Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 06

Prakāśa 6: विभक्त्यर्थादिचतुष्टयप्रकाशः

प्रकाशः 6 • विभक्त्यर्थादिचतुष्टयप्रकाशः

Prakāśa 6 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 595 Verses • Citations: SP 6.1–595 • 4 Lexicon Terms • Page 16 of 20 (Verses 30 shown)
ननु क्रियाकारकसंबन्धव्यतिरेकेण कोऽन्यः कर्मणः पुरुषस्य च सम्बन्धः?
उच्यते— ममेदं कृत्यम् अहमत्र स्वामीति स्वस्वामिभावमशक्यम् (अवगत्य) पाश्‍चात्त्यक्रियाकारकसम्बन्धो गम्यते।
पाश्‍चात्त्य इत्यत्र किं प्रमाणमिति चेत् अनुपादेयविशेषणविशिष्‍टस्य पुंसो निर्देशस्तस्मादधिकृतस्य कर्तृत्वं, कर्तुरधिकार इति। इत्थं च स्वर्गकामस्याधिकारो निर्वहति। यदि तत्कर्म स्वर्गकामं स्यात् स्वर्गोऽपि भोग्यो भवेत्। कथमहं स्वर्गं प्राप्नुयामित्येवं साध्यत्वेन स्वर्गमिच्छन् स्वर्गकाम उच्यते। यदि च न स्वर्गसाधनं कर्म स्यात् तद्विरुद्धमिदमापतति स्वर्गं कामयते यागं करोति, अन्यदिच्छत्यन्यत्करोतीति। अतः कर्मणि काम्यमाने साधनताम् (अ)प्रतिपद्यमानः स्वर्गकामस्तत्र नैवाधिक्रियते। न चानधिक्रियमाणस्तत्र सम्बध्यते। तदेवमधिकृतत्वेन स्वर्गकामस्य कर्मणि सम्बन्धात् स्वर्गयागयोश्‍च साध्यसाधनभावावगममन्तरेणाधिकास्यानिर्वाहाद् अवश्यं क्रियायां साधनत्वं स्वर्गस्य च साध्यतवमभ्युपगन्तव्यम्। अतश्‍च क्रियायाः फलं प्रति गुणभावादप्राधान्यम्, अप्राधान्याच्च न वाक्यार्थत्वम्। तदुक्तम् "कर्माण्यपि हि जैमिनिः फलार्थत्वाद्" इति। का चेयं क्रिया? वाक्यार्थ इत्युच्यते य एष यागादिर्भावार्थो धातुवाच्यः, उत प्रत्ययार्थः, कश्‍चिदतिरिक्त इति। तत्र भावार्थस्य काम्यमानसाधनत्वादप्राधान्यमुक्तमेव। प्रत्ययार्थस्तु काम्यमानभावार्थगतसाध्यसाधन— सम्बन्धापरित्यागेनैव वाक्‍यार्थतां प्रतिपद्यते। तस्मान्न क्रियामात्रपर्यवसायी वाक्‍यार्थ इति।
किमिदानीं फलस्यैव वाक्‍यार्थत्वं प्रचक्ष्महे।
तद्धि प्रधानं साध्यं च तदर्थो ह्यखिलः श्रमः॥ ७८॥
नैवम्; यथा क्रियायाः फलार्थत्वादप्राधान्यम् एवं फलस्यापि पुरुषार्थत्वात्। न हि स्वर्गः स्वतन्त्र एव सत्तां लभतामिति पुरुषो यतते, अपि तु स्वोपभोग्यतयैनमभिलषति। तदाह — "फलं च पुरुषार्थत्वात्" (मीसू. ३.१.५)।
तर्हि पुरुष एव वाक्‍यार्थो भवतु।
नैवम्; 'यजमानेन संमितौदुम्बरी भवति' इति तस्यापि क्रियाङ्गत्वात्। तदाह 'पुरुषश्‍च कर्मार्थत्वात्' इति (मीसू. ३.१.६)। हन्तैवं क्रिया फलार्था, फलं पुरुषार्थं, पुरुषः क्रियार्थ' इति चक्रके पतिताः कस्य प्राधान्यं शिष्मः?
