Skip to main content
Search
Ch. 6 SP 6.453
Full Chapter
SP • Chapter 6: Prakāśa 6: विभक्त्यर्थादिचतुष्टयप्रकाशः

SP 6.453

Canonical Ref: SP 6.453
Sanskrit (Devanāgarī)
पाश्‍चात्त्य इत्यत्र किं प्रमाणमिति चेत् अनुपादेयविशेषणविशिष्‍टस्य पुंसो निर्देशस्तस्मादधिकृतस्य कर्तृत्वं, कर्तुरधिकार इति। इत्थं च स्वर्गकामस्याधिकारो निर्वहति। यदि तत्कर्म स्वर्गकामं स्यात् स्वर्गोऽपि भोग्यो भवेत्। कथमहं स्वर्गं प्राप्नुयामित्येवं साध्यत्वेन स्वर्गमिच्छन् स्वर्गकाम उच्यते। यदि च न स्वर्गसाधनं कर्म स्यात् तद्विरुद्धमिदमापतति स्वर्गं कामयते यागं करोति, अन्यदिच्छत्यन्यत्करोतीति। अतः कर्मणि काम्यमाने साधनताम् (अ)प्रतिपद्यमानः स्वर्गकामस्तत्र नैवाधिक्रियते। न चानधिक्रियमाणस्तत्र सम्बध्यते। तदेवमधिकृतत्वेन स्वर्गकामस्य कर्मणि सम्बन्धात् स्वर्गयागयोश्‍च साध्यसाधनभावावगममन्तरेणाधिकास्यानिर्वाहाद् अवश्यं क्रियायां साधनत्वं स्वर्गस्य च साध्यतवमभ्युपगन्तव्यम्। अतश्‍च क्रियायाः फलं प्रति गुणभावादप्राधान्यम्, अप्राधान्याच्च न वाक्यार्थत्वम्। तदुक्तम् "कर्माण्यपि हि जैमिनिः फलार्थत्वाद्" इति। का चेयं क्रिया? वाक्यार्थ इत्युच्यते य एष यागादिर्भावार्थो धातुवाच्यः, उत प्रत्ययार्थः, कश्‍चिदतिरिक्त इति। तत्र भावार्थस्य काम्यमानसाधनत्वादप्राधान्यमुक्तमेव। प्रत्ययार्थस्तु काम्यमानभावार्थगतसाध्यसाधन— सम्बन्धापरित्यागेनैव वाक्‍यार्थतां प्रतिपद्यते। तस्मान्न क्रियामात्रपर्यवसायी वाक्‍यार्थ इति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 6.453. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 6.452) All Verses in Chapter 6 Next Verse (SP 6.454) →