Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 06

Prakāśa 6: विभक्त्यर्थादिचतुष्टयप्रकाशः

प्रकाशः 6 • विभक्त्यर्थादिचतुष्टयप्रकाशः

Prakāśa 6 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 595 Verses • Citations: SP 6.1–595 • 4 Lexicon Terms • Page 3 of 20 (Verses 30 shown)
यद्येतौ व्याधितौ स्यातां देयं स्यादिदमौषधम्॥ ८॥
यतस्तदौषधमेकस्यापि दीयमानं वातादिविकारं शमयितुं शक्‍नोति। एवं तर्हि यत्र पराङ्गतया जातिर्विधीयते, तत्र संख्या विवक्ष्यते, यत्र तु स्वसंस्कारप्रतिपत्तयेऽनूद्यते तत्र न विवक्ष्यते। यथा पशुना यजेत, ग्रहं संमार्ष्‍टीति। तदेतदुभयमपि उदाहरणमात्रेणाशक्यं प्रतिपत्तुमिति युक्तिरभिधातव्या। सेयमुच्यते—पशुना यजेतेति यागस्य फलवत्तया प्राधान्यं, तदङ्गं पशुः, अङ्गं च यत्प्रधानस्योपकरोति। एकेनैव पशुना कृतः प्रधानस्योपकार इति द्वितीयो नोपादीयते। यदि हि यस्य यावन्तः पशवस्सन्ति स तावत उपादत्त इत्याश्रीयते, प्रकृतस्य यागस्यैकेन पशुना, समापितत्वादितरवैयर्थ्यं मा भूदिति यागान्तराणि क्रियन्ते। गुणेन द्रव्येण प्रधानं यागः प्रयुक्तस्स्यात्। न चैष न्यायो यद्‍गुणः प्रधानं प्रयुङ्क्ते। किंच पशुमालभेत, पशुना यजेतेत्यादौ क्रियाङ्गभावेनाप्रज्ञातस्य पशोस्साधनभावप्रख्यापनायेदमुत्पत्तिवाक्यम्। तत्र शब्ददर्शनावसेयत्वादर्थस्य यथाभूतं शब्द आह तथाभूतस्सोऽर्थोऽनुगततया समाश्रीयते। शब्देऽन्वयव्यतिरेकाभ्यां प्रकृतेर्जातिरिव विभक्तस्संख्याभिधेयत्वेनावधार्यते। यदि च द्वितीयस्य पशोरूपादानमन्तरेण शब्दार्थो न समाप्येत, क्रिया वा न निवर्त्येत, तदोपदीयेतापि द्वितीयः। पशुत्वजातेश्‍च प्रतिव्यक्त्यविकल्पात्मनः समाप्‍तत्वादेकपश्वदानैश्‍च यागक्रियाभिनिर्वृत्तेर्द्वितीयो नोपादीयते।
न च पशुना यजेतेत्यस्यास्संख्याया विरोधिनी संख्या उत्पात्तिवाक्यगता काचिद्‌विद्यते यदनुरोधादियं त्यज्येत, यस्मादिदमेव पशोरूत्पत्तिवाक्यम्, अतश्शब्दवत्त्वात् सङ्ख्यान्तरेण चाविरोधात्। पशुना यजेतेत्यादौ सङ्ख्या विवक्ष्यते, ग्रहं संमार्ष्‍टीत्यत्र तु न विवक्ष्यते। यस्मात् प्राजापत्या नव ग्रहा भवन्तीत्यादौ ग्रहाणामुत्पत्तिवाक्ये या अनेकत्वसङ्ख्या सा प्रधानविषया, तत्र ग्रहाणां विंधीयमानत्वात्। ग्रहं संमार्ष्‍टीत्यत्र तु या एकत्वसंख्या सा शेषविषया, सम्मार्गस्यं विधीयमानत्वात्, तदधिकरणसंपदनार्थत्वाद् ग्रहशब्दस्य।
न च युक्तं यत्प्रधानसम्बन्धिनी संख्या शेषसंख्यया बाध्यते।
ननु चोत्पत्तिवाक्यवशेनानेक एव ग्रहो गृह्येत। ग्रहमित्येतस्माच्‍चैक— वचनादेकस्सम्मृज्येत। किमत्र बाधितं स्यात् ? एवं तर्हि विधानवाक्ये पूर्वमेव प्रज्ञाताङ्गभावाः सम्मार्गमपूर्वं विधातुं केवलं ग्रहमित्यनेन स्मृतौ संनिवेश्यन्ते।
ग्रहस्मृतिश्‍चानुभवसामर्थ्यादुद्‍भवन्ती यथानुभूतानेवार्थान् दर्शयतीति नैको ग्रहस्संमृज्यते।
ननु च यथा पूर्वानुभूतचमसाद्यनेकपदार्थसन्निधौ संमार्गविधानाय ग्रहश्रुति— र्ग्रहाणामेव स्मारयति न चमसादीनां तथैवानेकग्रहसंन्निधावेकवचनमेकस्यैव स्मारयेत्। येन हि बहवोऽनुभूतास्तेनैकोऽप्यनुभूत एव।
सत्यमेतत्, किन्तु प्रतीयमानोऽप्यसौ संख्याभेदः क्रियां प्रत्यविधीय— मानत्वादसमर्थः क्रियामेकस्मिन्नवस्थापयितुम्। अविधीयमानश्‍च संख्याभेदः, यतोऽत्रश्रुत्या ग्रहस्य संमार्गो विधीयते। तदेतावति पर्यवसितं वाक्यम्। न चापरश्शब्दोऽस्ति, येनैकस्य स विधीयेत। न चैकश्शब्द उभयं शक्‍नोति विधातुम् अप्रज्ञातं संमार्गं प्रज्ञातस्य चैकत्वेन संबन्धमिति, प्रवृत्तिभेदात्।
अथ ग्रहैकत्वाभ्यां विशिष्‍टस्संमार्गो विधीयते, न भिद्येत प्रवृत्तिः; अर्थस्तु नैवं, यतो ग्रहार्थः संमार्गस्तस्य प्रयोजनवत्त्वात्।
विभक्तिविशेषश्‍च प्राधान्यं ग्रहस्य दर्शयति। अतो न विधीयते सङ्ख्या।
इह तर्हि कथं चित्रगवीं वध्‍नतीति चित्रो गुणो विधीयते, यतोऽत्रापि गोरस्वतन्त्रीकारस्तस्याश्‍च चित्राया इति भिद्यते प्रवृत्तिः; गुणद्रव्ययोगस्य श्रुत्यैवाभि— धीयमानत्वात्, तद्‍‌विषयत्वाच्‍च क्रियाया नात्रापराध इति चेद्, ग्रहमित्यपि श्रुतिरेव सङ्ख्यायास्तदधिकरणस्य च द्रव्यस्य क्रियाङ्गभावमभिधत्ते। तथा शोणं योजयेदित्ये— कशब्दोपादानयोर्जातिगुणयोरङ्गीकरणम्। एवं तर्हि स्वार्थायां प्रवृत्तौ सङ्ख्याभेदस्य विधातुमशक्यत्वादविवक्षिता सङ्ख्या, यथा ग्रहं संमार्ष्‍टीति। अत्र ग्रहार्थत्वात् संमार्गस्य प्रधानं ग्रहाः, तदङ्गं संमार्गः (पम. १.२.६४)। पशुना यजेत, शोणं योजयेत्, चित्रगवीं बध्‌नातीत्यादौ तु यागादिकर्मार्थत्वात् पश्वादीनामप्रधानानां ससङ्ख्यानां सगुणानां च विशिष्‍टानामेव विधानमिति विवक्ष्यते सङ्ख्या गुणश्‍चेति। आचार्यप्रवृत्तिरप्येतदेव ज्ञापयति 'प्रधाने संख्या न विवक्ष्यते, गुणे तु विवक्ष्यत' (पम. १.२.६४) इति। तथा हि— 'सरूपाणामेकशेष' इति कर्मसाधने शेषशब्दे शेषशब्दाभिधेयस्य द्रव्यस्य साधुत्वाद् व्याख्यानेनाभिधीयमानसंस्कारत्वात् प्राधान्यम्। अतः स्वार्थे प्रवर्तमानस्याविवक्षित— सङ्ख्यात्वादेकशब्दोपादानं कृतमेकश्शिष्यत इति। तदेत लिङ्गं प्रधानस्याविवक्षिता संख्येति। एवं सुबन्तं सुबन्तेन समस्यत इति संख्याया अङ्गीकरणाद् बहूनां समासो न भवति, यथा महत्कष्‍टं श्रित (मभा. २.१.१) इति। अत्र ह्येवंप्रकारावयव— सन्निवेशावच्छिन्नस्समुदायस्साधुरित्यन्वाख्यायते। अतोऽवयवपरामर्शोपायेन समुदायस्य संस्काराधानप्रक्रमे प्रधानं समुदायस्तमुद्दिश्य प्रवर्तमाना अवयवा उपात्तसङ्ख्याविशेषाङ्गी— करणेन प्रवर्तन्ते। यत्र तु यत्‍नान्तरमारभते तत्र बहूनामपि भवति, यथा 'कालाः परिमाणिना' (२.२.५) इति; बहुवचनाद् द्व‍यह्नजातः (पम. २.२.५) इति। यथा च बहुव्रीहिद्वन्द्वविधावनेकग्रहणान्मत्तबहुमातङ्गं वनं, धवखदिरपलाशा इति। क्‍वचित् पुनर्गुणेऽपि सङ्ख्या न विवक्ष्यते, यत्र तदविवक्षया प्रधानान्तरस्य सिद्धिर्भवित, यथा 'कर्तुरीप्सिततमं कर्म' (१.४.४९) इति। अत्र हीप्सिततमस्य कर्मसंज्ञायां विधीयमानायाम् ईप्सया अवच्छेदायोपादीयमानः कर्ता यद्याश्रितैकत्वसंख्यः प्रतीयेत, अनेकस्येप्सितं वस्तु कर्मसंज्ञासंबन्धादपेयात्। अतः प्रधानसंस्कारोपरोधतिरस्काराय कर्तानपेक्षितसंख्या— विशेषस्समाश्रीयते।
ननु च प्रयोजनमिदं प्रधानान्तरसिद्धिः। तस्मादविवक्षायामुपपत्तिर्वक्तव्या।
इयमुच्यते सामान्यनिबन्धनत्वादीप्सिततमशब्दस्य संबन्धिनामविशेषेण प्रसक्तौ साधनान्तरोच्छित्तये कर्तृग्रहणं क्रियते। तदुपात्तविपरीतप्रतिषेधमात्रोपक्षयमसमर्थं संख्याभेदमङ्गीकर्तुमिति।
शक्तिः पुनरप्रधाने प्रधाने वा संख्यावति विभक्त्या विधीयमाना विवक्षामेवानुरूध्यते। एवं च यथा पश्वादीनां ससंख्यानां तथा ग्रहादीनामसंख्यानामेव क्रियासु साधनभावो भवति। कथं पुनः पश्वादिगता संख्या साधनत्वेनावगम्यते, यावता प्रातिपदिकार्थस्य साक्षात् पारम्पर्येण वा संबन्धिसाधनत्वं संख्या च विभक्त्या विधीयते। न तु संख्यासाधनत्वयोः परस्परेण संबन्धोऽस्ति। एवं तर्हि प्रथमतरं व्यक्तिस्संख्यया संबध्यते। संख्या संसर्गप्राप्‍तातिशया तु साधनभावेन। सोऽयं साधनभावो विशिष्‍टे निपाताद् विशेषणमपि साधनमित्यावेदयति। यथा सायुधेन जितमिति।
कुतः पुनरयं संख्यासाधनत्वयोरेकशब्दोपनिबन्धनयोरस१निबन्धकारिकालभेदेन संबन्धः ?
न ह्येतदस्ति। संख्यया संसर्गमनवाप्य न शक्‍नोति साधनभावमासादयितुमिति। एवं तर्हि संख्यासाधनभावाभ्यां व्यक्तिस्संबध्यते। ताभ्यामुत्पादितात्मातिशयामाख्यात— विभक्तिस्तां क्रियासु विनियुङ्क्ते। सा विशिष्‍टा क्रियासंबन्धमनुभवतीति विशेषणमपि क्रियासंबद्धं प्रतीयते।
१. 'असनिबन्ध; सह निबन्धः सनिबन्धः; स न भवतीति असनिबन्धः' इति राघवाचार्यः।
ननु च कर्मकरणादिकारकं विभक्‍त्यर्थः, तच्‍च क्रियासिद्धावुपात्तव्यापार— त्वाच्छक्तिमद्‌द्रव्यमेव तस्मिंश्‍च प्रातिपदिकेनैवोक्ते किं विभक्‍त्योच्यते ?