उच्यते— पुरुषस्तावन्न वाक्‍यार्थः, पदार्थानां मिथः संसर्गेऽपि अव्ययकारक— विशेषणार्थोपगृहीतस्याख्यातार्थस्यैव प्राधान्येन वाक्‍यार्थत्वात्।
ननु चाख्यातेऽपि यजेतेत्येवमादौ कर्तर्येव लकारः?
सिद्धं हि साध्यायोपादीयत' इति प्रत्ययार्थोऽपि कर्ता प्रकृत्यर्थे क्रियायामेव न्यग्भवति। फलमपि न वाक्‍यार्थः सिद्धासिद्धविकल्पानुपपत्तेः। सिद्धस्य तावत् फलस्याभिधानमेव नास्ति, काम्यमानत्वेन निर्देशात्।
साध्यमानत्वपक्षे तु साक्षात् तत्सिद्धयवेदनात्।
व्यापार एव तन्निष्ठो वाक्‍यार्थ इति युज्यते॥ ७९॥
अत एव हि वाक्‍यार्थं भावनां प्रतिजानते।
यथोचितफला मंशत्रयसम्बन्धबन्धुराम्॥ ८०॥
भाव्यनिष्ठो हि भावकव्यापारो भावनेति।
सैष द्वादशभेदोऽर्थः क्रियादिः प्राक्‍प्रकीर्तितः।
वाच्यो विशेष्यः शब्दस्य प्रत्याय्यो ह्यभ्युपेयते॥ ८१॥
न चैतद्‌वाच्यं— 'वाक्‍यस्यैव प्रत्यायकत्वं न पदानां, यतो यथा गुडशब्दो गुडद्रव्यमभिधत्ते तथा प्रत्याययत्यपि तदविनाभावि माधुर्यम्। यदि वा पदान्येव संहत्यार्थमभिदधति वाक्‍यम् (शाभा. ३.३.१४), आख्यातशब्दो वाक्‍यम्, पदसङ्घातो वाक्‍यमित्यपि दर्शनानि विद्यन्ते। क्रियादयश्‍च पदार्थ एवान्तर्भवन्ति। तथा हि— धात्वर्थः क्रिया, तां कालो विशिनष्टि, प्रत्ययार्थः कारकम्, तत् पुरुषो विशेषयति। तस्योभयस्याप्युपाधयोऽवच्छेदका भवन्ति। सम्भूय प्रकृतिप्रत्ययौ प्रत्ययार्थं ब्रूतः। यं तं प्रधानमामनन्ति स भेदाभेदाभ्यामुपस्कारार्थविशिष्टप्रातिपदिकार्थव्यपदेशं लभते। तस्य शक्तिसङ्ख्याभिव्यक्तये विभक्तिः, तदन्तं पदं, पदानामपदानां च सामर्थ्ये वृत्तिः, वृत्तानामपि च कृत्तद्धितसमासानां पुनः प्रातिपदिकसंज्ञायां सुबुत्पत्तेः पदसंज्ञेति।
वाक्‍यं पुनरखण्डवाक्‍यार्थपक्षे वाचकमपि भवति। तत्र शब्दस्यार्था— भिधानसामर्थ्यं वाचकता। सा त्रिधा—मुख्या, गौणी, लक्षणा च। यथा गौर्गच्छति, गौर्बाहीकः, गोषु निवसतीति। आसां च विशेषान् विशेषेणाग्रतो वक्ष्यामः। तेषु प्रबुद्धेषु प्रबुद्धाप्रबुद्धैः प्रसिद्धपदसामानाधिकरण्योपदेशवृद्धव्यवहारेभ्योऽधिगतेषु संज्ञासंज्ञिसम्बन्धबलेन शब्दस्तटस्थ एव गोत्वमर्थं प्रत्याययति। तदाहुः—
प्रसिद्धपदसामानाधिकरण्यात् प्रतीयते।
अप्रसिद्धपदस्यार्थश्चूते रौति पिको यथा॥ ८२॥
तथा हि रौति यश्चूते पिकः स इति निश्‍चयः।
उपदेशाद् यथार्थोऽयं पनसाख्यः प्रकाशते॥ ८३॥
व्यवहारात् तु शब्दार्थसम्बन्धस्त्रिप्रमाणकः।
वृद्धशब्दाभिधेयानि प्रत्यक्षेणात्र पश्‍यति॥ ८४॥
श्रोतुश्‍च प्रतिपन्नत्वमनुमानेन चेष्टया।
अन्यथानुपपत्तौ च वेत्ति शक्तिं द्वयाश्रयाम्॥ ८५॥
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →