ्चन्कुमारं वै संप्रहृष्टा दिवौकसः । सेनापतिं महात्मानमसुराणां भयावहम् ॥
Morphemic Decomposition & Padaccheda
अभ्यषिञ्चन्
अभिषिच् [4. P.]
कुमारं
कुमार [m]
वै
वै [ind]
सम्प्रहृष्टा
सम्प्रहृष् [6. P.]
दिवौकसः
दिवौकस् [m]
सेनापतिं
सेनापति [m]
महात्मानम्
महात्मन् [adj]
असुराणां
असुर [m]
भयावहम्
भय [n]
भयावहम्
आवह [adj]
पुरा यथा महाराज वरुणं वै जलेश्वरम् । तथाभ्यषिञ्चद्भगवान्ब्रह्मा लोकपितामहः । कश्यपश्च महातेजा ये चान्ये नानुकीर्तिताः ॥
English Translation
The Grandfather of the words, viz., Brahman and Kashyapa of great energy and all others, all poured water upon Skanda even as, O king, the gods had poured water on the head of Varuna, the lord of waters, when placing him in this dominion.
Morphemic Decomposition & Padaccheda
पुरा
पुरा [ind]
यथा
यथा [ind]
महाराज
महत् [adj]
महाराज
राज [m]
वरुणं
वरुण [m]
वै
वै [ind]
जलेश्वरम्
जलेश्वर [m]
तथेति
तथा [ind]
तथेति
इति [ind]
चाब्रवीद्
च [ind]
चाब्रवीद्
ब्रू [2. Ā.]
ब्रह्मा
ब्रह्मन् [m]
सर्वलोकपितामहः
सर्व [pron]
सर्वलोकपितामहः
लोक [m]
सर्वलोकपितामहः
पितामह [m]
कश्यपश्च
कश्यप [m]
कश्यपश्च
च [ind]
महातेजा
महत् [adj]
महातेजा
तेजस् [n]
ये
यद् [pron]
चान्ये
च [ind]
चान्ये
अन्य [pron]
नानुकीर्तिताः
न [ind]
नानुकीर्तिताः
अनुकीर्तय् [10. P.]
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः । कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः ॥
English Translation
The lord Brahman then, with a pleased heart, gave to Skanda four powerful companions, gifted with speed of the wind, crowned with ascetic success and gifted with energy which they could increase at will.
Morphemic Decomposition & Padaccheda
तस्मै
तद् [pron]
ब्रह्मा
ब्रह्मन् [m]
ददौ
दा [1. Ā.]
प्रीतो
प्री [9. Ā.]
बलिनो
बलिन् [adj]
वातरंहसः
वात [m]
वातरंहसः
रंहस् [n]
कामवीर्यधरान्
काम [m]
कामवीर्यधरान्
वीर्य [n]
कामवीर्यधरान्
धर [adj]
सिद्धान्महापारिषदान्
सिद्ध [m]
सिद्धान्महापारिषदान्
महत् [adj]
सिद्धान्महापारिषदान्
पारिषद [m]
प्रभुः
प्रभु [adj]
नन्दिषेणं लोहिताक्षं घण्टाकर्णं च संमतम् । चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम् ॥
English Translation
They named Nandisena and Lohitaksha and Ghantakarna and Kumudamalin.
Morphemic Decomposition & Padaccheda
नन्दिषेणं
नन्दिषेण [m]
लोहिताक्षं
लोहिताक्ष [m]
घण्टाकर्णं
घण्टाकर्ण [m]
च
च [ind]
संमतम्
सम्मन् [8. Ā.]
चतुर्थम्
चतुर्थ [adj]
अस्यानुचरं
इदम् [pron]
अस्यानुचरं
अनुचर [m]
ख्यातं
ख्या [4. P.]
कुमुदमालिनम्
कुमुदमालिन् [m]
ततः स्थाणुं महावेगं महापारिषदं क्रतुम् । मायाशतधरं कामं कामवीर्यबलान्वितम् । ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् ॥
English Translation
The lord Sthanu, O king, gave to Skanda a companion possessed of great impetuosity, capable of producing a hundred illusions and gifted with might and energy that he could increase at will. And he was the great destroyer if Asuras.
Morphemic Decomposition & Padaccheda
ततः
ततस् [ind]
स्थाणुं
स्थाणु [m]
महावेगं
महावेग [m]
महापारिषदं
महापारिषद् [m]
क्रतुम्
क्रतु [m]
मायाशतधरं
माया [f]
मायाशतधरं
शत [mn]
मायाशतधरं
धर [adj]
कामं
काम [m]
कामवीर्यबलान्वितम्
काम [m]
कामवीर्यबलान्वितम्
वीर्य [n]
कामवीर्यबलान्वितम्
बल [mn]
कामवीर्यबलान्वितम्
अन्वित [adj]
सेनापत्येन
सेनापत्य [n]
महता
महत् [adj]
सुरारिविनिबर्हणम्
सुर [m]
सुरारिविनिबर्हणम्
अरि [m]
सुरारिविनिबर्हणम्
विनिबर्हण [adj]
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् । जघान दोर्भ्यां संक्रुद्धः प्रयुतानि चतुर्दश ॥
English Translation
In the great battle between the gods and the Asuras, this companion that Sthanu gave, worked up with ire killed with his hands alone, fourteen millions of Daityas of terrible deeds. were
Morphemic Decomposition & Padaccheda
स
तद् [pron]
हि
हि [ind]
देवासुरे
देवासुर [adj]
युद्धे
युद्ध [n]
दैत्यानां
दैत्य [m]
भीमकर्मणाम्
भीम [adj]
भीमकर्मणाम्
कर्मन् [n]
जघान
हन् [6. P.]