द्विधा हि द्रव्यं सत्त्वभूतमसत्त्वभूतं च। तयोश्शक्तिसङ्ख्याश्रयस्सत्त्वभूतं वृक्षाद्यर्थः। तदनांश्रयोऽसत्त्वभूतमव्ययाद्यर्थः। तदुभयमपि निरुपाध्येव प्रातिपदि— केनोच्यते। तदाश्रितास्तु सशक्तिसङ्ख्यासंबन्धोपाधयो विभक्‍त्येति। ननु च
स्वरूपादुद्‌भवत् कार्यं सहकार्युपबृंहितम्।
नैव कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम्॥ ९॥
शक्तिर्हि कल्प्यमाना पदार्थस्वरूपवन्नित्या वा स्यात् कार्या वा ? तत्र नित्यत्वे नित्यमेव कार्योत्पादप्रसङ्गः। सहकार्यपेक्षा तु स्वरूपस्यैवास्तु किं शक्‍त्या ? कार्यत्वे तु पदार्थस्वरूपमात्रकार्यतायां सदा शक्तेरुत्पादात् सदैव कार्योत्पादः। सामग्रीकार्यं तु कार्यमेवास्तु, किमन्तराले शक्त्या ? अशक्तात् कारकात् कार्यानिष्पत्तिरिति चेच्छक्तिरपि कार्यं, तदुत्पत्तौ शक्‍त्यन्तरकल्पनादनवस्था; अन्यथाऽभ्युपगमव्याघातः।
आह, दृष्टसिद्धये ह्यदृष्टं कल्प्यते। शक्‍त्यन्तरकल्पनायाः शक्तिश्रेणनिर्माण एव क्षीणत्वात् कारकाणां मा भूत् कार्यव्याघात इत्येकैव शक्तिः कल्‍प्यते, तत्कुतोऽनवस्था ?
नैवम्, अन्यथापि तदुपपत्तेः। यदि ह्यर्थव्यक्तिः क्रियासु प्रतिहन्येत तदा तदतिरिक्तशक्तिकल्पना युक्तेति। अप्रतिहताश्‍च सहकारिलाभादपि कार्योपजनाश्‍चार्थ— व्यक्तयः। तत्किं वृथा शक्तिकल्पनयेति।
ननु शक्तिमन्तरेण कारकं कारकमेव न भवेत्, भावतत्त्वस्य क्रियासु प्रतिघातात्। रूपमेव हि दृश्‍यते न रसादि, दर्शनायतनं पश्‍यति न रसनादि, रस एव रस्यते न रूपादि, रसनमेव रसयति न चक्षुरादि, आप एव पिपासामपनयन्ति न त्वग्‍नि, अग्‍निरेव शीतं शमयति न त्वाप इति। अप्रतिघाते हि वस्तुस्वरूपाविशेषात् सर्वस्मात्‌सर्वकार्योदयप्रसङ्गः। ततश्‍चक्षुरिव रसनमपि पश्‍येत्, रूपमिव रसोऽपि दृश्‍येत, रसनमिव चक्षुरपि रसयेत्, रस इव रूपमपि रस्येत, आप इवाग्‍निरपि पिपासामपनयेत्, अग्‍निरिवापोऽपि शीतं शमयेयुः। यथा च तैलार्थिना तिला उपादीयन्ते तथा सिकता अप्युपादीयेरन्। यथा वा पादपं छेत्तुमनसा परशुरुद्यम्यते तथा पादुकाद्यप्युद्यम्येत। अपि च विषदहनयोर्मारणे दाहे च शक्तावनिष्यमाणायां मन्त्रप्रतिबद्धायां यत्तयोस्स्वकार्यौदासीन्यं तत्र का युक्तिः ?
