Skip to main content
Search
Ch. 6 SP 6.291
Full Chapter
SP • Chapter 6: Prakāśa 6: विभक्त्यर्थादिचतुष्टयप्रकाशः

SP 6.291

Canonical Ref: SP 6.291
Sanskrit (Devanāgarī)
प्रत्यक्षविषये च गौरित्यादिपदं प्रयुज्यते। प्रत्यक्षं चाकृतिविषयम्। अश्वपिण्डसन्निवेशाद्धि विलक्षणो गोपिण्डसन्निवेश इन्द्रियेण प्रतीयते। तत्कृतमेव च वस्तूनामितरेतरवैलक्षण्यम्। अतः प्रत्यक्षविषये गौरित्यादिपदं प्रवर्तमानमाकृतावेव प्रवर्तितुमुत्सहते। अपि च 'श्‍येनचितं चिन्वीते'ति न जातिश्‍चीयते, न व्यक्तिः, अपि तु आकृतिरेव। प्रदीपप्रवाहादीनां च शब्दानामाकृतिरेवार्थोऽभ्युपेयः। न ह्येषामर्थेषु व्यवस्थितं जातिरूपं व्यक्तिरूपं वा समस्ति। यदि चाकृतिश्शब्दार्थो व भवेत्, कथमिव गवादिशब्दैः गवाद्याकारमेव ज्ञानं जन्येत? अपि (च) 'तानेव शाटकानाच्छादयामो ये पाटलिपुत्रे, तानेव शालीन्भुञ्ज्महे ये मधुरायाम्' (मभा.१.१.२) इति योऽयमेवंप्रकारो व्यवहारः, स आकृतावेव पदार्थे सङ्गच्छते। यच्च व्रीह्यादेर्मुख्यस्याभावे नीवारादिभिः प्रतिनिधिभिः कर्म समाप्यते तदाकृतेः अशब्दार्थत्वे समापितमप्यङ्गहीनत्वादफलमेव प्राप्‍नोति; नीवारादौ व्रीह्यादिजातिव्यक्‍त्योरभावात्। यश्‍चायमर्चादिप्रतिकृतौ वासुदेवादिशब्दप्रयोगः, सोऽप्याकृतावेव पदार्थे युज्यते। किंचात्यनतमदृष्टेष्वप्यर्थेषु शब्दाद् आकारविषयः प्रत्यय उपजायमानो दृश्‍यते। तद्यथा— इन्द्रः स्कन्दो वैश्रवण इति। तच्चाकृतेरेव शब्दार्थत्वे उपपद्यते। सम्बन्धग्रहणं चास्य जातिवदुपपत्स्यते, समस्तगवीष्वपि गोसंस्थानस्यैकरूपत्वात्। मुख्यगौणभावे तु प्रसिद्धिरप्रसिद्धिश्‍च नियामिका भविष्यति। प्रोक्षणादिक्रिया शुक्‍लादिगुणयोगश्‍च व्यक्तिद्वारा आकृतेरुपपत्स्यते। न चामूर्तत्वादाकृतेरक्रियाङ्गत्वं, अमूर्तानामपि गुणकर्मणां क्रियाङ्गत्वात्। अरुणया क्रीणाति, अभिक्रामं जुहोतीति। किंच—
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 6.291. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 6.290) All Verses in Chapter 6 Next Verse (SP 6.292) →