दोर्भ्यां
दोस् [n]
संक्रुद्धः
संक्रुध् [4. Ā.]
प्रयुतानि
प्रयुत [n]
चतुर्दश
चतुर्दशन् [adj]
तथा देवा ददुस्तस्मै सेनां नैरृतसंकुलाम् । देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम् ॥
English Translation
The god then made over to Skanda he celestial host, invincible containing many celestial troops, capable of destroying the enemies of the gods and of forms like that of Vishnu.
Morphemic Decomposition & Padaccheda
तथा
तथा [ind]
देवा
देव [m]
ददुस्तस्मै
दा [1. Ā.]
ददुस्तस्मै
तद् [pron]
सेनां
सेना [f]
नैरृतसंकुलाम्
नैरृत [m]
नैरृतसंकुलाम्
संकुल [adj]
देवशत्रुक्षयकरीम्
देव [m]
देवशत्रुक्षयकरीम्
शत्रु [m]
देवशत्रुक्षयकरीम्
क्षय [m]
देवशत्रुक्षयकरीम्
कर [adj]
अजय्यां
अजय्य [adj]
विश्वरूपिणीम्
विश्व [pron]
विश्वरूपिणीम्
रूपिन् [adj]
जयशब्दं ततश्चक्रुर्देवाः सर्वे सवासवाः । गन्धर्वयक्षरक्षांसि मुनयः पितरस्तथा ॥
English Translation
The gods then, with Vasava at their head and the Gandharvas, the Yakshas, the Rakshasas, the Munis and the Pitris, all exclaimed-"Victory of Skanda.'
Morphemic Decomposition & Padaccheda
जयशब्दं
जय [m]
जयशब्दं
शब्द [m]
ततश्चक्रुर्
ततस् [ind]
ततश्चक्रुर्
कृ [2. Ā.]
देवाः
देव [m]
सर्वे
सर्व [pron]
सवासवाः
स [ind]
सवासवाः
वासव [m]
गन्धर्वयक्षरक्षांसि
गन्धर्व [m]
गन्धर्वयक्षरक्षांसि
यक्ष [m]
गन्धर्वयक्षरक्षांसि
रक्षस् [n]
मुनयः
मुनि [m]
पितरस्तथा
पितृ [m]
पितरस्तथा
तथा [ind]
यमः प्रादादनुचरौ यमकालोपमावुभौ । उन्माथं च प्रमाथं च महावीर्यौ महाद्युती ॥
English Translation
Then Yama gave him two companions, both of whom resembled Death, viz., Unmatha and Pramatha, endued with great energy and splendour.
Morphemic Decomposition & Padaccheda
यमः
यम [m]
प्रादाद्
प्रदा [3. Ā.]
अनुचरौ
अनुचर [m]
यमकालोपमावुभौ
यम [m]
यमकालोपमावुभौ
काल [m]
यमकालोपमावुभौ
उपम [adj]
यमकालोपमावुभौ
उभ् [pron]
उन्माथं
उन्माथ [m]
च
च [ind]
प्रमाथं
प्रमाथ [m]
च
च [ind]
महावीर्यौ
महत् [adj]
महावीर्यौ
वीर्य [n]
महाद्युती
महत् [adj]
महाद्युती
द्युति [f]
सुभ्राजो भास्करश्चैव यौ तौ सूर्यानुयायिनौ । तौ सूर्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान् ॥
English Translation
Endued with great prowess, Surya, gladly gave Kartikeya two of his followers named Subhraja and Bhasvara.
Morphemic Decomposition & Padaccheda
सुभ्राजो
सुभ्राज [m]
भास्करश्चैव
भास्कर [m]
भास्करश्चैव
च [ind]
भास्करश्चैव
एव [ind]
यौ
यद् [pron]
तौ
तद् [pron]
सूर्यानुयायिनौ
सूर्य [m]
सूर्यानुयायिनौ
अनुयायिन् [adj]
तौ
तद् [pron]
सूर्यः
सूर्य [m]
कार्त्तिकेयाय
कार्त्तिकेय [m]
ददौ
दा [1. Ā.]
प्रीतः
प्री [9. Ā.]
प्रतापवान्
प्रतापवत् [adj]
कैलासशृङ्गसंकाशौ श्वेतमाल्यानुलेपनौ । सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च ॥
English Translation
Soma also gave him two companions, viz., Mani and Sumani, both of whom looked like summits of tea Kailasa mountain and always used white garlands and white unguents.
Morphemic Decomposition & Padaccheda
कैलासशृङ्गसंकाशौ
कैलास [m]
कैलासशृङ्गसंकाशौ
शृङ्ग [n]
कैलासशृङ्गसंकाशौ
संकाश [m]
श्वेतमाल्यानुलेपनौ
श्वेत [adj]
श्वेतमाल्यानुलेपनौ
माल्य [n]
श्वेतमाल्यानुलेपनौ
अनुलेपन [n]
सोमो
सोम [m]
ऽप्यनुचरौ
अपि [ind]
ऽप्यनुचरौ
अनुचर [m]
प्रादान्मणिं
प्रदा [3. Ā.]
प्रादान्मणिं
मणि [m]
सुमणिम्
सुमणि [m]
एव
एव [ind]
च
च [ind]