चक्षुः श्रोत्रयोर्वा दर्शने श्रवणे च रोगादिना यत् स्वकार्याकरणं तत्र कोपपत्तिः ? न हि मन्त्रादिना रोगादिना वा तत्स्वरूपाणि सहकारिणो वा प्रतिबध्यन्ते, तद्रूपेणैव तेषामुपलम्भात्। शक्तयस्तु प्रतिबध्यन्त इति सत्स्वपि स्वरूपसहकारिषु कार्यानुत्पादो युक्तः। तस्माद् यथा सुखादिकार्यानुमितमदृष्टं, सातिशयबुद्धिनिबन्धन— स्मृतिप्रत्ययहेतुस्संकारः, क्रियाविशेषजनितः क्रियान्तरप्रसवोपयोगी वेग इत्याद्य— परमतीन्द्रियमेव कल्‍प्यते भवद्भिः, तथा शक्तिरपि कार्यातिशयकारणमतीन्द्रिया कल्‍प्यतामिति।
तदनुपपन्नम्; शक्तिमन्तरेणापि क्रियाप्रतिघातादीनामुपपत्तेः। स्वकारणपरम्परा— यातनियतस्वभावतयैव भिन्नस्वभावा रसादयो रूपादिभ्यस्ते कथं रूपादिसाध्या— मर्थक्रियामतथाभूतास्साधयेयुः ? नियोगतश्‍चेतदङ्गीकर्त्तव्यम्; शक्तिकल्पनायामपि तुल्यानुयोगित्वात्। कथमेताश्शक्तयो नियताधारा न पुनरवयवेन शक्तीर्व्याप्‍नुवन्तीति। पदार्थस्वरूपातिशयादिति चेत्कार्यभेदोऽपि तत एव सेत्स्यति। अपि चाश्रयस्य भेदे कथं शक्तिभेदः ? यतो वा शक्तयः प्राप्‍तरूपभेदास्तत एवाश्रयरूपभेदेन कार्यभेदसिद्धेः किं शक्तिभेदकल्पनेन ? यास्तर्हि तुल्यरूपा व्यक्तयः कार्यमतुल्यं साधयन्ति तासु कथम् ? यथा गल्वर्ताश्‍चन्द्रकान्तिभिः स्यन्दन्ते न सूर्यग्रावणः, करका अर्कांशुभिर्विलीयन्ते, न मुक्तामणयः, आन्तरं तेजः पश्‍यति न बाह्यम्, प्राणो वायुः प्राणिति न व्यानः, श्रोत्राकाशश्शृणोति न वक्त्राकाशः, विद्वान् क्रियास्वधिक्रियते नाविद्वानिति तुल्यजातीयत्वेऽपि तेषामदृष्टप्रतिनियमो द्रव्यान्तरसंपर्कभेदश्‍च कार्यभेदं व्यवस्थापयति। यास्तर्ह्यभिन्ना भिन्नमर्थव्यक्तयः कार्यं साधयन्ति तासु कथम् ? यथा— तदेव तेजो दहति प्रकाशयति शीतं चापनुदति, ता एवापः प्लावयन्ति, क्‍लमं चापनयन्ति, तादृशः स तेजसः पयसो वा रूपातिशयः कर्मण इव संयोगाविभागवेगानुकूलता, धर्मस्येव सुखज्ञानापवर्गकारणत्वमिति। उपादाननियमे तु न वयमन्यं कंचिदभिनवं भावानां कार्यकारणभावमुत्पादयामः, किंतु यथा प्राप्‍तमनुसरन्तो व्यवहारामः (न्यायमं.)। तत्र तैलोत्पादपादपच्छेदादावन्वयव्यतिरेकाभ्यां वृद्धव्यवहाराद्वा तिलपरश्वधादेरेव कारणत्वमवगच्छाम इति तदेव तदर्थिन उपादद्महे, न सिकतापादुकादीति। न च तिलादेः परश्वाधादेर्वा स्वरूपे सत्यपि सदा कार्योदयः। स्वरूपवत् सहकारिसन्निधेरप्यपेक्षणीयस्य सर्वदानुपपत्तेः। सहकारिवर्गे च धर्मादिकमपि निपतति; तदपेक्षे च कार्योत्पादे कथं सर्वस्मात् सर्वसम्भवः ? धर्मादीनां तु जगद्‌वैचित्र्यादिकार्यबलेन कल्पनमपरिहार्यम्। यद्यपि विषदहनयोः सन्निधाने सत्यपि मन्त्रोपयोगात्‌तत्कार्याजननं तदपि न शक्तिप्रतिबन्धनिबन्धनम्। अपि तु सामग्र्यन्तरानुप्रेवेशहेतुकम्।
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →