यशोऽनुरागयोर्वर्णप्रक्लृप्तिरवगम्यते॥ ९३॥
वधूशब्देन तु दिशां नायिकात्वं प्रतीयते।
न च सम्बन्धगन्धोऽपि वास्तवस्तेषु विद्यते॥ ९४॥
तदुपज्ञं चैष लौकिकः प्रवादः—
अतहट्ठिए वि तह तह संठिए व्व हिअअम्मि जा णिवेसेइ।
अत्थविसेसे सा जअइ विअडकइगोअरा वाणी॥ ९५॥
(अतथास्थितानपि तथासंस्थितानिव हृदये या निवेशयति।
अर्थविशेषान् सा जयति विकटकविगोचरा वाणी॥)
भवतु नाम शब्दस्य वाचकत्वपक्षे विवक्षानुप्रवेशादर्थातथात्वेऽपि तथा प्रत्यायकत्वम्। विशेषणपक्षे तु कथमिवैतदुपपद्यते? विशेषणेन हि प्रधानानुयायिनां भवितव्यम्, प्रधानेन त्वविचलितस्वार्थेन।
नैवं, विशेषणमपि शब्दानुरञ्जकत्वेनार्थमध्यासीनः कुतश्चिदुपाधेरन्यथाव— भासमानः स्वाश्रयमप्यन्यथावभासयति। तद्यथा—
मगधेषु स्तनौ पीनौ कलिङ्गेष्वक्षिणी शुभे।
बाहू प्रलम्बावङ्गेषु चरणौ मृदु॥ ९६॥
इति।
अत्र स्तनादयो जातिशब्दाः सव्यत्वदक्षिणत्वजातिद्वयैकार्थसमवायो— पाधेरेकत्वयोगिनोऽपि द्वित्वेनावभासमानाः स्वाश्रयानपि तथैवावभासयन्ति। एतेन व्यक्तौ पदार्थे बहूनामपि द्वित्वावभासो व्याख्यातः। तद्यथा—
दैत्याधिपप्राणमुषां नखानामुपेयुषां भूषणतां क्षतेन।
प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुरेनम्॥ ९७॥
(माघ.३.१४)
अत्र विशिष्टनखक्षतभूषादिविशेषोपादानात् सुव्यक्तैव स्तनशब्दस्य व्यक्त्यर्थतेति। एवं कदा पूर्वाः फल्गुन्य इति चन्द्रमसा सह योगे बहुत्वविवक्षायां द्वयोरपि बहुत्वेनावभासः, कदा तिष्यपुनर्वस् इति तारकानपेक्षनक्षत्रद्वितवविवक्षायां बहूनामपि द्वित्वेनावभासो भवति।
अथ यथा चन्द्रयोगस्याविवक्षायां तारकागतद्वित्वसङ्खया पूर्वे फल्गुन्याविति भवति, एवं चन्द्रमसा सह योगस्य तारकासङ्ख्याश्च विवक्षितत्वे भवितव्यं तिष्यपुनर्वसव इति; प्रयोगे तु न भवितव्यम्; न हि लोके तादृशी विवक्षा विद्यते; विवक्षा च कुलवधूरिव न लोकमर्यादामतिक्रामति। तद्यथा— (रघु. ३.१६)
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम्।
अदेयमासीद् द्वयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे॥ ९८॥
ननु चार्थोपाधेरप्यर्थोऽन्यथाभासमानो दृश्यते। तद्यथा—
पायाद् वो रचितत्रिविक्रमतनुर्देवः स दैत्यान्तको यस्याऽऽकस्मिकवर्धमान—वपुषस्तिग्मद्युतेर्मण्डलम्।
मौलौ रत्नरुचि श्रुतौ परिलसत्ताटङ्ककान्ति क्रमात् जातं वक्षसि कौस्तुभाभमुदरे नाभीसरोजोपनम्॥ ९९॥
ततश्च न ज्ञायते किमयमर्थोपाधिनिबन्धनोऽर्थस्यान्यथावभासः, उत शब्दोपाधिनिबन्धन इति।
चिरं जीव, यदवतीर्ण इव प्रतिपाद्यार्थपदवीं दृश्यसे; पृच्छाम्यायुष्मन्तं क एषोऽर्थो नाम?
किं ब्रवीषि— 'यः शब्देन प्रतिपाद्यते'?
अथ गौरित्यत्र कः शब्दार्थः?
किमात्थ, 'सास्नादिमान् पिण्डः' इति ?
कथं स्वरूपमपि पृष्टः शब्देनैव व्यपदिशसि?