Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 06

Prakāśa 6: विभक्त्यर्थादिचतुष्टयप्रकाशः

प्रकाशः 6 • विभक्त्यर्थादिचतुष्टयप्रकाशः

Prakāśa 6 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 595 Verses • Citations: SP 6.1–595 • 4 Lexicon Terms • Page 8 of 20 (Verses 30 shown)
क्रियाव्यक्तिः द्विधा— कर्त्राश्रिता, कर्माश्रिता च। तयोः—
आद्या यथा आस्ते देवदत्तः, प्रस्‍नुते गौः स्वयमेवेति।
द्वितीया यथा पच्यते ओदनः, लूयते केदारः स्वयमेवेति।
व्यक्तिप्रतिरूपमाकृतिः।
सा त्रिधा— द्रव्याकृतिः, गुणाकृतिः, क्रियाकृतिश्‍च। तासु— द्रव्याकृतिः द्विधा— श्रुतदशा, दृष्टदशा च। तयोः
आद्या यथा अस्यां दृषदि वासुदेवः क्रियताम्, अस्यां भित्तौ कामदेवो लिख्यताम्, अत्र ध्वजे हनूमान् बध्यतामिति।
द्वितीया यथा अमी पिष्टपिण्डाः सिंहाः क्रियन्ताम् (न्यायवा. २.२.६७), अयं कूपे चन्द्रमाः, अयमाकाशे देवपथ इति।
गुणाकृतिः द्विधा— प्रत्यक्षाश्रया, अनुमानाश्रया च। तयो—
आद्या यथा वध्रिका दर्शनीयो मनुष्यः, चञ्चा रमणीयः (मभा. १.२.५२), तदेतद्घुणाक्षरं रूपमिति।
द्वितीया यथा अहो मुग्धं रूपमालेख्यस्य, विदग्ध आकारश्‍चित्रस्य, सौम्या मूर्तिः प्रतिमाया इति।
क्रियाकृतिः द्विधा— कायक्रियाधारा, मनःक्रियाधारा च। तयोः
आद्या यथा ऋज्वाग(य)तं तमालेख्यम् (लीनम्), साचिमुखवर्तकः परावर्तकं स्थानमिति।
द्वितीया यथा भीता दृष्टिः, त्रस्त आकारः, सविकारं रूपमिति।
ननु च जातिरेव शब्दार्थ इति जैमिनीयाः। जैमिनिर्हि—
जातिमेवाकृतिं प्राह व्यक्तिराक्षिप्यते पया।
सामान्यं तच्च पिण्डानामेकबुद्धिनिबन्धनम्॥ १५॥
ननु च सास्‍नादीनां सन्निवेश आकृतिः। न चासौ जौमिनिमतेऽपि न पृथगस्ति। यदाह भाष्यकारः — अथ गौरित्यत्र कश्शब्दार्थः सास्‍नादिविशिष्टा आकृतिरिति। ततश्‍च सैव शब्दार्थो भवति। नैवम्; एवं सति संस्थानस्य प्रतिव्यक्तिभिन्नत्वात्, आनन्त्यव्यभिचाराभ्यां सम्बन्धस्य ग्रहीतुमशक्‍यत्वात्। न च विद्यमानायामप्याकृतौ गामानयेत्युक्तश्‍चित्रपुस्तमयीं कश्‍चिद् गामानयति ननु जातिपक्षेऽपि जातेस्सर्वगत— त्वमिति मृद्गवकानयनं (न्या.सू. २.२.६३) न भवति; सास्‍नादिमतः प्राणिन एव गोत्वाभिव्यञ्जकत्वात्। अतो नाकृतिर्जातेः पृथक्छब्दार्थ इति।
व्यक्तिरपि न शब्दार्थः, सा हि व्यक्तिमात्रं वा स्याद् विशिष्टा वा। न तावद्‍व्यक्तिमात्रं, अश्वादिव्यक्तावपि गौरिति ज्ञानाभिधानयोः प्रसङ्गात्। अथ गोत्वविशिष्टा?
तद्गोत्वमवगतमनवगतं वा विशेषणं भवति ?
नानवगतमतिप्रसङ्गात्; अवगमस्तु शब्दात् प्रमाणान्तरतो वा; न प्रमाणान्तरतः, तदसन्निधानात्। शब्दतस्तु गोत्वावगमे तदेव प्रथमतश्शब्दोऽभिदधाति, नागृहीतविशेषणा विशेष्ये बुद्धिरिति न्यायात्। ननु जातिं विशेषणत्वेन विशेष्येत्वेन च व्यक्तिं गोशब्दो वक्ष्यति; न शक्‍नोति वक्‍तुमतिभारात् तदाह—
विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे॥ १६॥
ननु दण्ड्यादिशब्दादिव विशेषणं जातिं विशेष्यां च व्यक्तिं गोशब्दादेव प्रतिपत्स्यामहे; तत्कोऽस्यातिभारः?
विषम उपन्यासः। तत्र हि प्रकृतिप्रत्ययविभागेन प्रकृत्यर्थविशिष्टः प्रत्ययार्थोऽवगम्यते। गोशब्देन तु नैवमिति। न च व्यक्त्यवगतौ गतिरन्या नास्ति, येनोभयाभिधानं कल्प्यते। अविनाभावबलेन जातिप्रतीतावपि तत्प्रतीतिसिद्धेः। यदि च व्यक्तिश्शब्दार्थो भवेत्, व्यक्‍त्यन्तरे गोशब्दो न प्रयुज्यते। न च न प्रयुज्यते, तस्मात् सर्वव्यक्तिसाधारणी जातिरस्यार्थः, न व्यक्तिः।
ननु च व्यक्‍त्यन्तरमपि व्यक्तिरेव। सोऽयं व्यक्तौ गोशब्दः प्रयुक्तो, न सामान्ये। नैवम्। एवं सति कर्कादिव्यक्तावपि प्रसङ्गः। यत्रास्य प्रयोगो दृष्टस्तत्र प्रयुज्यत इति चेत्, अद्य जातायां गवि मा प्रयोजि। अपि च व्यक्तौ पदार्थे 'इयमियं वा गौरिति प्रतीतिः स्यात्, न पुनरियमियं चेति। न च आकृताविव व्यक्तावप्यानन्त्य— व्यभिचाराभ्यां सम्बन्धग्रहणमुपपद्यत इति।
कथं पुनरिमा जातयः परस्परतो व्यावर्तमानशरीरा भवेयुः? रूपमेव ह्यासां परस्परतो व्यावर्त्तते। विषयरूपानुरोधी च प्रत्ययः स्वाकारभेदेन तदवच्छिनत्ति। तदनुविधायिनश्‍च शब्दास्तथैव तदुपाददते। एवं तर्हि नित्यत्वादासां तद्रूपावसायस्सदा प्रसज्येत।
नैवम्; असन्निहिताश्रयाणामनभिव्यक्तेः। यद्येवमभिव्यञ्जकवशादवसायस्ता— सामिति सोपव्यञ्जनाश्शब्दैरभिधीयेरन्।
तन्न। यथा काचादर्शोदकादिषु प्रतीयमानभेदो मुखादिरर्थः काचादिदर्शनाऽपेक्षो न प्रतीयते। न च काचादिभिरुपदर्शितमर्थमभिदधानाः शब्दाः काचादीनुपाददते, तथा व्यक्तिभिरुपदर्शितरूपविभागा जातयस्ताभिरसंस्पृष्टा एव शब्दैः प्रत्याय्यन्ते। कथं पुनराश्रयाश्शब्देन असंस्पृश्‍यमानभेदा अपि जातिभेदावगमाय कल्पन्ते, यथा चक्षुरादयोऽप्रतीयमाना अपि रूपादिविषयविशेषप्रतिपत्तये। तदुक्तम्—
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →