ननु मन्त्रेणानुप्रविशता किं कृतम् ?
न किञ्चित्कृतम्। सामग्र्यन्तरं तु सम्पादितम्। काचिद्धि सामग्री कस्यचित्कार्यस्य हेतुः स्वरूपं तदवस्थमेवेति चेदभक्षितमपि विषं कथं न हन्यात् ? तत्रास्यसंयोगाद्यपेक्षणीयमस्ति। मन्त्राभावोऽप्यपेक्ष्यताम्। दिव्यकाले धर्म इव मन्त्रोऽप्यनुप्रविष्टः कार्यं प्रतिहन्ति। शक्तिपक्षेऽपि वा मन्त्रस्य को व्यापारः ? मन्त्रेण हि शक्तेर्नाशो वा क्रियते प्रतिबन्धो वा ? न तावन्नाशः, मन्त्रापगमे पुनः कार्यदर्शनात्। प्रतिबन्धस्तु स्वरूपस्यैवास्तु।
ननु स्वरूपस्य कि जातम् ?
शक्तेरपि किं जातम् ?
कार्यौदासीन्यमिति चेत्तदितरत्रापि समानं स्वरूपमस्त्येव, दृश्यमानत्वात्। शक्तिरप्यस्ति पुनः कार्यदर्शनानुमेयत्वात्। एतेन चक्षुःश्रोत्रयोरपि रोगादिना दर्शनश्रवणशक्तेर्नाशप्रतिबन्धविकल्पो व्याख्यातः। अपि च व्यापारोऽपि अतीन्द्रिय— शक्तिवदिष्यते भवद्भिः; अन्यतरकल्पनयैव च कार्योपपत्तेः किमुभयकल्पनागौरवेण ?
शक्तमप्यव्याप्रियमाणं न कारकमिति चेत् शक्तमिति कथं ज्ञायेत ?
कार्यदर्शनादिति चेद् व्यापारादेव कार्यं सेत्स्यति। पादुकादेर्व्याप्रियमाणादपि न पादपच्छेदं पश्यामि। प्रत्यक्षस्तर्हि व्यापारो नातीन्द्रियः यतः कार्यदर्शनात् पूर्वमपि व्याप्रियमाणत्वं जानासि। कार्यानुमेयो हि व्यापारः कार्याद् विना न ज्ञायेतैव। कार्यं त्वन्यतरस्मादपि घटमानं नोभयं कल्पयितुं प्रभवतीत्यसम्भवः। शक्तेरिति चेदत्रोच्यते स्वरूपं स्वरूपमिति यदब्रूषे तत्र किमिदं स्वरूपं नाम ? न तावद्द्रव्यं; द्रव्यस्य स्वरूपमिति भेदेनाभिधानात्। किं पुनस्तत् ? सजातीयेभ्यो विजातीयेभ्यश्च भेदको धर्म इति नस्तर्कः। तं हि भवन्तोऽपि अर्थतत्त्वं भावतत्त्वमिति भावप्रत्ययेन भाषन्ते। स च यस्य गुणस्य भावाद्द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ (५.१.११९) इति गुणाभिधाने स्मर्यते। गुणो धर्मः सामर्थ्यमर्थक्रियाकारित्वमतिशयश्शक्तिरिति चौकोऽर्थः।
स तु द्रव्याद् विभिन्नो वा द्रव्यस्यात्मैव वा तथा।
व्यतिरेकमुपाश्रित्य साधनत्वाय कल्पते॥ १०॥
(वाप.३.७.१५)
परस्परतो हि व्यावर्तमानशरीराः करणादयस्साधनभेदाः कथमेकद्रव्यात्मता— मुपयन्तो न सङ्कीर्येरन् ? असङ्करे वा कथममीषामेकद्रव्यात्मता युज्यते ? तस्मादेकद्रव्याधि करणा करणादिप्रतीतिरेवास्या द्रव्याद् भेदमापादयति। किञ्च
विभक्त्यर्थेऽव्ययीभाववचनादवसीयताम्।
अन्यो द्रव्याद् विभक्त्यर्थस्सोऽव्ययेनाभिधीयते॥ ११॥
(वाप. ३.७.१६५)
तथा हि— विभक्त्यर्थे वर्तमानमव्ययमुत्तरपदेन समस्यते। यदि च विभक्त्यर्थ इत्यनेन शक्त्याश्रयस्सत्त्वभूतं द्रव्यमुच्यते, तदसत्त्ववाचिनाव्ययेन नाभिधीयेत। तस्य चार्थस्य प्रातिपदिकेनैवोक्तत्वात् तदभिधाय्यव्ययमप्रयोहगार्हमेव स्यात्। एवं च अधिस्त्रि, अधिकुमारीति न सिध्येत्। यत्र हि पदद्वयं सङ्गतार्थं प्रयुज्यते स विषयस्समाससंज्ञायाः। तस्मादनभिहितामधिकरणशक्तिमव्ययमभिदधत्तुरपदेन समासमनुभवति। तेन चावधार्यते द्रव्यातिरिक्तां शक्तिममभिधत्ते विभक्तिरिति। भवतोऽपि युक्तमेवोच्यते। स्वरूपादुद्भवत् कार्यं ततोऽन्यां शक्तिमशक्तं कल्पयितुमिति। यतः शक्तिवादिनोऽपि गुणादिशब्दवाच्यात् कारकत्वादेर्द्रव्यस्य स्वरूपान्न शक्तिमन्यां मन्यन्ते। किन्तु कार्योपजनायार्थव्यक्तयः क्षमा इति न क्षमन्ते; सर्वस्मादपि कार्योदयप्रसङ्गात्। स्वकारणपरम्परायातनियतस्वभावतां तु न विद्मः। कारणगुणोत्थः पदार्थातिशय इति चेत् सैव शक्तिः। तस्यास्तु नित्यत्वानित्यत्वविकल्पो नोपयुक्तः; यावद्द्रव्यभावित्वे न द्रव्यवदेव नित्यानित्यत्वात् सर्वदा कार्योत्पादः, क्रियाकाल एव शक्तेरुन्मेषात्। अदृष्टप्रतिनियतसहकार्यादयस्तु शक्त्युन्मेषहेतवो नास्माभिरपि निराक्रियन्ते। येन तूपादाननियमे अन्वयव्यतिरेकौ वृद्धव्यवहारादृतेऽपि कार्यदर्शनावसेयशक्तिमूलावेव; वृद्धैरप्यन्वयव्यतिरेकाभ्यां तथैव कारणत्वावगमात्। नाशः शक्तेः प्रतिबन्धो वा मन्त्रादिनेत्यादिविकल्पस्तु स्वरूपस्य शक्तित्वसिद्धौ निषिद्ध एव भवति। व्यापारस्तु धातुवाच्य एवातीन्द्रियो न वास्तवः। तेन कार्यदर्शनान्यथानुपपत्तिकल्पिता शक्तिरतीन्द्रियोपपन्नतरैवेति।
(१०. वृत्त्यर्थः)
वृत्त्यर्थास्रिधा — १. अपदार्थः, २. एकपदार्थः, ३. अनेकपदार्थश्च।
(१. अपदार्थः)
तत्राऽपदार्थस्त्रिधा— धातुप्रत्ययार्थीयः, प्रत्ययप्रत्ययार्थीयः, प्रातिपदिकप्रत्ययार्थीयश्च। तेषु —
धातुप्रत्ययार्थीयो द्विधा— क्रियारूपः, कारकरूपश्च। तयोः—
क्रियारूपो यथा कर्तुमिच्छति चिकीर्षति, कुर्वन्तं प्रयुङ्क्ते कारयति, अत्यर्थं पुनः पुनः पचति पापच्यते।
कारकरूपो यथा पाकं करोति पचति, पाकेन क्रियते पच्यते, पाचकः पक्तव्यमिति।
प्रत्ययप्रत्ययार्थीयो द्विधा— नित्यो वैवक्षिकश्च। तयोः—
नित्यो यथा कृत्रिमं, सांराविणम्, व्यापक्रोशी, भिदा, आभिजित्यः कौञ्जायन्य इति।
वैवक्षिको यथा चिकीर्षुः, कारणा, गार्ग्यायणः, काल्याणिनेयः, मालायाः, कुमार्या इति।
प्रातिपदिकप्रत्ययार्थीयो द्विधा— व्यक्तिरूपः, शक्तिरूपश्च। तयो—
व्यक्तिरूपो यथा अजा, कुमारी, ब्रह्मबन्धुः, वृक्षः वृक्षौ वृक्षा इति।
शक्तिरूपो यथा वृक्षं, वृक्षेण, वृक्षाय, वृक्षात्, वृक्षे, वृक्षस्येति।
(२. एकपदार्थः)
एकपदार्थस्त्रिधा— वस्तुरूपः, अवस्तुरूपः, क्रियारूपश्च। तेषु—