Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 06

Prakāśa 6: विभक्त्यर्थादिचतुष्टयप्रकाशः

प्रकाशः 6 • विभक्त्यर्थादिचतुष्टयप्रकाशः

Prakāśa 6 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 595 Verses • Citations: SP 6.1–595 • 4 Lexicon Terms • Page 2 of 20 (Verses 30 shown)
मुखेन राहोरभियोक्‍तुमुद्यतं कलावतो बिम्बमिव व्यराजत॥ ३॥
कारकेभ्योऽन्यत्वे उपात्तक्रियोऽनुपात्तक्रियश्‍च।
तयोराद्योऽन्नस्य हेतोर्वसतीति यथा— (रघु.२.४७)
एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्‍च।
अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम्॥ ४॥
द्वितीयो ब्राह्मणस्य तुल्य इति यथा— (रघु. ६.७९)
कुलेन कान्त्या वयसा नवेन गुणैश्‍च तैस्तैर्विनयप्रधानैः।
त्वमात्मनस्तुल्यममुं वृणीष्व रत्‍नं समागच्छतु काञ्चनेन॥ ५॥
कारकविवक्षायां द्रव्यापेक्षः क्रियापेक्षश्‍च।
तयोराद्यः साधोः स्वं धनं रोचत इति यथा— (माघ.१०.२३)
दत्तमात्तमदनं दयितेन व्याप्‍तमातिशयिकेन रसेन।
सस्वदे मुखसुरं प्रमदानां नाम रूढमपि च व्युदपादि॥ ६॥
द्वितीयो न माषाणामश्‍नीयादिति यथा—(कुसं. ५.८३)
निवार्यतामालि! किमप्यसौ वटुः पुनर्विवक्षुः सफुरितोत्तराधरः।
न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यस्स पापभाक्॥ ७॥
सहार्थतादर्थ्यहेतुलक्षणोपपदसम्बोधनादयस्तु सम्बन्धविशेषा उपस्काराधिकारेऽ— भिहिता (द्र.पृ.२६५) इति नेह प्रतन्यते। ननु च सम्बन्धस्य क्रियाकारकपूर्वकत्वात् कारकेष्वेव शेषसम्बन्धस्याप्यन्तर्भाव इति सङ्ख्या शक्तिश्‍च विभक्‍त्यर्थः।
तत्र जातौ पदार्थे जात्यभिधायिनः प्रातिपदिकस्य सङ्ख्याकारकाभिधायिन्या विभक्‍त्या सम्बन्धो न घटते। न हि जातेः सङ्ख्याशक्तियोगस्संभवति।
उच्यते, जात्यविनाभावेन लक्षिताया व्यक्तेः सङ्ख्याशक्तियोगादेकार्थसमवाय— लक्षणस्सम्बन्धो भविष्यति।
नैवम्; यथानन्त्यव्यभिचाराभ्यां भेदवतीं व्यक्तिमशक्ताः प्रकृतयोऽभिधातुमित्य— भिन्नामव्यभिचारिणीं च जातिमाचक्षते, तथाधारभेदाद्‌भिन्नमानन्त्यभिचाराभ्यामशक्ता विभक्तयः शक्तिं सङ्ख्यां चाख्यातुम् अतस्तदाधारं शक्तिसङ्ख्याजातिमाचक्षते। ततश्‍च प्रकृत्यर्थसम्बन्धाया अपि व्यक्तेर्विभक्त्यर्थेन शक्तिसङ्ख्यासामान्येनासम्बन्धादनुपपन्न एव प्रकृतिप्रत्यययोः समभिव्याहारः।
नानुपपन्नः, एकार्थसमवेतसमवायेन तदुपपत्तेः।
कथं पुनस्सामान्याभिधानेनाभिधीयमानयोस्सङ्ख्याद्रव्ययोः परस्परेण सम्बन्धः? यथाभिधीयमानयोः। यथा शब्देनाभिहितावर्थौ बुद्धौ विपरिवर्तमानौ मिथस्सम्बध्येते तथा शब्देनाभिहितादर्थात् प्रतीयमानावपि परस्परेण सम्बन्धमनुभविष्यत इति।
किं पुनरियं सङ्ख्या शक्तिर्वा नियोगतो जातिमवच्छिनत्ति ?
नेत्याह। न हि ग्रहं समार्ष्टीति श्रूयमाणमेकवचनमेकत्वसङ्ख्यां क्रियाङ्गभावेन प्रतिपादयति। नापि सक्तून् जुहोतीति द्वितीया श्रुतिः सक्तूनां होमक्रियायां कर्मशक्तिमभिधत्ते। अपि त्वक्षान्दीव्यतीतिवत् संबन्धसामान्यतिरोहितकर्मरूपान् सक्तून् साधकतमत्वेन होमकर्मणि नियुङ्क्ते। क्‍वचित्तु तद्रूपयैव विभक्तिश्रुत्या संख्याकर्मादिशक्तीनां क्रियास्वङ्गभावोऽवबोध्यते, यथा पशुमालभेत व्रीहीनहन्तीति।
कुतः पुनरिदं श्रुत्युपात्ते अपि क्‍वचिदेव सङ्ख्याशक्ती विवक्ष्यते ?
तत्र तावत् सङ्ख्यां प्रति श्रूयते— १सत्त्वभूतम् इदंतदिति व्यपदेशयोग्यं वस्तु न शक्यते सङ्ख्यान्तरेण शब्दैरभिधातुम्२, ससंख्यानामेव शब्दानां सत्त्वाभिधायकत्वात्; अतो नान्तरीयकमुपादानं संख्याया इति।
सत्त्वनिर्देशे संख्या न विवक्ष्यते, यथा ब्राह्मणो न हन्तव्य इति३। एवं च जात्यापि विना वस्तुमात्रस्य संप्रमुग्धत्वाद् विवेकेनाभिधानमशक्यम्। अतो नान्तरीयकं जात्युपादानमिति जातावप्यविवक्षा प्राप्‍नोति।
अपर४ आह— यत्र संख्यापदैरेकादिभिस्संख्या अभिधीयते, तत्र नियोगतः कर्माङ्गभावेन विवक्ष्यते, यथा एकां गां ददाति, द्वाभ्यां खनति (तैसं. ५.१.४१), त्रीन् पशूनालभत इति। एकादिशब्दरूपाद्‌धि सा प्रतीयमाना न शक्यमविवक्षितुम्। अन्यत्र तु शब्दसंस्कारमात्रापरत्वादेकवचनादेरविवक्षा, यथा गौः पदा न स्प्रष्‍टव्या (न्यायवा. २.२.६७)। एतदपि नास्ति 'यस्योभयं हविरार्तिमार्छेद्' इत्येवमादावुभयादि— शब्दोपादानादप्यविवक्षादर्शनात् (न्यायमं.)।
अन्ये मन्यन्ते 'जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्' (१.२.५३) इति ज्ञापकादेकवचनं, च न विवक्ष्यते। विवक्ष्यते। द्विवचनं विवक्ष्यते, यथा 'सारस्वतौ भवतः' (तैसं. २.४.६.१) इति।
तदप्ययुक्तं, द्विवचनस्यापि अविवक्षादर्शनात्। यथा— (वाप जाति ३.१.५३)
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →