Skip to main content
Search
Ch. 6 SP 6.333
Full Chapter
SP • Chapter 6: Prakāśa 6: विभक्त्यर्थादिचतुष्टयप्रकाशः

SP 6.333

Canonical Ref: SP 6.333
Sanskrit (Devanāgarī)
तदिदमुक्तं भगवताक्षपादेन, 'व्यक्त्याकृतिजातयस्तु पदार्थ' (न्यायसू. २.२.६५) इति। तुशब्दो विशेषार्थः; किं विशेष्यते? गुणप्रधानभावस्यानियमेन शब्दार्थत्वम्। अतः स्थितेऽपि तद्वतो वाच्यत्वे क्‍वचित्प्रयोगे जातेः प्राधान्यं व्यक्तेरङ्गभावः, यथा गौः पदा न स्प्रष्टव्येति सर्वगवीषु प्रतिषेधोऽवगम्यते। क्वचिद्‍व्यक्तेः प्राधान्यं जातेरङ्गभावः, यथा गां मुञ्च गां बधानेति नियतां कांचिद्‍व्यक्तिमुद्दिश्‍य प्रयुज्यते। क्‍वचिदाकृतेः प्राधान्यं व्यक्तेरङ्गभावः, जातिस्तु नास्त्येव। यथा पिष्टमय्यो गावः क्रियन्तामिति, तत्सन्निवेशचिकीर्षया प्रयोग इति। गुणशब्दास्तु केचित् स्वजात्यवच्छिन्नं गुणमभिधाय तावत्येव विरमन्ति। केचित्तु 'गुणमभिधाय द्रव्यमप्याक्षिपन्ति।' तत्सामानाधिकरण्ये प्रयोगदर्शनात्। तद्यथा—
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 6.333. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 6.332) All Verses in Chapter 6 Next Verse (SP 6.334) →