Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 06

Prakāśa 6: विभक्त्यर्थादिचतुष्टयप्रकाशः

प्रकाशः 6 • विभक्त्यर्थादिचतुष्टयप्रकाशः

Prakāśa 6 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 595 Verses • Citations: SP 6.1–595 • 4 Lexicon Terms • Page 10 of 20 (Verses 30 shown)
यच्चोक्तं — यथा जलादिभिरादर्शैरभिव्यक्ताश्‍चन्द्रादय एव चन्द्रादिशब्दैर— भिधीयन्ते, यथा चेन्द्रियभेदग्रहणमन्तरेणापि रूपादिविषयज्ञानभेदो भवति, तथा व्यक्तिभिरुपव्यञ्जिता जातय एव गवादिशब्दैरभिधीयन्ते, व्यक्तिग्रहणे च तदुपव्यञ्जना जातिर्ग्रहीष्यति (इति), तदपि न सम्यक्। यदा तावत् प्रतिबिम्बमुदकादिषु भावान्तरमेवोपजायत इथि दर्शनम्, तदा तद्रूपभेदानुपातिनः शब्दाः किमिति उदकादीनुपाददीरन् यतो नोदकादयस्तदानीं चन्द्रादीनामुपव्यञ्जनम्, अपि तु रूपजनन— कारणम्; न च कार्यवचनाः शब्दाः कारणसंस्पर्शमनुभवन्ति। यदा तु दर्शनविप्लवः स तादृश इति प्रतिपत्तिः, तदा दूरोत्सारितावकाशो व्यङ्ग्यव्यञ्जकभावः। यदा तर्हि जलाद्यादर्शप्रतिघातात् परावृत्ते चक्षुषि स्ववक्त्रवच्चन्द्रादयोऽपि दृश्‍यन्त इति दर्शनं तदैतदुपपत्स्यते। तदा ह्युदकादिवत् सन्निहितमुपव्यञ्जनं रूपभेदेन जातिमभिव्यक्तरूपभेदां दर्शयति। तदेव च शब्दोऽभिधत्ते। एतदप्यव्यभिचरितोपव्यञ्जनायत्तदर्शन(नाः) जातयः कथं विनोपव्यञ्जनैः प्रतीयन्त इति पर्यनुयोगो नातिचतुरश्रम्; चन्द्रादीनामन्यथापि दर्शनोपपत्तेः। एवं जातिभेदप्रतिपत्तावपि। यथा दर्शनादीन्द्रियायत्तोदयाः नीलाद्यर्थावसायाः कारणभेदमनु परिवर्तन्ते नैवं जातिपरिच्छेदाः व्यक्तिरूपप्रतिबद्धोत्पादाः, येन तद्‍भेदमनुविदध्युः। ततश्‍च गोत्वादयोऽपि परस्परतो न व्यावर्तेरन्। संवेद्यमानभेदश्‍च पदार्थः कथमकस्मादेक इति श्रद्धीयते?
व्यक्तेरेव पदार्थत्वं तस्मादभ्युपगम्यताम्।
तथा च बुद्धिस्तत्रैव श्रुतशब्दस्य जायते॥ २६॥
येषामर्थेषु सामान्यं न सम्भवति तैः पुनः।
उच्यते केवला व्यक्तिराकाशादिपदैरिव॥ २७॥
एवं डित्थादिशब्दानां संज्ञात्वविदितात्मनाम्।
अभिधेयस्य सामान्यशून्यत्वाद्‍व्यक्तिवाच्यता॥ २८॥
ये पुनः कल्पितानेकभेदवृत्तिं प्रचक्षते।
वाच्यं तत्रापि सामान्यमतीव ग्रहिलास्तु ते॥ २९॥
न हि डित्थत्वसामान्यं दृश्‍यते गगनत्ववत्।
कल्पनायाश्‍च ना(नो) भूमिः काचिदस्ति विपश्‍चिताम्॥ ३०॥
आकृतिरेव पदार्थ इति विन्ध्यवासिमतगन्धीयाः।
तत्राकृतिपदेनेह संस्थानमभिधीयते।
लोके शास्त्रे च दृष्टत्वान्न जातिर्जैमिनीयवत्॥ ३१॥
लोके यथा 'यत्राकृतिस्तत्र गुणा वसन्ति' इति। शास्त्रे यथा— 'आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक्॥' (मभा. ४.१.६३) इति॥
उभयत्रापि चाकृतिशब्देनावयवसन्निवेशविशेष उच्यते (न्यायमं.)। वृद्धाश्‍च व्यवहरन्ति यत्रार्थे यत्पदं प्रयुञ्जते त तस्यार्थो भवति। तत्र यदेष गोशब्दः सास्‍नादिमति प्रयुज्यते न केसरादिमति, तदयमसाधारणसन्निवेशविषयतां द्योतयति।
प्रत्यक्षविषये च गौरित्यादिपदं प्रयुज्यते। प्रत्यक्षं चाकृतिविषयम्। अश्वपिण्डसन्निवेशाद्धि विलक्षणो गोपिण्डसन्निवेश इन्द्रियेण प्रतीयते। तत्कृतमेव च वस्तूनामितरेतरवैलक्षण्यम्। अतः प्रत्यक्षविषये गौरित्यादिपदं प्रवर्तमानमाकृतावेव प्रवर्तितुमुत्सहते। अपि च 'श्‍येनचितं चिन्वीते'ति न जातिश्‍चीयते, न व्यक्तिः, अपि तु आकृतिरेव। प्रदीपप्रवाहादीनां च शब्दानामाकृतिरेवार्थोऽभ्युपेयः। न ह्येषामर्थेषु व्यवस्थितं जातिरूपं व्यक्तिरूपं वा समस्ति। यदि चाकृतिश्शब्दार्थो व भवेत्, कथमिव गवादिशब्दैः गवाद्याकारमेव ज्ञानं जन्येत? अपि (च) 'तानेव शाटकानाच्छादयामो ये पाटलिपुत्रे, तानेव शालीन्भुञ्ज्महे ये मधुरायाम्' (मभा.१.१.२) इति योऽयमेवंप्रकारो व्यवहारः, स आकृतावेव पदार्थे सङ्गच्छते। यच्च व्रीह्यादेर्मुख्यस्याभावे नीवारादिभिः प्रतिनिधिभिः कर्म समाप्यते तदाकृतेः अशब्दार्थत्वे समापितमप्यङ्गहीनत्वादफलमेव प्राप्‍नोति; नीवारादौ व्रीह्यादिजातिव्यक्‍त्योरभावात्। यश्‍चायमर्चादिप्रतिकृतौ वासुदेवादिशब्दप्रयोगः, सोऽप्याकृतावेव पदार्थे युज्यते। किंचात्यनतमदृष्टेष्वप्यर्थेषु शब्दाद् आकारविषयः प्रत्यय उपजायमानो दृश्‍यते। तद्यथा— इन्द्रः स्कन्दो वैश्रवण इति। तच्चाकृतेरेव शब्दार्थत्वे उपपद्यते। सम्बन्धग्रहणं चास्य जातिवदुपपत्स्यते, समस्तगवीष्वपि गोसंस्थानस्यैकरूपत्वात्। मुख्यगौणभावे तु प्रसिद्धिरप्रसिद्धिश्‍च नियामिका भविष्यति। प्रोक्षणादिक्रिया शुक्‍लादिगुणयोगश्‍च व्यक्तिद्वारा आकृतेरुपपत्स्यते। न चामूर्तत्वादाकृतेरक्रियाङ्गत्वं, अमूर्तानामपि गुणकर्मणां क्रियाङ्गत्वात्। अरुणया क्रीणाति, अभिक्रामं जुहोतीति। किंच—
यथाभूतेन्द्रियोत्पाद्यमात्मकर्तृकमिष्यते।
तथा तल्लक्षितव्यक्तिसाध्यं तत्साध्यमुच्यते॥ ३२॥
तस्मादाकृतिः पदार्थ इति।
कथं तर्ह्याचार्याणां मतविरोधो जातिर्व्यक्तिराकृतिश्‍च पदार्थ इति? गवादि— शब्दैस्तद्वतोऽभिधानात्।
ननु कोऽयं तद्वान्नाम्? तदस्यास्तीति तद्वानिति विशेष एवाकार— सामान्यवानुच्यते। विशेषवाच्यत्वे चानन्त्यव्यभिचारौ तदवस्थौ। सामान्यं च शब्देनानुच्यमानं नोपलक्षणं भवति। उभयाभिधाने च शब्दास्यातिभार इत्युक्तम्।
उच्यते नेदंतया निर्दिश्‍यमानः शाबलेयादिर्विशेषस्तद्वान्। न च सर्वः त्रैलोक्‍यवर्तिव्यक्ति व्रातः तद्वान्, किन्तु सामान्याश्रयः कश्‍चिदनुल्लिखित— शाबलेयादिविशेषः तद्‍वानित्युच्यते। सामान्याश्रयत्वाच्च नानन्त्यव्यभिचार— योस्तत्रावकाशः। न च विशेषणमभिधाय विशेष्यमभिदधाति शब्द इत्युपगच्छामो, येनैनमतिभारेण पीडयेम। सामान्याश्रयत्वमात्रे सङ्केतग्रहणात् तावन्मात्रं वदतः शब्दस्य कोऽतिभारः? किंच—
प्रत्यक्षं न च निष्कृष्टजात्यंशपरिनिष्ठतम्।
तद्‍गोचरप्रवृत्तश्‍च शब्दस्तत्कथयेत् कथम्॥ ३३॥
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →