Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 06

Prakāśa 6: विभक्त्यर्थादिचतुष्टयप्रकाशः

प्रकाशः 6 • विभक्त्यर्थादिचतुष्टयप्रकाशः

Prakāśa 6 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 595 Verses • Citations: SP 6.1–595 • 4 Lexicon Terms • Page 20 of 20 (Verses 25 shown)
१. तात्पर्यमेव वचसि ध्वनिरेव काव्ये सौभाग्यमेव गुणसम्पदि वल्लभस्य।
लावण्यमेव वपुषि स्वदतेऽङ्गनायाः श्रृङ्गार एव हृदि मानवतो जनस्य॥ १०६॥
कः पुनः काव्यवचसोः ध्वनितात्पर्ययोर्विशेषः?
२. यदवक्रं वचश्शास्त्रे लोके च वच एव तत्।
वक्रं यदर्थवादादौ तस्य काव्यमिति स्मृतिः॥ १०७॥
३. यदभिप्रायसर्वस्वं वक्तुर्वाक्‍यात् प्रतीयते।
तात्पर्यमर्थधर्मस्तच्छब्दधर्मः पुनर्ध्वनिः॥ १०८॥
४. सौभाग्यमिव तात्पर्यमान्तरो गुण इष्यते।
वाग्देवताया लावण्यमिव बाह्यस्तयोर्ध्वनिः॥ १०९॥
५. अदूरविप्रकर्षात् तु द्वयेन द्वयमुच्यते।
यथा सुरभिवैशाखौ मधुमाधवसंज्ञया॥ ११०॥
६. विभक्‍त्यर्थोऽथ वृत्त्यर्थः पदार्थश्‍चोपवर्णितः।
भावनादिप्रभेदेन वाक्‍यार्थश्‍च प्रकीर्तितः॥ १११॥
७. क्रियायाश्‍च पदार्थत्वाद् वाक्‍यार्थत्वमपाकृतम्।
कृतं च भावनायास्तदपदार्थत्वहेतुकम्॥ ११२॥
८. वाच्या विशेष्याः प्रत्याय्याः शब्दस्योक्ताः क्रियादयः।
अध्यासविपरीणामविवर्ताश्‍चास्य तान् प्रति॥ ११३॥
९. विभक्तिवृत्त्यर्थवतोरुपस्क्रियाप्रधानयोर्धाम पदार्थ इष्यते।
पदं पदार्थस्य तु वाक्‍यगोचरो भवेद् यतोऽर्थस्तदतो निरूप्यते॥ ११४॥
इति महाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे विभक्‍त्यर्थादिचतुष्टयप्रकाशो नाम
साहित्यविद्याध्ययनाब्धिमन्थमन्थाचलः कोऽपि सनातनोऽहम्।
प्रकाशमेतं प्रतिमुच्य दोषाच्छरावतो दीपमिवास्मि तुष्टः॥
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →