Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 06

Prakāśa 6: विभक्त्यर्थादिचतुष्टयप्रकाशः

प्रकाशः 6 • विभक्त्यर्थादिचतुष्टयप्रकाशः

Prakāśa 6 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 595 Verses • Citations: SP 6.1–595 • 4 Lexicon Terms • Page 12 of 20 (Verses 30 shown)
सामानाधिकरण्यादिव्यवहारश्‍च मुख्यया।
वृत्त्योपपद्यमानस्सन्नन्यथा योजयिष्यते॥ ४६॥
तदिदमुक्तं भगवताक्षपादेन, 'व्यक्त्याकृतिजातयस्तु पदार्थ' (न्यायसू. २.२.६५) इति। तुशब्दो विशेषार्थः; किं विशेष्यते? गुणप्रधानभावस्यानियमेन शब्दार्थत्वम्। अतः स्थितेऽपि तद्वतो वाच्यत्वे क्‍वचित्प्रयोगे जातेः प्राधान्यं व्यक्तेरङ्गभावः, यथा गौः पदा न स्प्रष्टव्येति सर्वगवीषु प्रतिषेधोऽवगम्यते। क्वचिद्‍व्यक्तेः प्राधान्यं जातेरङ्गभावः, यथा गां मुञ्च गां बधानेति नियतां कांचिद्‍व्यक्तिमुद्दिश्‍य प्रयुज्यते। क्‍वचिदाकृतेः प्राधान्यं व्यक्तेरङ्गभावः, जातिस्तु नास्त्येव। यथा पिष्टमय्यो गावः क्रियन्तामिति, तत्सन्निवेशचिकीर्षया प्रयोग इति। गुणशब्दास्तु केचित् स्वजात्यवच्छिन्नं गुणमभिधाय तावत्येव विरमन्ति। केचित्तु 'गुणमभिधाय द्रव्यमप्याक्षिपन्ति।' तत्सामानाधिकरण्ये प्रयोगदर्शनात्। तद्यथा—
गुणैकनियतास्तावद् गन्धरूपरसादयः।
गन्धत्वादिव्यवच्छिन्नगन्धादिगुणवाचिनः॥ ४७॥
तेषां न द्रव्यपर्यन्ता वृत्तिः क्‍वचन दृश्‍यते।
न गन्धः पद्ममित्यस्ति सामानाधिकरण्यधीः॥ ४८॥
गुणं शुक्‍लादिशब्दास्तु कथयन्तस्तदाश्रयम्।
द्रव्यमप्याक्षिपन्त्येव शुक्‍लोऽश्व इति दर्शनात्॥ ४९॥
क्रियाशब्दास्तु विविधाः केचित्कर्तरि कर्मणि।
करणे च प्रयुज्यन्ते केचिद्भावेऽवधावपि॥ ५०॥
कर्त्रादिवचनास्तावन्निमित्तीकृत्य कांचन।
क्रियां तद्योगिनि द्रव्ये वर्तन्ते पाचकादयः॥ ५१॥
यत्रापि तत्क्रियायोगस्तदानीं नोपलभ्यते।
तत्रापि योग्यतां दृष्ट्वा शब्दं सन्तः प्रयुञ्जते॥ ५२॥
अन्ये पूर्वापरीभूतस्वभावपरिहारतः।
सिद्धरूपतया प्राहुः शूब्दाः पाकादयः क्रियाम्॥ ५३॥
अन्यत्प्रवृत्तौ शब्दस्य निमित्तमवगम्यते।
अभिधेयं ततश्‍चान्यदित्ययं प्रथमः क्रमः॥ ५४॥
पाचकादिशब्दांनां हि प्रवृत्तिनिमित्तं क्रिया। अभिधेयास्तु कर्त्रादयः।
क्‍वचित् पुनर्यदेवास्य स्यात् प्रवृत्तिनिबन्धनम्।
तस्यैव वाच्यता भावप्रत्ययान्तपदेष्विव॥ ५५॥
इतीयं लेशतस्तावन्नाम्‍नां वृत्तिरुदाहृता।
आख्यातानां तु वाच्योऽर्थः पुरस्तादुपवर्णितः॥ ५६॥
उपसर्गनिपातानां नाम्‍नामप्यविभागतः।
प्रयोगप्रतिपत्तिभ्यामनेकोऽर्थोऽवगम्यते॥ ५७॥
उपसर्गवशाद्‍धातुरर्थान्तरविलासकृत्।
विहाराहारसंहारप्रहारपरिहारवत्॥ ५८॥
अन्वयव्यतिरेकाभ्यां तदर्थोऽभ्यवगम्यते।
तदागमे तत्प्रतीतेस्तदभावे तदग्रहात्॥ ५९॥
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →